पञ्चसिद्धान्तिका (आचार्य वराहमिहिर - सूर्य, रोमक, पौलिश, वासिष्ठ एवं पितामह सिद्धान्त)
Panchasiddhantika of Acharya Varahamihira with Commentary
आचार्य वराहमिहिर द्वारा
पृष्ठ 418, कुल 419 में से
संदर्भ में पढ़ेंमत्तोऽधुना कृतिरियं सति मालवेन्द्रे श्रीविक्रमार्कनृपराजवरे समासीत् ॥ २२.७ ॥
नृपसभायां पण्डितवर्गाः-
शङ्कुः सुवाग्वररुचिर्मणिराङ्गदत्तो जिष्णुस्त्रिलोचनहरो घटखर्पराख्यः।
अन्येऽपि सन्ति कवयोऽमरसिंहपूर्वा यस्यैव विक्रमनृपस्य सभासदोऽमी ॥ २२.८ ॥
सत्यो वराहमिहिरः श्रुतसेननामा श्रीबादरायणमणित्थकुमारसिंहाः।
श्रीविक्रमार्क नृपसंसदि सन्ति चैते श्रीकालतन्त्रकवयस्त्वपरे मदाद्याः ॥ २२.९ ॥
नवरत्नानि-
धन्वन्तरि क्षपणकामरसिंहशङ्कुवैतालभट्टघटखर्परकालिदासाः।
ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥ २२.१० ॥
सभापरिजना-
अष्टौ यस्य शतानि मण्डलधराधीशाः सभायां सदा, स्युः संसत्परिणाहकोटिसुभटाः सत्पण्डिताः षोडश।
दैवज्ञा दशपण्मिताश्च भिषजो भट्टास्तथा ढाढिनो वेदज्ञा रसचन्द्रमा विजयते श्रीविक्रमः सोऽधिभूः ॥ २२.११ ॥
सैन्यवर्णनम्-
यस्याष्टादशयोजनानि कटके पादातिकोटित्रयं वाहनानामुतायुतं च नवतिखिन्ना कृतिर्हस्तिनाम्।
नौकालक्षचतुष्टयं विजयिनो यस्य प्रयाणे भवत् सोऽयं विक्रमभूपतिर्विजयते नान्यो धरित्रीधरः ॥ २२.१२ ॥
शाकप्रवृत्तिकाल-
येनास्मिन्वसुधातले शकगणांन्सर्वा दिशः सङ्गरे हत्वा पञ्चनवप्रमान्कलियुगे शाकप्रवृत्तिः कृता।
श्रीमद्विक्रमभूपुजा प्रतिदिनं मुक्तामणित्वर्णगो सत्तीभाद्यपवर्जनेन विहितो धर्मः सुवर्णाननः ॥ २२.१३ ॥
दिग्विजयवर्णनम्-
उद्दामद्रविडद्रुमैकपरशुर्लाटाटवीपावको, वेल्लद्वङ्गभुजङ्गराजगरुडो गौडाब्धिकुम्भोद्भवः।
गर्जद् गुर्जरराजसिंधुरहरिर्धारान्धकारार्यमाः, काम्बोजाम्बुजचन्द्रमा विजयते श्रीविक्रमार्को नृपः ॥ २२.१४ ॥
प्रभुत्ववर्णनम्-
येनाप्युग्रमहीधराग्रविषये दुर्गाण्यसह्यान्यहो, नीत्वा यानि नतीकृतास्तदधिपाः दत्तानि तेषां पुनः।
इन्द्राम्भोध्यमरद्रुमरसुरक्ष्माभृद् गणेनाञ्जसा, श्रीमद्विक्रमभूपुताखिलजनाम्भोजेन्दुना मण्डले ॥ २२.१५ ॥
उज्जयिनीवर्णनम्-
यद्राजधान्युज्जयिनी महापुरी सदा महाकालमहेशयोगिनी।
समाश्रयिप्राण्यपवर्गदायिनी श्रीविक्रमार्कोऽवनिपो जयत्यपि ॥ २२.१६ ॥
यो रुक्मदेशाधिपतिं शकेश्वरं जित्वा गृहीत्वोज्जयिनीं महाहवे।
आनीय सम्भ्राम्य मुमोच यत्त्वहो स विक्रमार्कः समसह्यविक्रमः ॥ २२.१७ ॥
तस्मिन् सदाविक्रममेदिनीशे विराजमाने समवन्तिकायाम्।
सर्वप्रजामङ्गलसौख्यसम्पद् बभूव सर्वत्र च वेदकर्म ॥ २२.१८ ॥
शङ्कादिपण्डितवराः कवयस्त्वनेके ज्योतिर्विदः सभमवंश्च वराहपूर्वाः।
श्रीविक्रमार्कनृपसंसदि मान्यवृद्धिरस्तत्राप्यहं नृपसखा किल कालिदासः ॥ २२.१९ ॥
काव्यत्रयं सुमतिकृद्रघुवंशपूर्वं पूर्वं ततो ननु कियच्छुतिकर्मवादः।
ज्योतिर्विदाभरणकालविधानशास्त्रं श्रीकालिदासकवितो हि ततो बभूव ॥ २२.२० ॥
वर्षेः सिन्धुरदर्शनाम्बरगुणैर्याते कलौ (3068 Kali)