सामग्री पर जाएँ
सर्वकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 119, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 119

( १०४ ) पञ्चतन्त्रम् ।
तस्य अग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको
भर्त्सयन्नाह,-"रे शशकाधम ! एकतस्तावत् त्वं लघुः
प्राप्तोऽपरतः वेलातिक्रमेण, तदस्मादपराधात् त्वां नि-
पात्य प्रातः सकलान्यपि मृगकुलानि उच्छेदयिष्यामि" ।
अथ शशकः सविनयं प्रोवाच,-"स्वामिन् ! नापराधो
मम,न च सत्त्वानाम्, तत् श्रूयतां कारणम्" । सिंह आह-
“सत्वरं निवेदय यावत् मम दंष्ट्रान्तर्गतो न भवान् भवि-
ष्यति"इति । शशक आह-"स्वामिन्! समस्तमृगैरद्य जाति-
क्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः
समं प्रेषितः । ततश्च अहमागच्छन्नन्तराले महता केनचि-
दपरेण सिंहेन विवरान्निर्गत्य अभिहितः-"रे ! क प्रस्थिता
यूयम् ? अभीष्टदेवतां स्मरत" । ततो मयाभिहितम्-“वयं
स्वामिनो भासुरकसिंहस्य सकाशे आहारार्थं समयधर्मेण
गच्छामः" । ततः तेन अभिहितम्-"यद्येवं तर्हि मदीयमेत-
द्वनं मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् ।
चौररूपी स भासुरकः । अथ यदि सोऽत्र राजा ततो विश्वा-
सस्थाने चतुरः शशकानत्र धृत्वा तमाह्वय द्रुततरमागच्छ,
येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा भविष्यति स
सर्वानितान् भक्षयिष्यति" इति । ततोऽहं तेनादिष्टः स्वा-
मिसकाशमभ्यागतः, एतत् वेलाव्यतिक्रमकारणम् । तदत्र
स्वामी प्रमाणम्" । तच्छ्रुत्वा भासुरक आह-"भद्र ! यदि
एवं तत् सत्वरं दर्शय मे तं चौरसिंहम्, येन अहं मृगकोपं
तस्य उपरि क्षिप्त्वा स्वस्थो भवामि । उक्तञ्च-
तब उनके यह वचन सुनकर भासुरक बोला--"अहो तुमने सत्य कहा,
परन्तु यदि मेरे बैठेहुए नित्य एक जीव न आवेगा तो अवश्यही सबको खा
जाऊंगा' । तब वे ऐसाही करेंगे यह प्रतिज्ञा करके निरुद्वेग होकर उस वनमे
निर्भय फिरने लगे । प्रति दिन एक क्रमसे उनके पास जाता वृद्ध या वैराग्ययुक्त
वा शोकग्रस्त वा पुत्र कलत्रके नाशसे भीतहुआ उनके मध्यसे उनके भोजनके