सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 620, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 620

२०६ न्यायमञ्जर्याम्

ति, अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किं त्वप्रतिमैवेति, तथा हि यदि
तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभासमप्याचक्षाणमुपेक्षेत तत्र दूषणं नोद्भा-
वयेत् तदुत्तराप्रतिपत्त्या स निगृह्येत न पर्यनुयोज्योपेक्षणेन, वस्तुतस्तु द्वयोरपि
तत्र जयपराजयनिर्धारणमनुपपन्नमेकस्य साधनाभासवादित्वादितरस्य च तदु-
त्तराप्रतिभानात् , अथ पूर्वपाक्षिकं दूषणाभासवादिनं दोषप्राप्तमुत्तरपाक्षिको
न निगृह्णाति तथा दूषणाभासवादित्वादितरस्य च तदनुद्भावनादिति"
अत्रोच्यते नाप्रतिभायाः सम्यक्साधनविषयत्वात् , सम्यक्साधने च प्रयुक्ते
तदुत्तरस्याप्रतिपत्तिरप्रतिभा भवति साधनाभासे तु प्रयुक्ते तदाभासतानुद्भावना-
त्पर्यनुयोज्योपेक्षणं भवति, अत्र हि साधनाभासवादी पर्यनुयोज्य एवेति विशेषः,
यत्तुवस्तुवृत्तेन न कस्य चिज् जयः पराजयो वेति तदेवमेव, किं तु जल्पे पुरुष-
शक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते, तदुद्भावयिता तु यद्विकल्पितस्तत्राप्यु-
च्यते पूर्वपाक्षिकेण साधनाभासे प्रयुक्ते उत्तरपाक्षिकेण तस्मिंस्तथात्वेनानुद्भा-
विते प्राश्निकानामपृष्टानां वक्तुमवसराभावात्स एव साधनाभासवादी कदा-
चिद्वैधात्यादेवं ब्रूयान्मया ऽस्य शक्तिं जिज्ञासमानेन साधनाभासप्रयोगः कृत
एष तु मूर्खस्तं न जानातीति तदा कथं न निगृह्येत, एतेन दूषणाभासवाद्यपि
व्याख्यातः