पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 242, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( २२७ )
गुणसंख्या परित्यक्ता तद्वदस्य महात्मनः ।
परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥ ६६ ॥”
इसी प्रकार इस महात्माके गुणोंकी संख्या नहीं है यह बहुत निर्वेदको
प्राप्त होकर आपके समीप आया है ॥ ६६ ॥”
मन्थरक आह,-“किमस्य वैराग्यकारणम्?” वायस
आह,-“पृष्टो मया परमनेन अभिहितम्, यद् बहु वक्तव्य-
मस्ति तत् तत्र एव गतः कथयिष्यामि । ममापि न निवे-
दितम् । तत् भद्र हिरण्यक ! इदानीं निवेद्यतामुभयोः अपि
आवयोः तदात्मनो वैराग्यकारणम्” । सोऽब्रवीत-
मन्थरक बोला,-“इसके वैराग्यका करण क्या है ?” वायस बोला-“ मैंने
पूछा था परन्तु इसने कहा इसमे बहुत कुछ कहना है इस कारण वहीं जाकर
कहूंगा, मुझसेभी न कहा । सो भद्र हिरण्यक ! इस समय प्रेमी हम दोनोंसे अपने
वैराग्यका कारण वर्णन करो” । वह बोला-
कथा १.
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् ।
तस्य नातिदूरे मठायतनं भगवतः श्रीमहादेवस्य । तत्र
च ताम्रचूडो नाम परिव्राजकः प्रतिवसतिस्म । स च नगरे
भिक्षाटनं कृत्वा प्राणयात्रां समाचरति । भिक्षाशेषञ्च तत्रैव
भिक्षापात्रे निधाय तद्भिक्षापात्रं नागदन्ते अवलम्ब्य पश्चात्
रात्रौ स्वपिति । प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक्
तत्रैव देवतायतने सम्मार्जनोपलेपमण्डनादिकं समाज्ञाप-
यति । अन्यस्मिन् अहनि मम बान्धवैः निवेदितम्,-“स्वा-
मिन् ! मठायतने सिद्धमन्नं मूषकभयात् तत्रैव भिक्षापात्रे
निहितं नागदन्तेऽवलम्बितं तिष्ठति सदा एव, तद् वयं
भक्षयितुं न शक्नुमः । स्वामिनः पुनरगम्यं किमपि नास्ति ।
तत् किं वृथाटनेन अन्यत्र अद्य तत्र गत्वा यथेच्छं भुञ्जामहे
तव प्रसादात्” । तदाकर्ण्य अहं सकलयूथपरिवृतः तत्क्षणा-
देव तत्र गतः । उत्पत्य च तस्मिन् भिक्षापात्रे समारूढः