सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 437, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 437

( ४२२ ) पञ्चतन्त्रम् ।

कथा ४.

कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स
कदाचित् प्रमादादर्द्धभग्नघटकपरतीक्ष्णाग्रस्योपरि महता
वेगेन धावन् पतितः । ततः कर्परकोट्या पाटितललाटो
रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्च
अपथ्यसेवनात् स प्रहारस्तस्य करालतां गतः कृच्छ्रेण
नीरोग्यतां नीतः । अथ कदाचित् दुर्भिक्षपीडिते देशे स
कुम्भकारः क्षुत्क्षामकण्ठः कैश्चित् राजसेवकैः सह देशान्तरं
गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य
ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास । "यद्वीरः
पुरुषः कश्चित् अयम् । नूनं तेन ललाटपट्टे सम्मुखप्रहारः”।
अतस्तं सम्मानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्र-
सादेन पश्यतिस्म । तेऽपि राजपुत्राः तस्य तं प्रसादातिरेकं
पश्यन्तः परमेर्ष्याधर्मं वहन्तो राजभयात् न किञ्चित् ऊचुः ।
अथ अन्यस्मिन्नहनि तस्य भूपतेः वीरसम्भावनायां क्रिय-
माणायां विग्रहे समुपस्थिते प्रकल्पमानेषु गजेषु सन्नह्यमानेषु
वाजिषु योधेषु प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः
प्रस्तावानुगतं पृष्टो निर्जने । "भो राजपुत्र ! किं ते नाम ? का
च जातिः ? कस्मिन् संग्रामे प्रहारोऽयं ते ललाटे लग्नः” । स
आह-“देव ! नायं शस्त्रप्रहारः । युधिष्ठिराभिधः कुला-
लोऽहं प्रकृत्या मद्गृहेऽनेककर्पराणि आसन् । अथ कदाचित्
मद्यपानं कृत्वा निर्गतः प्रधावन् कर्परोपरि पतितः । तस्य
प्रहारविकारोऽयं मे ललाटे एवं विकरालतां गतः”। तदा-
कर्ण्य राजा सत्रीडमाह- "अहो ! वञ्चितोऽहं राजपुत्रानुका-
रिणा अनेन कुलालेन । तत् दीयतां द्राक् एतस्य चन्द्राद्धैः”
तथानुष्ठिते कुम्भकार आह-"मा मा एवं कुरु । पश्य मे रणे
हस्तलाघवम्” राजा प्राह-"भोः सर्वगुणसम्पन्नो भवान् ।
तथापि गम्यताम् । उक्तञ्च-