सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 61, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 61

(४६) पञ्चतन्त्रम् ।
कथा ३.
अस्त्यत्र धरातले वर्द्धमानं नाम नगरम् । तत्र दन्तिलो
नाम नानाभाण्डपतिः सकलपुरनायकः प्रतिवसतिस्म । तेन
पुरकार्य्यं नृपकार्य्यञ्च कुर्व्वता तुष्टिं नीताः तत्पुरवासिनो
लोका नृपतिश्च । किं बहुना । न कोऽपि तादृक् केनापि
चतुरो दृष्टो न अपि श्रुतो वेति । अथवा साधु चेदमुच्यते-
इस धरातलमें वर्द्धमान नाम नगर है उसमे दन्तिल नामवाला बहुत धनपति
(सेठ) सब पुरका नायक रहताथा । उसने पुरकार्य और राजकार्य करके उस
पुरके रहनेवाले लोक और राजाको प्रसन्न किया कोईभी उसके समान चतुर
किसीने न देखा न सुना; अथवा यह सत्य कहा है कि-
नरपतिहितकर्त्ता द्वेष्यतां याति लोके
जनपदहितकर्त्ता त्यज्यते पार्थिवेन्द्रैः ।
इति महति विरोधे वर्त्तमाने समाने
नृपतिजनपदानां दुर्लभः कार्य्यकर्त्ता ॥ १४२ ॥
राजाका हितकर्ता लोकमें द्वेषताको प्राप्त होता है, देशका हित करनेवाला
राजोंसे त्यागा जाता है, इस प्रकार बडे विरोधके वर्तमान होनेमें राजा और
प्रजाका कार्य साधक दुर्लभ है ॥ १४२ ॥
अथ एवं गच्छति काले दन्तिलस्य कदाचिद्विवाहः सम्प्र-
वृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसन्निधिलोकाश्च
सम्मानपुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च ।
ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहंमानीय अभ्य-
र्च्चितः । अथ तस्य नृपतेः गृहसम्मार्जनकर्त्ता गोरम्भो नाम
राजसेवको गृहायातोऽपि तेन अनुचितस्थाने उपविष्टोऽवज्ञया
अर्द्धचन्द्रं दत्त्वा निःसारितः । सोऽपि ततःप्रभृति निःश्वसन्
अपमानात् न रात्रौ अपि अधिशेते । 'कथं मया तस्य भाण्ड-
पतेः राजप्रसादहानिः कर्त्तव्या' इति चिन्तयन् आस्ते ।
'अथवा किमनेन वृथा शरीरशोषणेन । न किञ्चित् मया तस्य
अपकर्तुं शक्यमिति । अथवा साधु इदमुच्यते-