फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 208, कुल 684 में से
संदर्भ में पढ़ेंनवां अध्याय : राशिफल २०७
प्रांशुश्च दक्षः क्रयविक्रयेषु
धीरोऽदयस्तौलिनि मध्यवादी ॥७॥
वृत्तोरुजङ्घः पृथुनेत्रवक्षा
रोगी शिशुत्वे गुरुतातहोनः ।
क्रूरक्रियो राजकुलाभिमुख्यः
कीटेऽब्जरेखाङ्कितपाणिपादः ॥८॥
दीर्घास्यकण्ठः पृथुकर्णनासः
कर्मोद्यतः कुब्जतनुर्नृपेष्टः ।
प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता
साम्नैकसाध्योऽश्वभवो बलाढ्यः ॥६॥
अधः कृशः सत्त्वयुतो गृहीत-
वाक्योऽलसोऽगम्यजराङ्गनेष्टः ।
धर्मध्वजो भाग्ययुतोऽटनश्च
वातार्दितो नक्रभवो विलज्जः ॥१०॥
प्रच्छन्नपापो घटतुल्यदेहो
विघातदक्षोऽध्वसहोऽल्पवित्तः ।
लुब्धः परार्थो क्षयवृद्धियुक्तो
घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥११॥
श्रत्यम्बुपानः समचारुदेहः
स्वदारगस्तोयजवित्तभोक्ता ।
विद्वान्कृतज्ञोऽभिभवत्यमित्रान्
शुभेक्षणो भाग्ययुतोऽन्त्यराशौ ॥१२॥