पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 113, कुल 337 में से
संदर्भ में पढ़ें५८ मिश्रकव्यवहारः
फलसिद्धयेऽस्मिन्¹
┌──────┐
│ ३ │
│ १ │
│ २ │
│ ३० │
│ १३७१ │
│ १७८९ │
└──────┘
एषा वल्ली । अत्र छेदांशौ १ । २ अधश्छेदेन ३० गुणयित्वा ३० । ६० । अधःस्थितांशं २१
पूर्वांशे ६० धनात्मकत्वाद्धनं कृत्वा ६१, एतौ छेदेनाधःस्थितेन १७८६ गुणयित्वा जातौ²
१४४९०९ / ५३६७० । अधःस्थितांशं १३७१ पूर्वांशे धनात्मकत्वाद्धनं कृत्वा जातम् १४६२८० / ५३६७०, त्रिंशताप-
वर्त्य³ ४८०६ / १७८९ । एतत्पञ्चराशिकम्—यद्येकेन मासेन शतस्य पञ्च तदनेन कालेन दर्शितेनास्य
शेषस्य किमिति
┌───┬──────┐
│ १ │ ४८०६ │
│१००│ १७८९ │
│ ५ │ ५१०० │
│ │ २३१ │
└───┴──────┘
अत्र नीते फलेऽन्यपक्षं छेदानां व्यत्यासं⁴ कृत्वा ( शतेनापवर्त्य च ) जातं
प्रथमेऽल्पे पक्षे १७८९ / २३१, द्वितीये बहुराशिपक्षे⁵ ४८०६ / ५५ । अनयोरभ्यासावेतौ (४१३२५६ ।
१४३८४२० प्रथमेन द्वितीये भक्ते) १४३८४२० / ४१३२५६ एषा वृद्धिः, धनमिदम् ५१०० / २३१ । अन-
योस्तुल्यच्छेदार्थमनेन १७८६ छेदांशौ संगुण्य जातम् १०५५५१०० / ४१३२५६, संयोज्य १११९३५२० / ४१३२५६,
ततोज्नेन २३१ राशिनाऽपवर्त्य जातमिदम्⁶ ५११२० / १७८९ । एतद् धनिना लभ्यं धनम् ।
ततश्च त्रैराशिकं दर्श्यते यदि मासेन त्रिंशद्भिः दिनैश्चत्वारिंशद् दीनारा लभ्यन्ते तदा
तावता किमिति ३० । ४० । २३१ / १७८९ अन्त्यं चतुर्थ्या जात्या सवर्णीकृत्य जातं ३८९४० / १७८९,
मध्यान्त्यहतिरियं १५५७६०० / १७८९, आद्येनाप्तमिदम् ५११२० / १७८९ । एतद् गृहिणा धनिनो देयम् ।
ऋणधनसमत्वादृणी ऋणाद् विमुक्त इति ।
करणसूत्रमार्या--
गतकालफलसमासे मासफलैक्योद्धृते भवेत्कालः ।
शतगुणमासफलैक्ये⁷ धनयोगहृते शतस्य फलम् ॥ ५१ ॥
कोऽस्य विषयः ? ऋणाधाने प्रवृत्तव्यवस्थान्तरे लाघवार्थं⁸ फलाविरोधेनैव व्यवस्था-
न्तरस्थापनं प्रथमानुसारण, पूर्वकृतवृद्धयोनात्मिका⁹ व्यवस्थास्तत्सर्वाविरोधिफलं कयाचिदेकया
व्यवस्थया यदा निर्धारयितुमिष्यते तदा पुरातनीनां व्यवस्थानां कालप्रमाणफलपरकालेषूक्तं
धनं¹⁰ तत्कालान्तिकलाभैर्ज्ञायमानैर्वाऽत्र कल्पितव्यम्¹¹ । अभिन्नव्यवस्थायां च कालप्रमाणे मास-
शते लोकप्रसिद्धे एवाश्रयणीये, प्रतिमासं शतं प्रति लाभस्तु व्यवस्थाप्यः, प्रयोगकालेभ्यश्चापरः
कालः, प्रयुक्तधनानां च युतिरेव व्यवस्थान्तरम् । निखिलप्राक्तनव्यवस्थोत्पन्नतत्कालान्तिक-
─────────────────────────────────────────────
¹ फलसिद्धेऽस्मिन् । ² जातौ १४४६६ । ³ १४६२८० त्रिंशाता⁰ । ⁴ छेदानामभ्यासं ।
⁵ बाहु⁰ । ⁶ ततोनेन राशिना २३१ तातमिदं । ⁷ शतगुणा⁰ । ⁸ लाघवाद्यर्थं । ⁹ प्रथमानुसरणं
पूर्वकृतबद्धयोनानात्मिका । ¹⁰ प्रमाणफलः परकालमुक्तं धनं । ¹¹ वालकपितव्यम् ।