सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 17, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 17

समर्पणपत्रम्
श्रीमतां स्वनामधन्यानां गुरुवर-
पण्डित श्रीईश्वरनाथझा शर्मणां
करकमलयोः
सादरं समर्प्यतेऽयं प्रकाशः
पूज्यपादाः !
अबोधस्यानिच्छोरपि हतमतेरश्रमकृतो
दृशं मे यद्यत्नैरुत्कृषत भवन्तो विकसिताम् ।
अशेषे शास्त्रार्थे फलमुपहृतं तेन विरसं
रसाढ्यं वा स्वत्वाद्भवतु भवदङ्गीकृतमिदम् ॥
तदीयशिष्यान्यतमेन
रामचन्द्रेण