पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 174, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम्। (१५९)
तं समुद्रं शोषयामः” । एवं चिन्तयतस्तस्य विष्णुदूतः समा-
गत्य आह--“भो गरुत्मन् ! भगवता नारायणेन अहं तव
पार्श्वे प्रेषितः, देवकार्यार्थ भगवान् अमरावत्यां यास्यतीति
तत् सत्वरमागम्यताम्”। तच्छ्रुत्वा गरुडः साभिमानं प्राह,-
“भो दूत ! किं मया कुभृत्येन भगवान् करिष्यति । तद्गत्वा
तं वद यदन्यो भृत्यो वाहनाथ अस्मत्स्थाने क्रियताम् ।
मदीयो नमस्कारो वाच्यो भगवतः । उक्तञ्च-
यह वचन गरुड सुन उसके दुःखसे दुःखी हुआ क्रोधकर विचारने लगा ।
“अहो ! इन पक्षियोंने सत्य कहा सो आज जाकर उस सागरको शोषलेंगे” ।
उसके यह विचार करनेमें विष्णुदूत आनकर बोला,-“भो गरुड ! नारायण
भगवान्ने मुझे तुम्हारे पास भेजा है । देवकार्य्यके निमित्त भगवान् अमरावतीको
जायगे सो शीघ्र आओ”। यह सुन गरुड अभिमानपूर्वक बोला,-“भो दूत !
मुझ कुभृत्यसे भगवान् क्या करेंगे । सो जाकर उनसे कहो किसी और भृत्यको
मेरे स्थानमें वहनयोग्य करें । भगवान्से मेरा नमस्कार कहदेना । कहाहै-
यो न वेत्ति गुणांर्यस्य न तं सेवेत पण्डितः ।
न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥ ३८१ ॥”
जो जिसके गुण नहीं जानता बुद्धिमान्को चाहिये कि, उसकी सेवा नकरे
उससे कुछ फल नहीं प्राप्त होताहै जैसे जोती हुई ऊषरभूमिसे ॥ ३८१ ॥”
दूत आह--“भो वैनतेय ! कदाचिदपि भगवन्तं प्रति
त्वया न एतदभिहितमीदृक् । तत् कथय किं ते भगवता अप-
मानस्थानं कृतम् ?” गरुड आह-“भगवदाश्रयभूतेन समु-
द्रेण अस्माट्टिट्टिभाण्डानि अपहृतानि, तद्यदि तस्य विग्रहं न
करोति तदहं भगवतो न भृत्य इत्येव निश्चयस्त्वया वाच्यः।
तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम्” । अथ
दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय भगवान् चिन्तयामास।
“अहो ! स्थाने कोपो वैनतेयस्य, तत् स्वयमेव गत्वा सम्मा-
नपुरःसरं तमानयामि । उक्तञ्च,-