सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 206, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 206

१७६ परिभाषेन्दुशेखरः [२ प्रकरणे-
तच्च न, संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणात् । 'पञ्चे'त्यत्र निषेधस्तु स्त्रियां
यत् प्राप्नोति तन्नेति व्याख्यानसामर्थ्येन भूतपूर्वषट्त्वमादायेति बोध्यम् ।
अत एव कृतिलुग्ग्रहणं चरितार्थम् । 'वृत्रहभ्यामि'त्यादौ पदत्व-
निमित्तकत्वेऽपि नलोपस्य बहिरङ्गत्वभावात् । भ्यामः पदसंज्ञानिमित्त-
त्वेऽपि नलोपस्य तन्निमित्तकत्वाभावात् । परम्परया निमित्तत्वमादाय
बहिरङ्गत्वसंश्रयणे तु न मानम् । ध्वनितं चेदं 'नलोपः सुबि'ति सूत्रे भाष्य
इति तत्रैव भाष्य-प्रदीपोद्योते निरूपितम् ।
अन्तरङ्गे कर्तव्ये जातं
व्याख्यानसामर्थ्येनेति । तत्स्वभावेनेत्यर्थः । एतेनैतद्व्याख्यानं 'प्रियपञ्चानं द्रौपदीं
पश्ये'त्यत्र डाब्व्यावृत्तये चरितार्थमित्यपास्तम् ।
केचित्तु-डाब्विधायक-'न षडि'त्यनुवर्त्य डापोऽपि निषेध इति वदन्ति ।
भूतपूर्वेति । पूर्वं भूतं स्थितं षट्त्वं स्थानिवद्भावेन आदायेत्यर्थः । षट्त्वं तु
सङ्केतसम्बन्धेन षट्पदवत्त्वमतो न अनल्विधावि'ति निषेधविषय इति भावः ।
अत एवेति । संज्ञाकृतबहिरङ्गत्वस्य अनाश्रयणादेवेत्यर्थः । वृत्रहभ्यामिति । वृत्रेति
पृथक् पदम्, हभ्यामिति प्रकृतोपयोगि वर्तमाने उपपदरहिताद्धन्-धातोः क्विप्ये-
तद्रूपम्, तेन 'ब्रह्मभ्रूणे'ति नियमाक्रान्तं नेति भावः । एतेन नलोपस्य वृत्रहन्निति
समुदायापेक्षत्वेन बहिरङ्गत्वमेवेत्यपास्तम् ।
जातमिति । एतत्फलं वक्ष्यमाणं 'पचावेदमिति बोध्यम् । ननु 'इत ऐरि'ति
न्यासेनैतद्व्यावृत्तिसिद्धेरत्र न दोषः । न च नेरेत्वापत्तिः ; इकारोच्चारणसामर्थ्यात्
उत्त्वस्येवैलस्यापि बाधसम्भवात् । न च गौरवाद् मेर्नेरिति न कृतमिति वाच्यम् ;
सामर्थ्यादित्यस्य 'तककौण्डिन्य'न्यायेन तद्बाधादित्यर्थेनादोषात् । यत्तु-'मेर्निरिति
मकारस्य नकारादेशे कर्तव्ये इकारान्तादेशविधानसामर्थ्यात् 'इत ऐरि'त्यस्य बाध
इति । तन्न ; परशब्दमुच्चार्य विहितकार्याभावेन 'आदेः परस्ये'त्यस्याप्रवृत्त्या मकारस्य
नकारादेशासम्भवात् । अत एव 'नित्यं ङित' इत्यत्र तदप्रवृत्तिरिति चेन्न । 'पचावेदम्'
इत्यादौ 'आमेत' इत्यस्य दुर्वारत्वात् । अशब्दादाचारक्विबन्ताल्लटि कर्मव्यतिहार
उत्तमपुरुष इटि निष्पन्नेन एशब्देन पचावेत्यस्य आख्यातमिति समासे पुनः सुशब्देन
पचावैशब्दस्य समासे नपुंसकह्रस्वे 'सुपचावि' इत्यत्रैत्वापत्त्या 'इत ऐ' इति न्यासस्य
कर्तुमशक्यत्वेन 'पचावेदमि'त्यत्रैतद्वार णाय जातबहिरङ्गासिद्धत्वस्याऽऽवश्यकत्वात् ।
न च प्रतिपदोक्तैकारग्रहणेनादोष इति वाच्यम् ; 'एधस्व, पचावेभ्य' इत्यत्र बहुवचन
इत्येकारस्यापि प्रतिपदोक्तत्वेनैवापत्तेः ।
पचावैशब्दस्येति । वस्तुतः- इदं चिन्त्यम्; कृते एकादेशे तदादित्वेन समासग्रहणस्य
विध्यर्थत्वसम्भवनया नियामकत्वोक्तिपरकभाष्यात् ईदृशानां लक्ष्याणामनभिधानात् ।