प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 200, कुल 274 में से
संदर्भ में पढ़ें१८२ प्रबोधचन्द्रोदयम्
( इति मूर्च्छितं पतति )
संकल्पः—( सास्रम् ) राजन्, समाश्वसिहि समाश्वसिहि ।
मनः—( समाश्वस्य ) कथं देवी प्रवृत्तिरपि न मामेवमवस्थं समा-
श्वासयति ।
संकल्पः—( सास्रम् ) देव, कुतोऽद्यापि प्रवृत्तिः । यतः श्रुतकुटुम्बव्य-
सनसंजातशोकानलदग्धहृदया हृदयास्फोटं विनष्टा ।
मनः—हा प्रिये, कासि देहि मे प्रतिवचनम् । ननु देवि,
स्वप्नेऽपि देवि रमसे न विना मया त्वं
स्वापे त्वया विरहितो मृतवद्भवामि ।
हृदये शोकम् परितापम् उन्मीलयति प्रकटयति, अहो खेदे प्रसभम् हठेन (शोकज्वरः)
जीवितमेव ग्रसति व्यापादयति, शोकसन्तापः । विषज्वालेव काये प्रसर्पति, सुखमव-
साययति, वेदनां जनयति, शरीरं क्रशयति, धैर्यं क्षुल्लुकयति, मोहं प्रकटीकरोति,
तदेव जीवनमेव विपादयतीत्यर्थः । पृथ्वीवृत्तम्-‘जसौ जसजला वसुग्रहयतिश्च पृथ्वी
गुरुः' इति लक्षणात् ॥ १२ ॥
एवमवस्थम्-ईदृश्यामावस्थायां पतितम् । समाश्वासयति-धैर्यं बन्धयति ।
कुतोऽद्यापि प्रवृत्तिः—नास्त्यधुना प्रवृत्तिरित्यर्थः ।
श्रुतेति० श्रुतम् आकर्णितम्, कुटुम्बानाम् पोष्यवर्गाणाम्, व्यसनम् निधनम् ,
तेन सञ्जातः उत्पन्नः, शोकानलः-हृदयखेदवह्निः, तेन दग्धहृदया आलीढचित्ता ।
हृदयास्फोटम्-हृदये स्फुटित्वा । विनष्टा मृता । स्वकुटुम्बभूतकामादिनिधनवृत्तान्तं
निशम्य मृतेत्यर्थः ।
प्रतिवचनम्-उत्तरम् ।
स्वप्नेऽपीति० हे देवि प्रवृत्ते, त्वं मया विना विरहिता स्वप्नेऽपि कदाचिदपि न
( मूर्च्छित होकर गिरता है )
सङ्कल्प—( रोकर ) राजन्, धीरज धरिये, धीरज धरिये ।
मन—( आश्वस्त होकर ) क्यो देवी प्रवृत्ति भी मुझे इसस्थितिमे आश्वासन नही दे
रही है ?
सङ्कल्प—( रोकर ) देव, अब देवी प्रवृत्ति कहाँ ? उनका तो कुटुम्बव्यसनश्रवणजात
शोकानलसे हृदय जलगया, वह चलवसीं ।
मन—हाँ प्रिये, कहाँ हो मुझे उत्तर दो । देवि—
स्वप्नमें भी तुम हमारे बिना नही रमती, और मै भी स्वप्नमें तुमसे रहित होकर