पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 375, कुल 536 में से
संदर्भ में पढ़ें( ३६० ) पञ्चतन्त्रम् ।
स्पर्शनीयं यतोऽहं पतिव्रता महासती च। न चेत् शापं दत्त्वा
त्वां भस्मसात करिष्यामि”। स आह- “यदि एवं तर्हि त्वया
किमहमाहूतः?” सा अब्रवीत्- “भो ! शृणुष्व एकाग्रमनाः।
अहमद्यप्रत्यूषे देवतादर्शनार्थं चण्डिकायतनं गता, तत्र अक-
स्मात् खे वाणी सञ्जाता- “पुत्रि ! किं करोमि, भक्तासि मे
त्वं, परं षण्मासाभ्यन्तरे विधिनियोगाद् विधवा भवि-
ष्यसि”। ततो मया अभिहितं,- “भगवति ! यथा त्वम्
आपदं वेत्सि, तथा तत्प्रतीकारमपि जानासि । तत् अस्ति
कश्चिदुपायो येन मे पतिः शतसंवत्सरजीवी भवति ?” ।
ततः तया अभिहितम्- “वत्से ! सन्नपि नास्ति । यतः तव
आयत्तः स प्रतीकारः” तच्छ्रुत्वा मया अभिहितम्,- “देवि!
यदि तत् मम प्राणैर्भवति, तत् आदिशय येन करोमि”।
अथ देव्या अभिहितम्,- “यदि अद्यदिने परपुरुषेण सह
एकस्मिन् शयने समारुह्य आलिङ्गनं करोषि, तत् एव भर्तृ-
सक्तोऽपमृत्युः तस्य सञ्चरति भर्त्तापि पुनः वर्षशतं जीवति”।
तेन त्वं मया अभ्यर्थितः । तद्यत किञ्चित कर्तुमनाः तत्
कुरुष्व । न हि देवतावचनमन्यथा भविष्यति । इति निश्चयः”।
ततोऽन्तर्हासविकाशमुखः स तदुचितमाचचार । सोऽपि
रथकारो मूर्खः तस्याः तद्वचनमाकर्ण्य पुलकाङ्किततनुः
शय्याधस्तलात् निष्क्रम्य तामुवाच,- “साधु पतिव्रते ! साधु
कुलन्दिनि अहं दुर्जनवचनशंकितहृदयः त्वत्परीक्षानिमित्तं
ग्रामान्तरव्याजं कृत्वा अत्र खट्वाधस्तले निभृतं लीनः । तत्
एहि आलिङ्गय मां, त्वं स्वभर्तृभक्तानां मुख्या नारीणां यत्
एव ब्रह्मव्रतं परसङ्गेऽपि पालितवती । मदायुरवृद्धिकृतेऽपमृ-
त्युविनाशार्थञ्च त्वमेवं कृतवती”। तामेवमुक्त्वा सस्नेहमालि-
ङ्गितवान् । स्वस्कन्धे तां आरोप्य तमपि देवदत्तमुवाच,-
“भो महानुभाव ! मत्पुण्यैः त्वमिह आगतः, त्वत्प्रसादात्
मया प्राप्तं वर्षशतप्रमाणमायुः। तत् त्वमपि मामालिङ्ग्य मत-