न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४७
विधिनाऽऽपादितचैतन्यम् । सन्निधानञ्च तत्र तेषामहङ्कारममकारौ, चित्रादा-
विव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् । अन्येषान्तु पूर्वपूर्वपूजितप्रत्य-
भिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् । एतेनाभि-
मन्त्रितपयःपल्लवादयो व्याख्याताः ॥ १२ ॥
बोधनी ।
सर्वगतत्वाद् देवतानां नित्यमेव सन्निधानं किं प्रतिष्ठाविधिना तत्राह—सन्निधानं च-इति ।
नो दर्शनं देवतावादिनामास्तिकानामित्यर्थः । कथमिदं नास्तिकस्य मीमांसकस्योत्तरं स्यादित्या-
शङ्क्य प्रत्यभिज्ञानतोऽपि वेत्येतदुत्तरतया व्याचष्टे--अन्येषामिति । यो नामुनेयं प्रतिष्ठापि-
तेति प्रतिष्ठायामनुसन्धामुष्टे तस्य प्रतिष्ठा प्रत्यभिज्ञासहकारिणी, इतरस्य तु पूर्वपूर्वपूजितप्रत्य-
भिज्ञा । तथात्वम्=पूजातिक्रमाभ्यां धर्माधर्मजनकत्वमिति । अभिमन्त्रितस्य पयःपल्लवादेर्विश्वरोग-
विप्रतीकारान्यथानुपपत्त्या शक्तिकल्पनमाशङ्क्य तत्राप्युक्तमेव प्रकारमतिदिशति-एतेन इति ॥ १३ ॥
तत्रापि हि तत्तन्मन्त्रप्रतिपाद्यगरुडादिदेवतापरिग्रहादभिमन्त्रितत्वप्रत्यभिज्ञानाद्वा प्रोक्षणादि-
प्रकाशः ।
अहङ्कारेति । न च देवतानां विशेषदर्शनवत्त्वान्न भ्रम इति वाच्यम् । अभिमानीत्यनेना-
हार्यारोपरूपत्वस्य दर्शितत्वात् । ज्ञानस्य नष्टेऽपि तज्जन्यसंस्कारस्य सत्त्वात् । अस्पृश्यस्पर्शा-
दिना च तन्नाशात् । अचेतनदेवतापक्षे त्वाह । अन्येषान्वित्वति । आद्यपूजायां न पूजितप्रत्य-
भिज्ञानमित्यत उक्तम् । प्रतिष्ठितेति । अत्रापि प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शानादिसंसर्गाभा-
वसहकृतस्येति द्रष्टव्यम् । "प्रतिष्ठितं पूजये"दिति विधिवलात् तज्ज्ञानस्यावश्यकत्वात् ।
अत एव तदभावे पूजा निष्फलैवेति भावः ॥ १२ ॥
प्रकाशिका ।
क्षुपसाक्षात्कारे जनकत्वं न स्यात् उद्भूतरूपमात्रस्यैवानतिप्रसङ्गादिति वाच्यम् । द्रव्यसाक्षात्का-
रसामान्य एवात्मादिस्थले तस्य कारणत्वकल्पनात् , तदुत्कर्षेण चाक्षुषोत्कर्षाच्च । अत्रापीति ।
अपिशब्दः पूजितत्वप्रत्यभिज्ञानसमुच्चयपरः । अस्पृश्येति । प्रतिष्ठाकालीनत्वमनाद्यभावे विशे-
षणं, यावत्पदं समसंख्यापरम्, एवं च प्रतिष्ठोत्तरमस्पृश्यस्पर्शे प्रागभावनाशोऽपि स्पर्शध्वंसान-
न्तरं तमादाय समसंख्यत्वादतिप्रसङ्ग इत्यानादिपदम् । अपूज्यतापयोजकपरम्परासम्बन्धावच्छि-
न्नास्पृश्यस्पर्शे प्रतिष्ठोत्तरं जाते पूज्यता न स्यादिति संसर्गपदं संसर्गविशेषावच्छिन्नाभावलाभा-
येति दिक् ॥ १२ ॥
मकरन्दः ।
कानुद्भूतरूपादपि त्र्यणुकोद्भूतरूपं जायते इत्यर्थः । अत्रापीति । प्रतिष्ठाकालीनयावदस्पृश्य-
स्पर्शादीत्यर्थः । अत्र विस्तरोऽनुमानप्रकाशे ॥ १२ ॥
