पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 489, कुल 536 में से
संदर्भ में पढ़ें( ४७४ ) पञ्चतन्त्रम् ।
उपार्जन किया न देंगे । सो घर जाओ" । तब दूसरेने कहा-"भो सुबुद्धे ! तुम
अपने घरको जाओ कारण कि तुमको विद्या नहीं है" । तब तीसरेने कहा-"ऐसा
करनेको तुम योग्य नहीं हो हम बालकपनसे एक स्थानमें खेले हैं । सो आप
महानुभाव आइये हमारे उपार्जन किये धनके समान भागी होंगे-
किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ ३७ ॥
कहा है उस लक्ष्मीसे क्या करें जो केवल वधूकी समान है और जो साधारण
वेश्याकी समान पथिकोंसे नहीं भोगी जाती है ॥ ३७ ॥
तथाच-
और देखो-
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥ ३८ ॥
यह हमारा है यह पराया यह लघुचित्तवालोंकी गणना है । और उदार
चरित्रवालोंको वसुधाभर कुटुम्ब है ॥ ३८ ॥
तदागच्छतु एषोऽपि" इति । तथा अनुष्ठिते तैः मार्गा-
श्रितैः अटव्यां मृतसिंहस्य अस्थीनि दृष्टानि । ततश्च एकेन
अभिहितम्,-"अहो ! अद्य विद्याप्रत्ययः क्रियते । किञ्चिदे-
तत् सत्वं मृतं तिष्ठति, तद्विद्याप्रभावेण जीवनसहितं कुर्मः,
अहम् अस्थिसञ्चयं करोमि" ततश्च एकेन औत्सुक्यात्
अस्थिसञ्चयः कृतः । द्वितीयेन चर्ममांसरुधिरं संयोजितम् ।
तृतीयोऽपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिना नि-
षिद्धः । "भोः ! तिष्ठतु भवान्, एष सिंहो निष्पाद्यते यदि
एनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति" ।
इति तेन अभिहितः स "धिक् मूर्ख ! नाहं विद्याया विफ-
लतां करोमि" । ततः तेनाभिहितम्-"तर्हि प्रतीक्षस्व क्षणं
यावदहं वृक्षमDictारोहामि" तथानुष्ठिते यावत् सजीवः कृतः
तावत् ते त्रयोऽपि सिंहेन उत्थाय व्यापादिताः स च पुनः
वृक्षात् अवतीर्य्य गृहं गतः । अतोऽहं ब्रवीमि-