परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 303, कुल 373 में से
संदर्भ में पढ़ें७६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७३
यद्यपि उपपदसमासस्य अन्तरङ्गत्वाभिप्रायकं 'न वा षष्ठीसमासाभावा-
दुपपदसमास' इति वार्तिककृतोक्तम् ; तथापि तदुभयप्रत्याख्यानपरम् 'अथ-
वे'त्यादिभाष्यं परिभाषायां सामान्यतः कारकोपादानेन कारकविभ-
क्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात् ।
एतेनैषा कारक-तद्विशेषयोरुपादान एवेति परास्तम् ; अस्या विधेयक-
समासमात्रस्येति । ननु सामान्यतः कारकोपादानेनात्रैतत्प्रवृत्तौ 'प्राप्तापन्ने'त्य-
नेन द्वितीयाया अ इति च्छित्त्वा अकारविधानं भाष्योक्तं व्यर्थं तत्र टाबुत्पत्तेः पूर्वं
समासेन सिद्धेः ; एवम् 'अपां स्रष्ट्री'त्यत्र 'षष्ठी'ति प्राप्तसमासस्य 'तृजकाभ्या'मिति
निषेधो 'लिङ्गविशिष्ट'परिभाषयेति ङ्याप्सूत्रे भाष्ये उक्तं तत्राप्यनया पूर्वं समास-
प्राप्त्या निषेधसिद्धिरिति 'लिङ्गविशिष्ट'परिभाषया समाधानं भाष्योक्तमसङ्गतमिति
चेन्न । आद्ये टाबुत्पत्तेः पूर्वं समासेऽपि तदुत्तरं प्राप्तटापोऽकारविधानमावश्यकमिति न
भाष्यविरोधः । द्वितीयेऽपि ङीपः पूर्वं तृजन्तत्वेन समासनिषेधेऽपि ङीबुत्तरं तृजन्तत्वा-
भावान्न स्यादित्याशङ्क्य लिङ्गविशिष्टपरिभाषया समाधानं सुस्थमेवेत्यदोषात् ।
परास्तमिति । परे तु—कारकतद्विशेषोपादाने एवैषा परिभाषा प्रवर्तते । अस्या
अणिणुन इत्यस्य बहिरङ्गतया पूर्वं समासे कृते ततस्तद्धित इति दोषाभावादित्याहुः । तन्न ;
टाब्विधौ प्रातिपदिकत्वस्य अपेक्षितत्वेऽपि अर्थवत्त्वस्यानपेक्षितत्वात् परम्परयाऽपि सापेक्षत्वमादाय
परिभाषाप्रवृत्तौ मानाभावात्, बह्वपेक्षत्व-विशेषापेक्षत्वरूपबहिरङ्गत्वस्य नव्यैस्तिरस्कृतत्वात् पूर्व-
पदोत्तरपदरूपसमुदायसापेक्षत्वरूपशब्दकृतबहिरङ्गत्वस्य समासविधायकेऽपि सत्त्वेन बहिरङ्गत्वा-
समानाधिकरणान्तरङ्गत्वस्य बलवत्त्वप्रयोजकस्य तत्राविद्यमानत्वाच्च दोषतादवस्थ्यात् ।
यत्तु—रामशब्दप्रकरणे शब्देन्दुशेखरे इनुणन्तत्वरूपाधिकसापेक्षत्वेन 'अणिणुन' इत्यस्य
बहिरङ्गत्वमुक्तम्, तत् प्राचामनुरोधेन । अत एव "सुबुत्पत्तेः प्रागित्युपलक्षणम्, लिङ्गबोधक-
प्रत्ययोत्पत्तेः प्रागपि बोध्यम्" इति 'उपपदमतिङ्' इति सूत्रस्थोद्योतग्रन्थः, 'प्राक् सुबुत्पत्तेः'
इति प्रतीकमुपादाय "स्त्रीप्रत्ययोत्पत्तेः प्रागित्यपि बोध्यम्" इति तत्पुरुषसमासप्रकरणस्थ-
शब्देन्दुशेखरग्रन्थश्च सङ्गच्छते । 'अतिङ्' इत्यनेन सामान्यतः प्रत्ययोत्पत्तेः प्रागित्थस्य ज्ञापना-
सम्भवेऽपि 'क्रीतात् करणपूर्वात्' इत्यनेन सामान्यतस्तज्ज्ञापनं सम्भवत्येव ; अन्यथा पूर्वं
टाबुत्पत्तौ तदसङ्गतिः । एवञ्च कारकांशे ज्ञापनेन एकदेशानुमत्या सर्वांशे च तत्सिद्ध्यतीति
बोध्यम् । एतेन "केचित्तु 'प्राक् सुबुत्पत्तेः' इत्यत्र सुब्ग्रहणं प्रत्ययमात्रोपलक्षणमित्याहुः । तन्न ;
ज्ञापकात्तदलाभात्, उक्तशब्देन्दुशेखरविरोधाच्च" इति विजयाकारोक्तिः परास्ता वेदितव्या ।
सामान्यतः कारकोपादानेनेति । परिभाषायां ग्रहणपदोपादानाभावेन समासशास्त्रे
कारकग्रहणाभावेऽपि यत्र लक्ष्ये पूर्वपदं कारकं दृश्यते तत्र सुबुत्पत्तेः पूर्वं कृद्भिः सह समासो
भवति इत्येव परिभाषार्थाङ्गीकारादिति भावः ॥ ७६ ॥
३५