सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 2, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 2

अवतारणा
अथेदमुपक्रम्यते प्रकाशयितुं 'प्रकाश' समन्वितं प्रबोधचन्द्रोदयं नाम नाटक-
रत्नम् , अस्य रचयितुः परिचयादिकमिदमीयं साहित्यिकं गौरवमन्यच्च ज्ञातव्यम्
राष्ट्रभाषया लिखितमस्तीति तत एवावसेयम् ।
अस्य ग्रन्थस्य टीकाद्वयं मया दृष्टम्—१ एका नाण्डिल्लगोपमन्त्रिशेखरकृता
२ अन्या रामदासदीक्षितकृता । आभ्यामतिरिक्तोऽस्याङ्ग्लभाषानुवादोऽपि दृष्टिपथं
समारूढः । तत्राद्याऽर्थबोधननिरपेक्षा सत्यपि शास्त्रीयतत्त्वप्रकाशनोन्मुखीति न त-
महानुपकारं पठताम्, अपरा तु खण्डान्वयादेशा प्रवृत्ता छात्राणां कृते नितान्तव्यर्था
आङ्ग्लभाषानुवादश्चानुवाद एव, तदेवं सतीष्वपि तासु सहायिकासु व्याख्यासु सर्वसाधा-
रणपाठकसौविध्यं मनसि निधाय मयाऽयं प्रकाशोत्र योजितः, अथानया मम टीकया
यदि सुधियां पाठकानामन्तेवासिनां च मनांसि विनोदितानि स्युस्तदाऽहमात्मानं परिश्रमे
सफलं मन्येय ।
अयं ग्रन्थो नाटकान्तरविलक्षणो यतोऽत्र पात्राणि प्रतीकरूपेण कल्पितानि।
लौकिकीकथा यथा झटिति हृदयमालोडयति शास्त्रीया कथा तथा त्वरया केषामेव
न भाग्यवैभवासादिततीव्रप्रतिभानामन्तः प्रकाशत इति नाटकस्यास्य व्याख्यायां
यथासंभवं मया ते ते प्राकरणिका पदार्थास्तत्र तत्र यथामति यथाऽऽवश्यकतं
समावेशिताः । ईदृशाना ग्रन्थाना समादरपूर्वकाध्ययने प्रायः प्रौढा एव जनाः प्रवर्त्तन्ते
वय परिमाणमपि स्वाभाविकीं शिक्षामनिच्छद्भ्योऽपि बलाद्वितरतीति विभाव्याति-
विस्तृतितो विरम्य माध्यमिक पन्था मयाऽत्राश्रितः । अथापि न परित्यक्ता
आवश्यका प्रतिपाद्यपदार्थाः, नोपेक्षितं समयप्राप्तं विवेचनम् । सरलतासम्पादनाया-
मया विशिष्य प्रयतितम् । परिशिष्टे च ज्ञातव्याः सर्वेऽपि विषयाः समावेशिताः ।
ये स्वयमेतादृशीं व्याख्यां प्रतिपदं प्रकाशयन्ति ते किमर्थं मदीये व्याख्याने दृष्टिं
दास्यन्ति ? ये च नितान्ताबोधाः सन्तोऽपि किमपि परकीयं यशो मलिनयेयमिति
कृतसङ्कल्पा इव वृथैव पराञ्छिन्दन्ति तेऽपि नास्या व्याख्याया लाभमादास्यन्ति।
अथापि मध्यस्थाः सज्जनाः सकृदपि दृक्पातेन यदि ममेमं प्रयासं सफलाभिष्यन्ति
तदाऽहमात्मान कृतकृत्यं मंस्ये । शमिति
राँची } विदुषां वशंवदः
जन्माष्टमी २०१२ } श्री रामचन्द्र मिश्रः