पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 19, कुल 263 में से
संदर्भ में पढ़ें( VII )
नापेक्षिताः। सूत्राण्यपि अत्र मन्त्रगर्भितानि। आवश्यकस्थलेषु शाखान्तर-
मन्त्राश्चात्र साकल्येनोद्धृताः, स्वशाखामन्त्राश्च प्रतीकमात्रेण ।
परिशिष्टभागवर्जितोऽयं काण्डत्रयात्मको ग्रन्थः द्विपञ्चाशत् (५२)
काण्डिकासम्मलितो मया व्याख्यातः । यमलजननमूलजननशान्त्यादि
हरिहरादिभिरप्युपेक्षितमिति मयापि न समाहृतम् । सूत्रविभागश्चात्र
पूर्वाचार्याणां सरणिमनुसृत्य मया प्रकल्पितः । क्वचिदतिदीर्घे सूत्रे
अर्थग्रहणाय कोमलमतीनां क्लेश आपद्येत इति भिया सूत्रस्य अंशकल्प-
नापि कृता (यथा १-१-२ सूत्रे) । साकल्येनात्र दशाधिकानि सप्तशतानि
सूत्राणि सन्ति । मन्त्राश्च शाखान्तरीयाः २२६ षड्विंशत्यधिकशतद्वय-
परिमिता अत्र उद्धृताः । आकृत्या अदीर्घोऽप्ययं ग्रन्थः अर्थग्रहणावसरे
सुदीर्घ इव प्रतीयते ।
पारस्करगृह्यसूत्रग्रन्थस्यास्य कर्क-जयराम-हरिहर-गदाधर-
विश्वनाथकृतानि भाष्याण्युपलभ्यन्ते । वासुदेवरेणुदीक्षितयोः व्याख्ये
नाममात्रावशेषे । उपलब्धेषु कर्कभाष्यं परमप्रामाणिकमतिप्राचीनं
गूढाभिप्रायकं मन्त्रार्थप्रकाशनविधुरं संक्षिप्ततमं च । हरिहरभाष्यं
विशदमपि प्रयोगसंवलितमपि मन्त्रार्थशून्यम् । गदाधरभाष्यमसम्पूर्णं
विस्तृततममत्युपादेयमपि परीक्षार्थिनामत्तुपयोगि । अन्यद्भाष्यद्वयमपि
विस्तृतं दुर्लभं च ! इत्थं भाष्याणां कोमलमतिपरीक्षार्थिछात्राणां पक्षे
दुर्ग्राह्यत्वं दुर्लभत्वं चाकलय्य सारल्येन साकल्येन मन्त्रगर्भितानां
सूत्राणामाशुग्रहणाय मयायं प्रयत्नः कृतो न पुनः पाण्डित्यप्रकटनाय ।
प्रथमं मया काण्डद्वयस्य व्याख्या कृता । तस्य प्रकाशनाय
भारतसर्वकारस्यानुदानमपि प्रार्थितम् । समायाते ततः स्वीकृतिपत्रे
पुरीविद्यापीठस्य तात्कालिकप्राचार्यैः डॉ० श्रीजयदेव-(गांगुली)
गङ्गोपाध्यायैः एतत् पुस्तकं विद्यापीठप्रकाशनाय दीयतां, पुनश्च
सम्पूर्णस्य ग्रन्थस्य व्याख्या अवश्यं करणीयेति अहमनुरुद्धः। तदनुसार-
मात्मसम्मतिं प्रदाय अवसरग्रहणानन्तरं तृतीयकाण्डस्य व्याख्याऽपि