पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 176, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( १६१ )
येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः क्वचित् ।
प्राणत्यागेऽपि तत्कर्म न कुर्यात्कुलसेवकः ॥ ३८४॥”
जिससे लघुता वा प्रभुके चित्तमें कुछभी पीडाहो कुलसेवक् प्राणके त्यागमें
भी वह कर्म न करे ॥ ३८४ ॥”
तच्छ्रुत्वा भगवान् आह-“भो वैनतेय ! सत्यमभिहितं
भवता । उक्तञ्च-
यह सुनकर भगवान् बोले,-“हे गरुडजी ! आपने सत्य कहा, कहाहै कि-
भृत्यापराधजो दण्डः स्वामिनो जायते यतः ।
तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥ ३८५ ॥
भृत्यके अपराधसे उत्पन्न हुआ दण्ड स्वामीको होता है उससे उस स्वामी-
को जो लज्जा होती है ऐसी भृत्यको नहीं ॥ ३८५ ॥
तदागच्छ येन अण्डानि समुद्रादादाय टिट्टिभं सम्भाव-
यावः अमरावतीञ्च गच्छावः”। तथानुष्ठिते समुद्रो भगवता
निर्भर्त्स्य आग्नेयं शरं सन्धाय अभिहितः,-“भो दुरात्मन् !
दीयन्तां टिट्टिभाण्डानि नो चेत् स्थलतां त्वां नयामि”।
ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि, टिट्टि-
भेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि, “शत्रोर्ब-
लमविज्ञाय” इति ।
सो आओ समुद्रसे अण्डे लेकर टिट्टिभका सत्कार करें और अमरावतीको
जायं। ऐसा करनेपर सागरको भगवान्ने घुडक अग्निव्वाण चढाकर कहा-
“दुरात्मन् टिट्टिभके अण्डे दे नहीं तो तुझको शुष्क कर दूंगा”। तब सागरने
डरकर टिट्टिभके अण्डे दे देदिये । टिट्टिभने अपनी स्त्रीको समर्पण किये इससे मैं
कहता हू “शत्रुका बल बिना जाने इत्यादि” ॥
तस्मात् पुरुषेण उद्यमो न त्याज्यः”। तदाकर्ण्य सञ्जीव-
कस्तमेव भूयोऽपि पप्रच्छ,-“भो मित्र ! कथं ज्ञेयो मयाऽसौ
दुष्टबुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तरस्नेहेन प्रसादेन
च अहं दृष्टो न कदाचित् तद्विकृतिर्दृष्टा, तत् कथ्यतां येना-
११