टिप्पणी ।
परमाणुरूपस्याप्रत्यक्षत्वे किमर्थमुद्भूतत्वसिद्धिः, तद्गुणसर्वविज्ञानबहूत्रीहिकल्पनं च निर्युक्तिक-
मिति । अत्रापीति । प्रतिष्ठाकालीनत्वमनादिसंसर्गाभावस्य विशेषणं वाच्यम्, यावदिति-
समसंख्येत्यर्थः, तथा च प्रतिष्ठाकालीनास्पृश्यस्पर्शाभावसमसंख्यकास्पृश्यस्पर्शाद्यनादिसंसर्गा-
भावः सहकारोत्यर्थः । प्रतिष्ठोत्तरमस्पृश्यस्पर्शनाशकाले विद्यमानोऽप्यभावो न तादृशाभावसमसं-
ख्यकानादिसंसर्गाभावः, ध्वंसस्यानादित्वाभावात् प्रागभावस्याविद्यमानत्वादिति विशेषणद्वयस्य
सार्थक्यम् । पुनः प्रतिष्ठायां द्वितीयप्रतिष्ठामादायैव तादृशाभावसम्पत्तिः कार्येति भावः ॥१२॥
१४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां
घटादिषु का वार्त्ता ? कुशलैवेति चेन्न । न हि सामग्री दृष्टं विघटयति,
नाप्यदृष्टं, ज्ञापकत्वात्, नाप्यदृष्टमुत्पादयति, धर्मजनने सर्वदा विजयप्रसङ्गात् ।
विपर्यये सर्वदा भङ्गप्रसङ्गात् ।
मत्रोच्यते—
जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् ॥
परीक्ष्यसमवेतस्य परीक्षाविधयो मताः ॥१३॥
यद्यपि धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते, ताश्च कर्मविभवानुरूपं-
लिङ्गमभिव्यञ्जयन्तीत्यस्माकं सिद्धान्तः, तथापि परविप्रतिपत्तेरन्यथोच्यते । ते-
नापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं कार्यमुन्मोल-
'बोधनी ।
वदभिमन्त्रणसहकाराद्योपपत्तिरिति गूढाभिसन्धिः पृच्छति—घटादिषु—इति । तुलातसमाषा-
दिष्वित्यर्थः । गूढाभिसन्धिरेवोत्तरमाह–कुशला–इति । इतरः स्वाभिप्रायमुद्घाटयति–न हि
सामग्री इति । तुलारोहणाङ्गत्वेन विहिताभिमन्त्रणादिसामग्री न तावदभिशस्तसमवेतं जयस्य
पराजयस्य वा निमित्तं किञ्चिद् दृष्टं लघुत्वं गुरुत्वं वा विघटयति ज्ञापकत्वेनाकारकत्वात् तस्यादर्श-
नाच्चेति भावः । नाप्यदृष्टम्-इति । विघटयतीत्यनुषङ्गो ज्ञापकत्वादेव । किञ्च, धर्मविघटने
सदा भङ्गप्रसङ्गः, अधर्मविघटने सदा विजयप्रसङ्गः, उभयविघटनं त्वेकस्याः सामग्र्या न सम्भ-
वतीति वक्ष्यमाणन्यायोऽत्राप्यनुसन्धेय इति । नन्वभिशस्तसमवेतमर्थतथात्वज्ञापकं किञ्चिददृष्टमु-
त्पादयति, तेन तद्द्वारा ज्ञापकोऽयं विधिर्भविष्यतीत्याशङ्कयाह–नाप्यदृष्टमुत्पादयतीति-इति ।
न चैकस्मिन् धर्ममितरस्मिन्नधर्ममिति सम्भवति, सामग्र्यभेदे कार्यभेदानुपपत्तेरिति भावः ।
प्रतिमादौ तत्तद्देवतासन्निधानादिसम्भवात् पूजातिक्रमलक्षणसामग्रीभेदेन धर्माधर्मजनन सम्भवाच्च
सम्भवेपि परिहारस्तुलायामिमानिकदेवताभावात् सामग्र्याश्चैकरूपत्वेन धर्माधर्म हेतुत्वायोगात्
संस्काराधानमेवाङ्गीकार्यमिति पुनः प्रत्यवस्थानमिति ।
सिद्धान्ती स्वाभिप्रायमुद्घाटयति – जयेतर–इति । वृत्तिः=अभिव्यक्तिः, सा च सहकारि
