पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 277, कुल 536 में से
संदर्भ में पढ़ें(२६२) पञ्चतन्त्रम् ।
तैने कैसे इसको तीनसौ मुंद्रा दीं।” वह बोला-“भो कर्मन् ! रोजगारियोंको
मैं अवश्य देता हूं उसकी स्थिति तुम्हारे अधीन है”।
अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थिमवलोकयति,
तावत् रिक्तं पश्यति । ततः साक्षेपं चिन्तयामास,-“अहो !
किमेतत् ! महता कष्टेन उपार्जितं वित्तं हेलया कापि गतम् ।
तद्व्यर्थश्रमोऽकिंचनः कथं स्वपत्न्या मित्राणां च मुखं दर्शयि-
ष्यामि”। इति निश्चित्य तदेव पत्तनं गतः । तत्र च वर्षमात्रे-
णापि सुवर्णशतपंचकमुपार्ज्य भूयोऽपि स्वस्थानं प्रति प्र-
स्थितः। यावत् अर्द्धपथे भूयोऽटवीगतस्य भगवान् भानुरस्तं
जगाम । अथ सुवर्णनाशभयात् सुश्रान्तोऽपि न विश्राम्यति
केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति । अत्रान्तरे द्वौ पुरुषौ
तादृशौ दृष्टिदेशे समागच्छन्तौ जल्पन्तौ च शृणोति । तत्रैकः
प्राह,–“भो कर्त्तः ! किं त्वया एतस्य सुवर्णशतपञ्चकं प्रद-
त्तम् । तत् किं न वेत्सि ? यद्भोजनाच्छादनाभ्यधिकमस्य
किञ्चित् नास्ति” । स आह-“भोः कर्मन् ! मया अवश्यं
देयं व्यवसायिनाम् । तस्य परिणामः त्वदायत्तः । तत् किं
मामुपालम्भयसि ?” तत् श्रुत्वा सोमिलको यावद्ग्रन्थिमव-
लोकयति तावत् सुवर्णं नास्ति । ततः परं दुःखमापन्नो व्य-
चिन्तयत् । “अहो ! किं मम धनरहितस्य जीवितेन । तदत्र
वटवृक्षे आत्मानमुद्बध्य प्राणान् त्यजामि”। एवं निश्चित्य
दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामा-
त्मानं निबध्य यावत् प्रक्षिपति तावदेकः पुमान् आकाशस्थ
एव इदमाह,-“भो भोः सोमिलक ! मा एवं साहसं कुरु ।
अहं ते वित्तापहारको, न ते भोजनाच्छादनाभ्यधिकां वरा-
टिकामपि सहामि । तद्गच्छ स्वगृहं प्रति । अन्यच्च भवदी-
यसाहसेन अहं तुष्टः । तथा मे न स्यात् व्यर्थं दर्शनम् । तत्
प्रार्थ्यतामभीष्टो वरः कश्चित्” । सोमिलक आह-“यदि
एवं तद्देहि मे प्रभूतं धनम्”। स आह-“भोः ! किं करिष्यसि