सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 19, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 19

॥ श्रीः ॥
प्रबोधचन्द्रोदयम्
'प्रकाश' संस्कृत-हिन्दीव्याख्याद्वयोपेतम्
प्रथमोऽङ्कः
मध्याह्नार्कमरीचिकासु च पयःपूरो यदज्ञानतः
खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति ।
यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं
चिरविततमिस्रासङ्कुचद्दिग्विभागे
विगतकरणतारामण्डलीशुभ्रभासि ।
विषयजलदमालासम्परीतेऽम्बरेऽस्मिन्
मनसि सकृदुदीयाज्जातु मे बोधविद्युत् ॥ १ ॥
श्रद्धानतेन शिरसा पितरं 'मधुसूदनम्' ।
प्रसूं 'जयमणिं' चाहं प्रणमामि पुनः पुनः ॥ २ ॥
श्रीकृष्णमिश्रकविताभावानवबोधबद्धवैमुख्यान् ।
मन्ये कतिचन बालान् प्रोत्साहयिता 'प्रकाशो'ऽयम् ॥ ३ ॥
दार्शनिककविः श्रीकृष्णमिश्रो विद्वद्वर्यः प्रबोधचन्द्रोदयनामकं नाटकं चिकीर्षुः
प्रारिप्सितग्रन्थप्रत्यूहव्यूहप्रशमकामनया मङ्गलमादौ निबध्नाति—मध्याह्नेति० यद्-
ज्ञानतः यस्य ब्रह्मात्मकस्य महसः प्रकाशस्य अज्ञानतः अबोधात् मध्याह्नार्कमरीचि-
कासु अह्नो मध्यं मध्याह्नस्तस्य योऽर्कः सूर्यस्तस्य मरीचयः किरणा एव मरीचिकाः
सिकतागतसूर्यकरप्रभाचाक्चिक्याकारास्तासु पयःपूरः जलराशिरिव खम् आकाशम्
वायुः पवनः ज्वलनः वह्निः जलं वारि क्षितिः पृथिवी एवं क्रमेण त्रैलोक्यम् समस्तं
धरामण्डलम् समुन्मीलति प्रकटति । यत्तत्त्वं यदीयं स्वरूपम् विदुषाम् जानताम्
मध्याह्नसूर्यकी मरीचिकामें जलराशिकी तरह जिसके अज्ञानसे आकाश, वायु, तेज,
जल और पृथिवी इस क्रमसे त्रैलोक्य प्रकट होता है और जिसके ज्ञानसे मालासर्पकी