लाभ इति स्वयमेव व्याख्यास्यति । अभिशस्तसमवेतयोर्जयेतरनिमित्तधर्माधर्मयोरभिव्यक्तिद्वारे-
णार्थतथात्वं ज्ञापयति परीक्षाविधिः, अतोऽत्रापि न संस्कारकल्पनेत्यत्रापि पूर्वोक्तमेव परिहारं स्मा-
रयति – यद्यपि-इति । परीक्षाविधिनापि धर्मसत्यादिषु शरीरवदभिमानिनीनां सन्निधिः क्रियते ।
सन्निहिताश्चाभिशस्तस्तेयादिकर्मविभवानुरूपं तुलानमनोन्नमनादिकं लिङ्गमभिव्यञ्जन्ति । ततो
जयः पराजयो वेति । यद्यप्यभ्युपगमः सिद्धस्तथाप्यत्र मीमांसकस्यासम्प्रतिपत्तेरभ्युपगम्यैवान्यथा
परिहार उच्यत इति श्लोकं व्याचक्षाणस्तमेव परिहारमाह-तेनापि-इति । तद्विधानामिव्यक्तमभि-
शस्तकृतस्तेयाद्यनुमापकं कार्यं नमनोन्नमनादि जनयति । कथमनेन धर्माधर्माभिव्यक्तिरित्यत्राह-
प्रकाशः ।
घटः=तुला । न हीति । सामग्री=परीक्षासामग्री । अवनतिहेतोर्दृष्टस्यादृष्टस्य वा विघटने
सदैवोन्नमनप्रसङ्गादित्यर्थः । तस्माद् भूतार्थपरिच्छेदिका शक्तिस्तुलादिसामग्रीजन्येत्यभ्युपेय-
मिति भावः ।
जयेतरेति । जयभङ्गनिमित्तस्य परीक्ष्यात्मसमवेतस्यादृष्टस्य वृत्तिः स्वकार्यजननाभिमुख्यं
तल्लाभायैवेत्यर्थः । यद्यपीति । पापवान् पुण्यवान् वाऽयमनेन विधिना तुलामारूढ इति यद्देव-
ताज्ञानं, स एव देवतासन्निधिरतः परीक्षाविधेरविधेयेऽपि कर्मोन्नायकं नमनादिकं लिङ्गमभिव्यञ्ज-
यन्ति । तादृशञ्च ज्ञानं न परीक्षाविधिं विनेति सोऽपि प्रयोजक इत्यर्थः । परविप्रतिपत्तिर्देवता-
Here is the complete, line-by-line transcription of the text from the image:
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४५
यति । कर्मणश्चाभिव्यक्तिः सहकारिलाभ एव । तच्च सहकारि, सोऽहमनेन वि-
धिना तुलामधिरूढो योऽहं पापकारी निष्पापो वेति प्रत्यभिज्ञानम् । यदाहुः
“ताँस्तु देवाः प्रपश्यन्ति स्वहृत्स्थैवान्तरपुरुषः” इति ।
अथवा प्रतिज्ञानुरूपां विशुद्धिमपेक्ष्य तेन धर्मो जन्यते निमित्ततो विधाना-
द्विजसफलश्रुतेश्च । भविशुद्धिश्चापेक्ष्याधर्मः । पराजयलक्षणानपेक्षितफलोपदर्श-
नेन फलतो निषेधात् ।
बोधनी ।
कर्मणश्च-इति। सहकारिलाभे फलोत्पत्त्या कर्माभिव्यज्यते, तेनाभिव्यक्तिहेतुत्वात् सहकारिलाभोऽ-
भिव्यक्तिरुपचर्यत इति । कथं लोकपालाद्यर्चनादिकर्मणां क्षणिकत्वेन साहित्यानुपपत्तेः सहकारिते-
त्यत्राह-तच्च-इति । कर्मक्षणानां स्वरूपतः साहित्याभावेऽपि तद्विषयज्ञानद्वारा तत्साहित्यात् सह-
कारित्वोपपत्तिः तत्र निष्पापत्वेन प्रत्यभिज्ञानं जयनिमित्तं कर्माभिव्यनक्तीतरदितरदिति विवेकः ।
सुगूढमपि पापं चरद्विरात्मनः पापकारित्वं ज्ञायत एवेत्यत्र स्मार्त्तवचनमुदाहरति-यदाहुः-इति ।
एवं तावत् संग्रहो व्याख्यातः । इदानीं तु न तावज्जयपराजयमात्रफलमनेनानुष्ठितं कर्मास्ति
