सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 387, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 387

( ३७२ ) पञ्चतन्त्रम् ।

मकालमेव तत् सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत् ।
“अहो ! मम शिशुकालात आरभ्य शकुनिबन्धव्यसनिनः
अशीतिवर्षाणि समभूवन् । न च कदाचित् अपि पक्षिपुरीषे
सुवर्णं दृष्टम्” । इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथ
असौ अपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुपविष्टः।
तत् कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य
पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास ।
“किमनेन सापायेन पक्षिणा अहं करिष्यामि, यदि कदा-
चित्कोऽपि अमुमीदृशं ज्ञात्वा राज्ञे निवेदयिष्यति, तत् नूनं
प्राणसंशयो मे भवेत्, अतः स्वयमेव पक्षिणं राज्ञे निवेदया-
मि” । इति विचार्य तथैव अनुष्ठितवान् । अथ राजापि तं
पक्षिणं दृष्ट्वा विकसितनयनवदनकमलः परां तुष्टिमुपागतः,
प्राह च एवं-“हंहो ! रक्षापुरुषाः ! एनं पक्षिणं यत्नेन रक्षत
अशनपानादिकं च अस्य यथेच्छं प्रयच्छत” । अथ मन्त्रिणा
अभिहितम्,-“किमनेन अश्रद्धेयव्याधवचनप्रत्ययमात्रपरि-
गृहीतेन अण्डजेन । किं कदाचित् पक्षिपुरीषे सुवर्णं सम्भ-
वति ? तन्मुच्यतां पञ्जरबन्धनादयं पक्षी” । इति मन्त्रिवच-
नात् राज्ञा मोचितोऽसौ पक्षी उन्नतद्वारतोरणे समुपविश्य
सुवर्णमयीं विष्ठां विधाय, 'पूर्वं तावत् अहं मूर्ख' इति श्लोकं
पठित्वा यथासुखमाकाशमार्गेण प्रायात् । अतोऽहं ब्रवीमि-
किसी एक पर्वतके एक देशमें महान् वृक्ष है । वहां सिम्भुक नामक कोई
पक्षी रहता था । उसकी बीटमें सुवर्ण उत्पन्न होता था । एक समय उसके
उद्देश्यसे कोई व्याधा वहां आया वह पक्षी उसके सम्मुख ही पुरीष करता भया
उसे सोना हुआ देख व्याधा विस्मयको प्राप्त हुआ । “अहो ! मुझे बालकपनसे
लेकर पक्षि पकड़नेका कार्य करते अस्सी वर्ष बीतगये । परन्तु कभी पक्षीके
पुरीषमें सुवर्ण न देखा” ऐसा विचार उस वृक्षमें पाशको बांधता हुआ । तब यह
मूर्ख पक्षी विश्वस्त चित्तसे वहां पूर्वकी समान बैठा रहा । और उसी समय पाशमें
बंधगया। व्याधाभी उसको पाशसे खोलकर पाँजरेमें डाल अपने घर लाया और