सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 604, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 604

Here is the complete, line-by-line transcription of the text from the image into clean Devanagari Markdown:

१९० न्यायमञ्जर्याम्
स्तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानस्तत्प्रतीपं योजयति ततः स्थापनाहे-
तुवादी प्रतीपयोजनायामफलायां दुरन्तायां समन्वयफलायामशक्यक्रियायां च
निरुद्योगः किं चिदभिनवं दूषणमुत्प्रेक्ष्य पञ्चमे वचसि स्थितो मतानुज्ञामाह,
ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां
तत्पक्षे योजयतीत्येवं वृत्ते दूषणान्तरासंभवात्प्रतीपयोजने च अभरसत्वात्तूष्णी-
मेवासितुमुचितमिति तावत्येव भवति वचनविरतिर्न शतसहस्रादिपक्षप्रसङ्गः
प्रवर्त्तत इत्यतः षट्पक्षीमेव प्रदर्शितवानाचार्यः, स चान्तेवासिनं बोधयितुमेव-
मुपादिक्षदेनेन पथा प्रवर्तेत भवानन्येन मा प्रवर्तिष्टेति ।
वाच्यमुत्तरमतो निरवद्यं