यदनेनाभिव्यज्येत, तादृशकर्मणामश्रुतत्वात् । न चानुष्ठितं स्तेयादि पराजयहेतुस्तस्य नरकादिक-
फलत्वात् , न च विजयमानेन विजयहेतुः कश्चित् धर्मोऽनुष्ठितः किन्तु स्तेयादिरनुष्ठितः, न चाननु-
ष्ठानस्य किञ्चित्फलमस्तीति तत्रापरितुष्यन् परिहारान्तरमाह । अथवा इति । प्रतिज्ञानु-
रूपशुद्धिसहकृतेन परीक्षाविधिना धर्मो जन्यत इति । ननु किञ्चिदुद्दिश्य विहितात् कर्मणो
धर्मो जन्यते न त्विह किञ्चिदुद्दिश्यारोहणविधिरस्तीत्यत्राह-निमित्ततः-इति । मिथ्याभि-
शस्ततां निमित्तीकृत्य विधिरस्ति । न चाविहितस्य फलश्रुतिः सम्भवतीति निषेधलक्षणमधर्महेतु-
त्वं, न चात्राविशुद्धो नारोहेदिति निषेधः श्रूयते इत्यत्राह-पराजय इति । अप्रस्तुतोऽपि
प्रकाशः ।
चैतन्ये । सोऽहमिति । ननु यत्र पापविस्मरणान्निष्पापत्वप्रत्यभिज्ञानं, तत्र कुतो न जयः ।
न च सत्यं तादृशं प्रत्यभिज्ञानं जयहेतुः, तथापि भङ्गहेतुपापवत्त्वप्रत्यभिज्ञानाभावेन भङ्गानुप-
पत्तेः । न च स्वरूपसदेव पापवत्त्वं भङ्गहेतुः । तस्यैव प्रयोजकत्वे परीक्षाविधेरतत्त्वापत्तेः । मै-
वम् । पापत्तदभावयोः स्वरूपसत्त्वे सति, योऽहं पापवत्त्वादिना सन्दिह्यमानः सोऽहमनेन वि-
धिना तुलामारूढ इति तस्य प्रत्यभिज्ञानस्य तन्त्रत्वात् । तच्च न परीक्षाविधिं विनेति तस्यापि
तत्त्वात् । यत्र तु सभाशोभादिना तादृशप्रत्यभिज्ञानाभावस्तत्र गत्यन्तरमाह । अथवेति ।
तेन=परीक्षाविधिना । ननु तादृशविधित्वाक्याभावात् परीक्षाविधेर्धर्मजनकत्वे मानाभाव इत्यत
आह । निमित्तत इति । साक्षात्तादृशविधित्वाक्याभावेऽप्यभिशापनिमित्तकत्वात् परीक्षाविधेरि-
तरनैमित्तिकवदभिशस्तः सत्यप्रत्यभिज्ञो जयकामस्तुलामारोहेदिति विधिकल्पनमित्यर्थः । विज-
येति । कालान्तरभाविजयसाधनताऽनुपपत्तेरपूर्वकल्पनाच्चेत्यर्थः । पराजयेति । भङ्गलक्षणानिष्ट-
प्रकाशिका ।
पापत्तदभावयोरिति । सत्यन्तमात्रस्य प्रयोजकत्वे परीक्षायैय्यर्थ्यमित्युत्तरदलम्, तच्च
न परीक्षाविधिं विनेति परीक्षाविधेः कथमित् स्वज्ञानद्वारा प्रत्यभिज्ञानप्रयोजकत्वमिति मन्तव्यम् ।
निमित्तत इतीति । निमित्ते सति विधानादिति मूलार्थः । भङ्गेति । कालान्तरभाविभङ्गेत्यर्थः ।
मकरन्दः ।
पापत्तदभावयोरिति । सत्यन्तमात्रस्य तन्त्रत्वे परीक्षायैय्यर्थमेवेति विशिष्टस्य तथात्व-
मुक्तमिति भावः । भङ्गेति । कालान्तरभाविभङ्गलक्षणफलश्रुतेरित्यर्थः । यद्यप्यकरणे प्रत्यवाया-
Here is the line-by-line transcription of the Sanskrit text provided in the image:
१५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
अथ शक्तिनिषेधे किं प्रमाणम् ? । न किञ्चित् । तत् किमस्त्येव ? बाढम् । न
हि नो दर्शने शक्तिपदार्थ एव नास्ति । कोऽसौ तर्हि ? कारणत्वम् । किं तत् ?
