पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 333, कुल 536 में से
संदर्भ में पढ़ें( ३१८ ) पञ्चतन्त्रम् ।
निकल जाओ" शशक बोला,-"यह तेरा नहीं किन्तु मेरा घर है । सो क्यों
मिथ्या कठोर वचन कहता है । कहा है-
वापीकूपतडागानां देवालयकुजन्मनाम् ।
उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ९३ ॥
बावडी कुए तडागोंको देवालय तथा वृक्षोंको छोड़कर फिर इनपर कोई
अपना प्रभुत्व नहीं कर सक्ता ॥ ९३ ॥
तथाच-
तैसेही-
प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यं दश वत्सराम् ।
तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि वा ॥ ९४ ॥
दश वर्षतक जिसने प्रत्यक्ष क्षेत्रादिका भोग किया है उसमें भोगही प्रमाण
२ साक्षी और लेखकी आवश्यकता नहीं है ॥ ९४ ॥
मानुषाणामयं न्यायो मुनिभिः परिकीर्त्तितः ।
तिरश्चाञ्च विहङ्गानां यावदेव समाश्रयः ॥ ९५ ॥
मनुष्योंका यह न्याय मुनियोंने कहा है पशु और पक्षियोंकी जबतक जहां
स्थिति है तबतक वह वहांका अधीश्वर है ॥ ९५ ॥
तन्मम एतद्गृहं न तव" इति । कपिञ्जल आह,-"भो !
यदि स्मृतिं प्रमाणीकरोषि तदागच्छ मया सह येन स्मृति-
पाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु । तथानुष्ठिते मया
अपि चिन्तितम् । "किमत्र भविष्यति । मया द्रष्टव्योऽयं
न्यायः" । ततः कौतुकादहमपि तावनु प्रस्थितः । अत्रा-
न्तरे तीक्ष्णदंष्ट्रो नाम अरण्यमार्जारः तयोर्विवादं श्रुत्वा
मार्गासन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितनयन
ऊर्ध्वबाहुरेकपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मोपदे-
शनामकरोत् । "अहो ! असारोऽयं संसारः क्षणभङ्गुराः
प्राणाः । स्वप्नसदृशः प्रियसमागमः । इन्द्रजालवत् कुटुम्बप-
रिग्रहोऽयम् । तत् धर्म मुक्त्वा नान्या गतिः अस्ति । उक्तञ्च-