फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 155, कुल 684 में से
संदर्भ में पढ़ें१५४ फलदीपिका
सुवचनशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः ।
मतिसुतविद्याविभवविहीनो रिपुहृतवित्तः प्रभवति निःस्वे ॥५९॥
अरिपरिभूतः सहजविहीनो
मनसि विलज्जो हतबलवित्तः ।
अनुचितकर्मश्रमपरिखिन्नो
विकृतिगुणः स्यादिति मृतियोगे ॥६०॥
मातृवाहनसुहृत्सुखभूषाबन्धुभिर्विरहितः स्थितिशून्यः ।
स्थानमाश्रितमनेन हृतं स्यात् कुस्त्रियामभिरतः कुहूयोगे ॥६१॥
दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः ।
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥६२॥
सुखभोगभाग्यदृढगात्रसंयुतो
निहताहितो भवति पापभीरुकः ।
प्रथितप्रधानजनवल्लभो धन-
द्युतिमित्रकीर्तिसुतवांश्च हर्षजः ॥६३॥
स्वपत्नीवियोगं परस्त्रीरतीच्छा
दुरालोकमध्वानसंचारवृत्तिः ।
प्रमेहादिगुह्यार्तिमुर्वीशपीडां
वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥६४॥
दीर्घायुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः ।
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥६५॥
पित्रार्जितक्षेत्रगृहादिनाशकृत्
साधून् गुरून्निन्दति धर्मवर्जितः ।
प्रत्नातिजीर्णाम्बरधृच्च दुर्गतो
निर्भाग्ययोगे बहुदुःखभाजनम् ॥६६॥