पूर्वकालनियतजातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति । ततोऽधिक-
बोधनी ।
निषेधः कल्प्यते, अविशुद्धं प्रत्यारोहणस्यानिष्टहेतुत्वान्निषिद्धस्यैव च तथात्वादिति ।
तदेवम्भूतसमवायिनी शक्तिः सहजा आधेया वास्तीति न किञ्चित्प्रमाणमस्तीत्युक्तम् । इतरस्तु
वादजल्पयोरन्यतरेण कथाप्रवृत्तिं कृत्वा तयोर्न स्वपक्षसाधनमन्तरेण परसाधनस्य दूषणमात्रेण पर्य-
वसानमिति मन्वानः पृच्छति-अथ इति । गूढाभिसन्धिः प्रतिब्रूते-न किञ्चित् इति । अज्ञात-
पराभिसन्धिः पुनः । पृच्छति-तत् किमस्त्येव - इति । निषेधकाभावे त्वस्तित्वमेवावशिष्यत
इति । गूढाभिसन्धिरेव सम्प्रतिपत्तिमूत्तरमाह-बाढम् इति । यद्येवमपसिद्धान्तप्रसङ्ग इत्यत्र स्वा-
भिसन्धिमुद्घाटयितुमाह-न हि-इति । अस्मत्सिद्धान्तानभिज्ञो भवानिति भावः । पुनरप्यनभिज्ञः
पृच्छति-कोऽसौ-इति । आशयमाविष्करोति-कारणत्वम्-इति । शक्तिमत्तैव कारणत्वमिति
मन्वानः पृच्छति-किं तत्-इति । ज्ञातपराभिसन्धिराह-पूर्वकाल-इति । पूर्वकालनियत
त्वमित्येव वक्तव्ये नियतजातीयत्वाभिधाने जात्यपेक्षयैव नियम इति स्मारयितुमिति । अन्यथा
कारणत्वं निरूपयति-सहकारि-इति । यस्य सहकारिवैकल्यप्रयुक्तः कार्यप्रागभावो न तु स्वरूप-
प्रकाशः ।
फलसाधनत्वेन निषेधविधेरेन्मयनाङ्गफलश्रुतेश्चाधर्मजनकत्वं कल्प्यत इत्यर्थः । यद्यपि तुलारो-
हणादेरधर्मजनकत्वे मानाभावः । पूर्वाधर्मादेवावनमनोपपत्तेः । तथापि परीक्षाविधिं विनाऽवनमने-
ऽपि भङ्गाभावानियमेन तस्याधर्महेतुत्वम् ।
जल्पकथामारित्य पृच्छति-
अथेति । उत्तरं नेति । शक्तिपदार्थमेव न निषेधाम इत्यर्थः । तर्हि स्वीकार एव शक्तेः स्या
दित्यभिप्रेत्याह । कोऽसाविति । पूर्वकालेति । ननु पूर्वत्वं प्रागभावावच्छिन्नकालत्वम् ,
प्रकाशिका ।
यद्यपि नैमित्तिकत्वे तदकरणे प्रत्यवायापत्तिः । तथापि निमित्ते सति कर्तव्यत्वमित्येवात्र नैमित्तिकत्वम् ।
तन्मात्रकरणेऽपि न प्रत्यवायो जातेष्ट्याद्यकरणे प्रत्यवायाभावात् देवतासन्निधान एव तात्पर्य्य-
मत एव मूलमित्यस्माकं सिद्धान्त इति कश्चित् । अधर्म्मजनकत्वे मानाभाव इति । जयपक्षे
भवतु धर्मजनकता अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेनोन्मन्नकारणस्य तस्य स्वीकरणीय-
त्वादिति भावः । तथापीति । परीक्षाविधिजन्याधर्मेणावनमनस्यैव भङ्गहेतुत्वमिति परीक्षाया
आशु बिनाशिन्याः कारणतानिर्वाहाय व्यापारत्वेनाधर्म्मः कल्पनीय इति भावः । वस्तुतोऽ-
गम्यागमनजन्याधर्म्मस्यावनमनहेतुत्वे मानाभावो नरकफलत्वेन तस्य श्रुतेरिति ध्येयम् ।
जल्पेति । तत्रैवोभयसाधनोपन्यासनियमादिति भावः । नाशस्येति । प्रागभाव-
मकरन्दः ।
श्रुतेः परीक्षाविधेरभिशापनिमित्तकत्वाभावान्न विधिकल्पनं, न वा भङ्गलक्षणाऽनिष्टसाधनत्वेन नि-
षेधविध्युन्नयनम् । व्यभिचारादप्रयोजकत्वाच्च । तथापि देवतासन्निधिपक्षे तात्पर्य्यम् । अत एवो-
