परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 202, कुल 373 में से
संदर्भ में पढ़ें१७२ परिभाषेन्दुशेखरः [ २ प्रकरणे-
सम्बन्धिनीमिग्लक्षणां लघ्वीमुपधामार्धधातुकं चाऽऽश्रयति । ऊठ् तु वका-
रान्तमङ्गमनुनासिकादिञ्च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः । तत्र कृते
यण्गुणौ प्राप्नुत इति । एवञ्च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमिति
चेन्न । तदन्तविधावपि बहुपदार्थपेक्षित्त्वरूपबहिरङ्गत्वस्य गुणे सत्त्वेन तत्र
दोषकथनपरभाष्यासङ्गतेः, बहिरङ्गान्तरङ्गशब्दाभ्यां बह्रपेक्षत्वाऽल्पा-
पेक्षत्वयोः शब्दमर्यादयाऽलाभाच्च । तथा सति 'असिद्धं बह्वपेक्षमल्पापेक्ष'
इत्येव वदेत् । अत एव विप्रतिषेधसूत्रभाष्ये 'गुणाद्यणादेशोऽन्तरङ्गत्वादि'-
त्यस्य 'स्योन' इत्युदाहरणम् , न तु 'गुणादूठन्तरङ्गतत्वादि'त्युक्तम् ।
त्वद्रीत्या तदपि वक्तुमुचितम् । प्राथम्याद्देव वा वक्तुमुचितम् । मम
त्वन्तरङ्गपरिभाषया तद्वारणासम्भवात्तन्नोक्तम् ।
वलोपाप्राप्त्या ऊठि क्वौ विधिं प्रति निषेधात्तदप्राप्त्या तत्र ऊठश्चरितार्थमिति
वाच्यम् ; अनुनासिकनिमित्तकोठोऽपवादत्वमित्येतत्तात्पर्येणादोषात् । अन्तरङ्ग इति ।
न्यूनसंज्ञानिमित्तकत्वादित्यर्थः । भाण्यासङ्गतेरिति । त्वद्रीत्या अनेकसंज्ञासापेक्षगुणा-
पेक्षया यण एवान्तरङ्गत्वेन गुणस्यान्तरङ्गत्वप्रतिपादकोक्तभाष्यासङ्गतेरित्यर्थः । ननु
गुणाद्यणादेशोन्तरङ्गत्वादित्यनेन गुणादूठोन्तरङ्गत्वमुक्तप्रायम्, ऊठ्प्रवृत्तिं विना
यणोऽप्राप्तेरत आह—प्राथम्यादिति ।
भाष्यासङ्गतेरित्यर्थ इति । ननु शब्दशास्त्रे शब्दस्य प्राधान्यात् शब्दकृतबहि-
रङ्गत्वान्तरङ्गत्वसम्भवे तेनैव निर्वाह्ये यत्र तथा न सम्भवति, तत्र संज्ञाकृतान्तरङ्ग-बहिरङ्ग-
भावाश्रयणमिति 'सिव् न' इत्यत्र तादृशबहिरङ्गान्तरङ्गत्वयोरभावेन संज्ञाकृतबहिरङ्गाश्रयणेन
निर्वाहः ।
ऊठिकृते यण्-गुणयोः प्राप्तौ शब्दकृतबहिरङ्गान्तरङ्गभावसम्भवात् तदेवोक्तमिति न भाष्य-
विरोध इत्यरुचेराह, मूले—बहिरङ्गा-ऽन्तरङ्गशब्दाभ्यामित्यादिना । ननु बहिरङ्गत्वेन अभि-
मतशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्नत्वेन आश्रीयमाणो यावान् शब्दसमुदायस्तद्घटकनिमित्त-
संख्यान्तर्भूतसंख्यावन्निमित्तकत्वम्—अन्तरङ्गत्वम्, एवम् अन्तरङ्गत्वेन जिघृक्षितशास्त्रीयोद्देश्यता-
वच्छेदकावच्छिन्नत्वेन आश्रीयमाणो यावान् शब्दसमुदायस्तन्निमित्तसंख्याबहिर्भूतसंख्यावन्निमित्त-
कत्वं बहिरङ्गत्वमित्यर्थकरणेन बहिरङ्गान्तरङ्गशब्दाभ्यामपि बह्रपेक्षत्वाल्पापेक्षत्वरूपार्थयोर्लाभ
इत्यरुचेराह, मूले—अत एव विप्रतिषेधसूत्रेति । उक्तप्रायमिति । 'अन्तरङ्ग'परिभाषाया
उदाहरणानि साकल्येन कथनीयानीति नियमाभावात् भाष्यकारैः स्वाभिमतमेकमुदाहरणं दत्तम्,
तेन संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणमिति वक्तुमयुक्तमित्यपि बोध्यम् । परिनिष्ठितरूपसमीपस्थस्यैव
प्रथमं बुद्ध्यारूढतया तस्यैव प्राथम्यम् । 'सिउ ने'त्यस्य तथात्वेन तत्रैवान्तरङ्गत्वस्य फलं प्रदर्शित-
मिति न प्राचां भाष्यविरोधः, प्रत्युत 'सिव्'+'न' इत्यवस्थायामूटोऽनुपपत्त्या तवैव भाष्यविरोध