सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 331, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 331

( ३१६ ) पञ्चतन्त्रम् ।
अपिच-
औरभी-
अकृतज्ञं कापुरुषं व्यसनिनमलसं तथा सदा क्षुद्रम् ।
पृष्ठप्रलपनशीलं स्वामित्वे नाभियोजयेज्जातु ॥ ९० ॥
क्षुद्र आलसी कायर व्यसनी अकृतज्ञ ( उपकारका न माननेवाला ) पीछे
निन्दाका करनेवाला हो ऐसे पुरुषको स्वामी न करे ( जिसको जीनेकी
इच्छा है ) ॥ ९० ॥
क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ ।
उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ ९१ ॥”
न्यायकी खोजकरनेवाले शश कपिञ्जल नामक दोनों पक्षि क्षुद्र अर्थपतिको
प्राप्त होकर दोनोंही मरगये ॥ ९१ ॥”
ते प्रोचुः,-“कथमेतत् ?” स आह-
वे बोले,-“यह कैसी कथा है ?” वायस बोला-
कथा २.
कस्मिंश्चिद्वृक्षे पुरा अहं अवसम् । तत्र अधस्तात् कोटरे
कपिञ्जलो नाम चटकः प्रतिवसति स्म। अथ सदैव अस्तम-
नवेलायामागतयोः द्वयोः अनेकसुभाषितगोष्ठ्या देवर्षिब्र-
ह्मर्षिराजर्षिपुराणचरितकीर्त्तनेन च पर्य्यटनदृष्टानेककौतूह-
लप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति । अथ
कदाचित् कपिञ्जलः प्राणयात्रार्थमन्यैः चटकैः सह अन्यं
पक्वशालिप्रायं देशं गतः । ततो यावत् निशासमयेऽपि न
आयातः तावदहं सोद्विग्नमनाः तद्वियोगदुःखितः चिन्तित-
वान् । “अहो ! किमद्य कपिञ्जलो न आयातः । किं केनापि
पाशेन बद्धः । उताहो स्वित् केनापि व्यापादितः । सर्वथा
यदि कुशलो भवति तन्मां विना न तिष्ठति”। एवं मे चि-
न्तयतो बहूनि अहानि व्यतिक्रान्तानि । ततश्च तत्र कोटरे
कदाचित् शीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य
प्रविष्टः। मया अपि कपिञ्जलनिराशत्वेन न निवारितः । अथ