क्तं मूले, इत्यस्माकं सिद्धान्त इति । अधर्मजनकत्वे मानाभाव इति । विजयपक्षे धर्मज-
ननं भवतु । अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेन प्राक्तनधर्माभावादिति भावः । तथापीति ।
टिप्पणी ।
जल्पकथामारित्येति । उक्तरीत्या शक्तिनिराये शक्तिसाधकस्य मीमांसकस्य तदेतो
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५१
निषेधे का वार्त्ता ? । न का चित् । तत् किं विधिरेव ? सोऽपि नास्ति प्रमाणा-
भावात् । सन्देहस्तर्हि ? । कथमेवं भविष्यति, अनुपलब्धचरत्वात् । विवाद-
स्तर्हि ? कुत्र ? । अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात् । सह-
कारिभेदे तत्रापि दहनादेरनुग्राहकोऽधिकोऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति
बोधनी ।
प्रयुक्तः, यः सहकारिषु सत्सु करोत्येवेत्यर्थः । न त्वभावादकारणत्वमिति । तर्हि कारणत्वा-
तिरिक्तमदभिमतातीन्द्रियशक्तिनिषेधः किंप्रमाण इत्याह-तत इति । एकत्र हि सिद्धस्यान्यत्र
निषेधः न त्वत्यन्तानुपलब्धस्येत्याशयेनाह-न काचित्-इति । अविदितपराशयः पृच्छति-
तत् किम्-इति । विधिः=अस्तित्वम् । यदि निषेधो नास्ति तर्हि विधिरेव स्यात् भावाभावयोरितरे-
तराभावात्मकत्वादिति । न हि निषेधवद् विधिरपि निष्प्रमाणः सिध्यतीत्युत्तरमाह-सोऽपि-इति ।
निषेधे प्रमाणं नास्तीत्युक्तं न तु निषेधो नास्तीति भावः । तर्हि साधकबाधकयोरभावान्नच्छक्तेरस्तित्व
नास्तित्वयोः सन्देह एव स्यात्, एवमपि भवदभिमतं न सिध्येदित्यभिप्रायवानाह-तर्हि-इति ।
उत्तरं कथमेवम्-इति । न तावानेव सन्देहहेतुरपि तर्हि धर्म्युपलब्धिरपि, ततश्चानुपलब्धे
शक्तिरूपे धर्मिणि कथं सन्देह इति । यदि शक्तेर्बुद्धावनारोह एव तर्हि तत्सत्त्वासत्त्वविषयो विवादः
कथमावयोर्भवेत् तस्यापि सामान्यतो ज्ञाते धर्मिणि विशेषविषयत्वादित्याह-विवादः-इति ।
सुहृद्भावेनोत्तरमाह-अनुग्राहकत्व इति । अत्रोभयसिद्धसहकारिपदार्थमधिकृत्य तद्विशेषवि
प्रकाशः ।
प्रागभावश्च न प्रतियोगिजनकोऽभावः । अन्योन्याश्रयात् । नापि विनाश्यभावः । नाशस्य प्राग-
भावनिरूप्यत्वात् । उत्पत्तिमानभावो ध्वंस इति चेत् । काऽसावुत्पत्तिः । आद्यसमयसम्बन्धः
सेति चेत् । किमाद्यत्वम् । स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसमयसम्बन्ध
प्रकाशिका ।
प्रतियोग्यभावत्वस्यैव नाश लक्षणत्वादित्यर्थः । तथा चान्योन्याश्रय इति भावः । किमाद्य-
त्वमिति । क आद्यसमयसम्बन्ध इत्यर्थः, तेन नोत्तरविरोधः । श्वेति । प्रतिक्षणं कस्य
मकरन्दः ।
तथा च परीक्षाविधिजन्यावगमनस्यैव भङ्गहेतुत्वम् । तस्य चाशुविनाशित्वेनाध ॑व्यापारकत्वमिति
भावः । अगम्यागमनादिजन्याधर्माणामपि नरकफलश्रवणात् पराजयहेतुत्वे मानाभावाच्चे-
त्यपि द्रष्टव्यम् ।
नाशस्येति । प्रागभावप्रतियोग्यभावस्यैव नाशत्वादित्यर्थः । किमाद्यत्वमिति । किमा-
द्यसमयसम्बन्धत्वमित्यर्थः । तेन नोत्तरविरोधः । स्वेति । तथा च तादृशध्वंसानाधारत्वमात्रर्थ,
टिप्पणी ।
