पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 111, कुल 337 में से
संदर्भ में पढ़ें५६ मिश्रकव्यवहारः
ईप्सितेन, धनिकर्णिकाभ्यां१ परस्परं सम्प्रतिपत्त्याऽभ्युपगते लोकव्यवहारे रूढान्द्येन२
तदभिप्रायवशात्तु कदाचित्केनापि३ कालेन मासद्विमासादिनोपनीयते इत्यपनयः प्रतिदानम्,
ऋणिकहस्तस्थं हि द्रव्यं धनिकस्वत्वादपरिच्युतं परहस्तगतत्वाद्विप्रकृष्टं४ यदा ऋणिकेन
प्रतिदीयते तदा उपचरित इव ददात्यर्थे स्वामिसमीपप्रापणमात्रं५ स्वस्य क्रियते इति न्यायात्,
तस्मिन्नीप्सितकालोपनये मूलैकपथे, ६तदीयतात्कालिकलाभसहि(त)त्वात् मिश्रात्मके, 'निजकाले'
त्याद्यानीतं फलं परमूलात् पृथङ्मासद्विमासादिकालविभागोपनीतमिश्रवर्त्यन्यान्यमूलविभागेन
जह्यात् शोधयेत् । शेषस्य यथाकृतव्यवस्थया मासिकफलं पञ्चराश्याद्यानीतं मासिकोप-
नयादीप्सितकालोपनयाद् विशोधयेत् शेषेणानेन, प्राक्तनशेषमासिकफलं गतमाससङ्ख्यागुणं
परममूलशेषयुक्तं विभजेत, आप्तं गतमाससङ्ख्यान्वितं समग्रस्य पद्यमानलाभसहितस्य७
परममूलस्य परमप्रतिनिर्यातनकालो भवति । येन धनं तत्कालोत्पन्नलाभसहितमियदुपचितं जात-
मित्यपि ज्ञायते । इदं च सूत्रं यावन्मासिकोपनयोद्धृते८ खण्डमूलशुद्धिद्वारसम्मितमासपरिज्ञान-
कार्येपि९ मूलशेषनिरवशेषशुद्धिकालज्ञानार्थं१० मृदुमतीनां मासिकोपनयस्य मूलत्वेनैव परमूलस्य
लाभं विशोध्य शेषमपि मूलतयाऽत्राशोधीत्येतदर्थं वा त्रयो होते सदसन्तः पन्थानः । शेषं
चोदाहृत्य दर्शयिष्यामि ।
उदाहरणम्—
पञ्चकशतेन दत्तं११ रूपशतं यस्य कस्यचिद्धनिना ।
गृहमादत्तं तस्मात् प्रतिमासं द्विगुणविंशत्या ॥ ५५ ॥
ऋणमुक्तस्तत्कियता कालेन स भवेद्ऋणी समाचक्ष्व ।
धनिनः प्रदिशति विद्वन् किं शुद्धस्थानलाभेन ॥ ५६ ॥
द्वौ पुरुषौ स्तः । तयोरेकस्य रूपशतं विद्यते, परस्य गृहम्१२ तस्माच्छ(त)धनात् गृहवता
पञ्चकेन लाभेन तद्रूपशतं गृहीतम्, चत्वारिंशता मासभाटकेन च वसंतये ऋणशुद्धिपर्यन्तं
गृहं१३ दत्तम् । तत्र न ज्ञायते कियता कालेन ऋणी१४ ऋणमुक्तः स्यात्, धनिकश्च१५ न
किञ्चिदप्याददानः केवलं गृहोपभोगमात्रेण प्रत्यागतपद्यमानलाभोचितमूलधनो भवति येन
ऋणिनो गृहमपि मुक्तीभवति ।
स्थापनम्— | १/१०० ५ | १ । ४० । १००
१ ईप्सितेव धनर्णिकाभ्यां । २ रूपादं । ३ कदाचित्तेनापि । ४ परस्ताग्° ।
५ °प्रापणामात्रं । ६ प्रदीप्ता° । ७ मध्यमानं । ८ °पनये° । ९ °वार्यपि । १० °निर्वशेष° ।
११ तदप्तं । १२ गृहा । १३ गृह । १४ ऋणि । १५ ऋणकश्च ।