पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 68, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( ५३ )
“थोडेसेही ऊपरको चलाजाताहै, थोडेसेही नीचेको जाताहै, तराजू और
दुष्टकी एकहीसी चेष्टाहै ॥ १६१ ॥”
ततश्च अन्येद्युः स गोरम्भो राजकुले गत्वा योगनिद्रां
गतस्य भूपतेः सम्मार्जनक्रियां कुर्वन् इदमह-“अहोऽविवे-
कोऽस्मद्भूपतेः यत् पुरीषोत्सर्गमाचरन् चिर्भटीभक्षणं करोति”
तच्छ्रुत्वा राजा सविस्मयं तमुवाच-“रेरे गोरम्भ ! किमप्र-
स्तुतं लपसि ! । गृहकर्मकरं मत्वा त्वां न व्यापादयामि। किं
त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः?” सोऽब्रवीत्-
“देव! द्यूतासक्तस्य रात्रिजागरणेन सम्मार्जनं कुर्वाणस्य मम
बलात् निद्रा समायाता । तथा अधिष्ठितेन मया किञ्चिज्ज-
ल्पितम्, तन्न वेद्मि, तत्प्रसादं करोतु स्वामी निद्रापरवशस्ये-
ति”।एवं श्रुत्वा राजा चिन्तितवान् “यन्मया जन्मान्तरे पुरी-
षोत्सर्ग कुर्वता कदापि चिर्भटिका न भक्षिता । तत् यथा
अयं व्यतिकरो असम्भाव्यो मम अनेन मूढेन व्याहृतः तथा
दन्तिलस्य अपि इति निश्चयः । तन्मया न युक्तं कृतं यत् स
वराकः सम्मानेन वियोजितः न तादृकपुरुषाणामेवंविधं
चेष्टितं सम्भाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि च
सर्वाणि शिथिलतां व्रजन्ति”। एवमनेकधा विमृश्य दन्तिलं
समाहूय निजाङ्गवस्त्राभरणादिभिः संयोज्य स्वाधिकारे
नियोजयामास। अतोऽहं ब्रवीमि-“यो न पूजयते गर्वात्” इति
सो दूसरे दिन गोरम्भ राजकुलमें जाकर राजाकी सम्मर्जन क्रिया करता हुआ
यह बोला कि-“इस हमारे राजाकी कैसी अज्ञानताहै जो पुरीष उत्सर्ग (मल-
त्याग) करनेमे चिर्भटी (काकडी) भक्षण करताहै” यह सुन राजा विस्मितहो
बोला,-“रे गोरम्भ ! क्या अनहोनी बात कहताहै, घरके कर्म करनेवाला जान-
कर तुझको नहीं मारताहू, क्या कभी इस प्रकारके कर्म करते तैंने मुझे देखा ?” वह
बोला-“स्वामिन् ! जुए खेलनेके कारण रात्रिमें जागनेसे समार्जन करते २
१-ककडी ।