पृच्छा विजिगीषुकथारूपे जल्प उभयसाधनोपन्यासनियमादिति । प्रागभावनिरूप्यत्वादिति ।
प्रागभावप्रतियोग्यभावरूपत्वात् तथा चान्योन्याश्रय इति भावः । किमाद्यत्वमिति । क आ-
द्यसमयसम्बन्ध इत्यर्थः । तेन सम्बन्धपर्यन्तविवक्षणे न दोषः । स्वसमानकालीनपदार्थेति ।
स्थितिक्षणस्यापि स्वप्रतियोगिकध्वंसानाधारत्वात् तदानीमुत्पन्नत्ववारणाय स्वसमानकालीनेति । अत्र
समानत्वमविवक्षितम्, वैयर्थ्यादुक्तदोषाच्च । इदन्तु प्रतिक्षणं कस्य चिदुत्पादः कस्य चिद् विनाश
इति मतानुसारेणैव, अन्यथा कल्पान्तरस्थितिक्षणस्य ? ध्वंसानाधारत्वे तदुपादानेऽपि तद्दोषतादवस्थ्यं
सन्देहस्तर्हि साधकबाधकमानाभावे तस्य तत्कारणत्वात् । कथमेवं भविष्यतीति । को
ट्युपस्थितेरभावात् । मनुंपलब्धचरत्वादिति संदेह इति शेषः ।
१५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायो
प्रकाशः ।
इति चेन्न । परस्पराश्रयात् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकसामयिकया-
वत्परत्वाश्रयसमानकालीनकादाचित्काभावः । प्रलयकालीनपरमाणुक्रियाप्राग्भावाव्याप्तेः । न
च तदाऽपि ब्रह्माण्डान्तरवर्तिद्रव्येणापरत्वाश्रयेण परत्वनिरूपणम् । तस्य विशिष्टाज्ञानात् ।
प्रकाशिका ।
चिदुत्पत्तिः कस्यचिद् विनाश इति मतानुसारेणेदम् । न च महाप्रलयोत्पत्तावव्याप्तिः,
तत्र समानकालपदार्थध्वंसाप्रसिद्धेरिति वाच्यम् । स्ववृत्तिध्वंसप्रतियोगियावत्समानकाल
पदार्थसमयसम्बन्धस्य तदुत्पत्तित्वात् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणप्रा-
गभावाव्याप्तिरपरत्वाश्रयस्यैव परत्वावधित्वादित्यन्यूनतिरिक्तकालीनपदम् । एवं च तादृशं द्रव्य-
मादायैव गुणप्राग्भावेऽपि लक्षणं नेयम् । तदन्यूनतिरिक्तकालत्वं च तद्व्यापककालकत्वमतोऽन्त्य-
शब्दस्यैव क्षणिकतया तदन्यूनारिक्तकालीनद्रव्याप्रसिद्धेः, तत्प्राग्भावाव्याप्तिरपास्ता, प्रतिक्षणं
कस्य चिद् द्रव्यस्य उत्पत्तिः कस्य चिद् विनाश इति मतेनेदम् । प्रतियोगिकालीनेत्येतावति कृते प्राग्-
भावस्य प्रतियोग्युत्पत्त्यनन्तरोत्पत्तिकावधिकपरत्वाश्रयप्रतियोग्यसमानकालत्वाद्यावदर्थाभावादव्या-
प्तिरिति व्यापकत्वपर्यन्तम् । अत्र केचित् प्रतियोगिकालीनत्वमेव सम्यक् । न चोक्तदोषः, प्रतियोगि-
कालीनयत्किञ्चित्पदार्थावधिकयावत्परत्वाश्रयगर्भमेव हि तल्लक्षणम् न तु प्रतियोगिकालीनेऽपि यावत्त्वं
विशेषणम् तथा च तत्प्रतियोग्युत्पत्तिकालीनद्रव्यमादायैव सर्वत्र लक्षणमित्याशयादिति । ते भ्रान्ताः,
मकरन्दः ।
तत्समयसम्बन्ध उत्पत्तिरिति भावः । प्रतिक्षणं कस्य चिदुत्पत्तिः कस्य चिन्नाश इति मतानुसारेणे-
दम् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणादिप्राग्भावाव्याप्तिः । तदवधिकपर-
त्वाभावात् । अपरत्वाश्रयस्यैव तथात्वादित्यत उक्तमन्यूननातिरिक्तति । तथा च तादृशं द्रव्य-
मादाय तत्र लक्षणगमनमिति नोक्तदोषः । प्रतियोगिकालीनेत्येतावति कृते घटध्वंसाव्यवहितपूर्व-
