प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 203, कुल 274 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः १८५
सिन्धोः फेनसमे गते वपुषि यत्पञ्चात्मके पञ्चताम् ॥ १४ ॥
तद्भावय भावानामनित्यताम् । नित्यमनित्यवस्तुदर्शिनो न पश्यति
शोकावेगम् । यतः—
एकमेव सदा ब्रह्म सत्यमन्यद्विकल्पितम् ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ १५ ॥
मुदयते प्रादुरास्ते । कल्पशतायुषां तेषां तेषां पदार्थानामपि जाते नाशे यदि लोकः
क्षित्यादिपञ्चकसमुदायात्मनो वपुषो विघटनरूपपञ्चताप्राप्त्या दारुणं शोकमनुभवति
महदाश्चर्यमिदमिति तात्पर्यम् । पृथिवीजलतेजोव्योमवायवः पञ्चतत्त्वानि, तेषामेव
पञ्चीकारेणास्य सचराचरस्य जगतो जन्म, तद्विघटनेन चापाय इति सिद्धान्तमनु-
रुध्यायं श्लोकः । पञ्चीकरणप्रकारो यथा 'द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः
स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्चते' । इति पञ्चात्मकस्य पञ्चताप्राप्तिस्तु क्लृप्तैव
न तत्र कोऽपि हेतुराश्चर्यस्याथापि लोकानां व्यवहार आश्चर्यमुद्भावयतीति पर-
मार्थः। ‘कल्पो युगचतुष्टयम्’ ‘धानाब्जयोनिर्द्रुहिणः' इत्युभयत्राभिधानप्रकाशः ।
शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥
तत्-संसारस्य विनाशित्वात् । भावानाम्-सर्वेषां पदार्थानाम् । अनित्यताम्-
विनाशिभावम् । भावय-विचारेण निर्धारय ।
नित्यम्-अहरहः । अनित्यवस्तुदर्शनः संसारस्थितानित्यवस्तुद्रष्टा । शोका-
वेगम्-दुःखातिशयम् । अहरहर्जगतोऽनित्यस्य क्षयं वीक्षमाणो जातस्य ध्रुवमृत्यु-
कताप्रत्ययेन स्ववन्धावपि व्यसनग्रस्ते नानुभवति विषादमिति भावः ।
एकमेवेति० सदा सर्वदा त्रिकालाबाध्यभावेन एकमेव सजातीयद्वितीयशून्यम्
ब्रह्म सत्यम् परमार्थसत् , अन्यत् ततो भिन्नम् कल्पितम् शुक्तिकायां रजतमिव
अध्यस्तम् । हि तस्मात् एकत्वमनुपश्यतः जगतो ब्रह्माभेदं भावयतः को मोहः
कीदृशं मूढबुद्धित्वम् , तत्र तस्यां स्थितौ कः शोकः कीदृशः खेदः ? ब्रह्मैवैकं परमार्थ-
सत्यं तदन्यत्सर्वं कल्पितमिति वस्तुतत्त्वं विभावयतो जनस्य मोहशोकौ नोदेतुमर्हत-
स्तद्भावयन् भुवनत्रय नाशस्वभावकतां जहिहीदं स्वीयधैर्यमिति भावः ॥ १५ ॥
त्मक शरीरके पञ्चत्व प्राप्त कर लेने पर शोकावह मोह क्यों हुआ करता है ॥ १४ ॥
इसलिये पदार्थों की अनित्यताकी भावना किया करो । जिसे वस्तुओंकी अनित्यता
दीखने लगती है उसे शोकका आवेग नहीं सताता है ।
एक ब्रह्म ही सत्य है और सभी कल्पित अतः अनित्य हैं, तो फिर जिसे ब्रह्मात्मैक्य
ज्ञान हो जायगा वह क्यो शोक या मोह करेगा ! ॥ १५ ॥