सामग्री पर जाएँ
सर्वकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 280, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 280

चौदहवाँ अध्याय : रोगनिर्णय २७९
जन्म के पहिले, मृत्यु के बाद की स्थिति ।
स्वोच्चे स्वमित्रे सति सौम्यवर्गे
व्ययाधिपे चोर्ध्वगतिं ससौम्ये
विपर्ययेऽधोगतिमेव केचित्-
ऊर्ध्वास्यशीर्षोदयराशिभेदात् ॥२२॥
कैलासं रविशीतगू भृगुसुतः स्वर्गं महीजो महीं
वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः ।
द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत्प्राणिनः
सम्बन्धाद्व्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः ॥२३॥
धर्मेश्वरेणैव हि पूर्वजन्म
वृत्तं भविष्यज्जननं सुतेशात् ।
तदीशजातिं तदधिष्ठितर्क्षं
दिशं हि तत्रैव तदीशदेशम् ॥२४॥
स्वोच्चे तदीशे सति देवभूमिं
द्वीपान्तरं नीचरिपुस्थलस्थे ।
स्वर्क्षे सुहृद्भे समभे स्थिते वा
सम्प्राप्नुयाद्भारतवर्षमेव ॥२५॥
आर्यावर्तं गीष्पतेः पुण्यनद्यः
काव्येन्द्रोश्च ज्ञस्य पुण्यस्थलानि ।
पङ्गोर्निन्द्या म्लेच्छभूस्तीक्ष्णभानोः
शैलारण्यं कीकटं भूमिजस्य ॥२६॥