सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 506, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 506

भाषाटीकासमेतम् । (४९१

सौदासं तदवस्थमर्जुनवधं सञ्चिन्त्य लंकेश्वरं
दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत् ॥ ६९ ॥
रामचन्द्रको वनमें जाना, पाण्डुपुत्रोंका वनगमन, वृष्णिवंशियोका निधन,
नलराजाका राज्यसे भ्रष्ट होना, सौदास राजाका गुरु शापसे राक्षस होना,
कार्तवीर्य अर्जुन और रावणका वध विचार राज्यके निमित्त अनेक विडम्बना
देखकर राज्यकी वाञ्छा न करे ॥ ६९ ॥

यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः।
वधं राज्यकृतां राज्ञां तद्राज्यं दूरतस्त्यजेत् ॥ ७० ॥”
जो अपने भाई पुत्र हैं वेभी जिस राज्यके निमित्त राजाके वधकी इच्छा
करते हैं इस कारण दूरसेही राज्यको त्यागे ॥ ७० ॥”

कौलिक आह,-“सत्यमुक्तं भवत्या । तत् कथय किं
प्रार्थये ?” सा आह,-“त्वं तावदेकं पटं नित्यमेव निष्पाद-
यसि, तेन सर्वा व्ययसिद्धिः सम्पद्यते । इदानीं त्वं आत्म-
नोऽन्यद् बाहुयुगलं द्वितीयं शिरश्च याचस्व, येन पटद्वयं
सम्पादयसि पुरतः पृष्ठतश्च, एकस्य मूल्येन गृहे यथापूर्वं
व्ययं सम्पादयिष्यसि । द्वितीयस्य मूल्येन विशेषकृत्यानि
करिष्यसि । एवं सौख्येन स्वजातिमध्ये श्लाघमानस्य
कालो यास्यति । लोकद्वयस्य उपार्जना च भविष्यति”
सोऽपि तदाकर्ण्य प्रहृष्टः प्राह.-“साधु पतिव्रते ! साधु,
युक्तमुक्तं भवत्या; तदेवं करिष्यामि, एष मे निश्चयः”।
ततोऽसौ गत्वा व्यन्तरं प्रार्थयाञ्चक्रे,-“भो ! यदि मम
ईप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहुयुगलं शिरश्च”।
एवम् अभिहिते तत्क्षणादेव द्विशिराः चतुर्बाहुश्च सञ्जातः ।
ततो हृष्टमना यावत् गृहम् आगच्छति, तावत् लोकैः राक्ष-
सोऽयमिति मन्यमानैः लगुडपाषाणप्रहारैः ताडितो मृतश्च ।
अतोऽहं ब्रवीमि-

कौलिक बोला-“तैने सत्य कहा, सो बता कि क्या मांगू ?” वह बोली-
“तुम एक पट प्रतिदिन बुन लेतेहो उससे सब खर्च भली प्रकार चलता है; इस