पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
पृष्ठ 146, कुल 536 में से
संदर्भ में पढ़ेंभाषाटीकासमेतम् । ( १३१ )
प्रदानं दत्त्वा मदोत्कटसकाशमानीतः प्रणम्योपविष्टश्च ।
ततस्तस्य पृच्छतस्तेनात्मवृत्तान्तः सार्थभ्रंशसमुद्भवो निवे-
दितः । ततः सिंहेनोक्तम्- "भोः क्रथनक ! मा त्वं ग्रामं
गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः । तदत्रैव अरण्ये
निर्विशङ्को मरकतसदृशानि शष्पाग्राणि भक्षयन् मया सह
सदैव वस" । सोऽपि तथेत्युक्त्वा तेषां मध्ये विचरन् न
कुतोऽपि भयमिति सुखेन आस्ते । तथान्येद्युर्मदोत्कटस्य
महागजेन अरण्यचारिणा सह युद्धमभवत् । ततस्तस्य दन्त-
मुशलप्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न
वियुक्तः । अथ शरीरासामर्थ्यात् न कुत्रचित्पदमपि चलितुं
शक्नोति । तेऽपि सर्वे काकादयोऽप्रभुत्वेन क्षुधाविष्टाः परं
दुःखं भेजुः । अथ तान् सिंहः प्राह- "भो ! अन्विष्यतां कुत्र-
चित् किञ्चित् सत्त्वं येन अहं एतामपि दशां प्राप्तस्तद्धत्वा युष्म-
द्भोजनं सम्पादयामि" । अथ ते चत्वारोऽपि भ्रमितुमारब्धा
यावन्न किञ्चित् सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं
मन्त्रयतः । शृगाल आह- "भो वायस ! किं प्रभूतभ्रान्तेन,
अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति तदेनं हत्वा
प्राणयात्रां कुर्मः" । वायस आह- "युक्तमुक्तं भवता, परं
स्वामिना तस्य अभयप्रदानं दत्तमास्ते न वध्योऽयम्" इति॥
शृगाल आह- "भोः वायस ! अहं स्वामिनं विज्ञाप्य तथा
करिष्ये यथा स्वामी वधं करिष्यति तत्तिष्ठन्तु भवन्तोऽत्रैव
यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा च आगच्छामि"। एवम-
भिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्य इद-
माह- "स्वामिन् ! समस्तवनं भ्रान्त्वा वयमागताः, न कि-
ञ्चित्सत्त्वमासादितम्, तत् किं कुर्मो वयम् । सम्प्रति वयं
बुभुक्षया पदमेकमपि प्रचालितुं न शक्नुमः। देवोऽपि पथ्याशी
वर्त्तते । तद्यदि देवादेशो भवति तत् क्रथनकपिशितेन अद्य
पथ्यक्रिया क्रियेत" । अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य