क्षणोत्पन्नं प्रतियोगिकालीनं द्रव्यान्तरमादाय तद्घटध्वंसेऽतिव्याप्तिः । तस्य तदवधिकयावत्पर-
त्वाश्रयसमानकालीनत्वात्, परत्वापरत्वयोः परस्पराश्रयावधिकत्वस्वीकारेण तत्कालविद्यमानस्यैव
टिप्पणी ।
स्यादिति ध्येयम् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकेति । अत्र प्रतियोग्यव-
धिकेति कृते गुणादिप्राग्भावेऽव्याप्तिः, अपरत्वाश्रयस्यैव परत्वनिरूपकत्वात्, प्रतियोगिकालीनेत्यु-
क्तावपि न सामञ्जस्यम् प्रतियोग्यनन्तरोत्पन्नावधिकपरत्वाश्रयप्रतियोग्यसमानकालीनत्वात् प्राग्भाव-
स्येत्यव्याप्तेः। नापि प्रतियोगिकालीनयत्किञ्चिदवधिकत्वोक्तावपि । प्रतियोगिक्षणोत्पन्नपदार्थमादाय
लक्षणसम्भवेऽपि प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नावधिकपरत्वस्य नाशकालोत्पत्तिकतया तदानीं
तदाश्रयस्यावश्यम्भावनियमेन तत्त्कालीनत्वाद् ध्वंसस्यातिव्याप्तिः। नापि प्रतियोगिकालीनयाव-
दवधिकपरत्वाश्रयकालीनत्वम् । यत्किञ्चित्प्रतियोगिकालीनं वस्तु प्रतियोग्याद्याश्रयकमेव परत्वमु-
त्पाद्य नष्टं तमादायाव्याप्तेः । सामयिकव्यापकत्वार्थकं प्रतियोग्यन्यूनतिरिक्तकालीनत्वानुधाव-
नम् । व्यापकत्वव्यापकव्याप्यत्वयोर्विवक्षणे प्रयोजनाभावः । क्षणिकान्यशब्दप्राग्भावेऽव्याप्तिश्च,
प्रतियोगिनस्तथाविधद्रव्याभावात् यावत्त्वाविवक्षायां ध्वंसपर्यन्तस्थायिप्रतियोगिज्येष्ठपदार्थमादाय
ध्वंसेऽतिव्यप्तिः। अत्र सर्गीयकालीनपदार्थप्रतियोगिकप्राग्भावाव्याप्तिः, तद्व्यापकं हि द्रव्यं नित्य-
मनित्यं वा तत्कालोत्पत्तिकं तस्य परत्वनिरूपकत्वाभावादिति चेत् । तस्य प्रन्योक्तदोषतुल्य-
त्वात्तत्रापि ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सम्भवात्, तदस्वीकारे दोषः, अत्र
वदन्ति । नानासर्गस्थायिन्यदृष्टप्राग्भावेऽव्याप्तिः, तादृशादृष्टव्यापकद्रव्याप्रसिद्धेः, एवं
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५३
बोधनी ।
षयो विवादः कथं तर्हि शक्तिविषय इत्यत्रोक्तं-अनुग्राहकत्वेन-इति । सहकारिविशेषो भवद-
भिमतया शक्त्या सहानुग्राहकत्वेन साम्यात् शक्तिपदास्पदं भवति । ततश्च सहकारिविशेषविषय
एव विवादः शक्तिविषय इत्युच्यते । नन्वसावपि सहकारिभेदः सम्प्रतिपन्नश्चेत् न विवादगोचरः,
असम्प्रतिपत्तौ सुतरां शक्तिवद् बुद्धावनारोहादतः पुनरपि विवादविषयाभाव इत्यत्राह—तत्रो-
पि-इति । दहनादेरधिकः प्रतिबन्धकापाकरणीयः कश्चिदनुग्राहकः सम्प्रतिपन्न इति न तस्य
प्रकाशिका ।
तथा सति प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नद्रव्यमादाय ध्वंसातिव्याप्तेः तदवधिकपरत्व-
स्य तद्ध्वंसानन्तरमुत्पत्तेः, दैशिकपरत्वाश्रयं प्रतियोग्यनन्तरोत्पत्तिकं द्रव्यमादाय या-
वदर्थाभावादव्याप्तिरिति सामयिकेति । इदन्तु विजातीयपरत्वपरं यत्किञ्चित्प्रतियोगि-
ज्येष्ठसमानकालीनत्वं ध्वंसस्यापीति यावदिति । यावत्त्वञ्चाश्रयविशेषणम् । अन्यथा यावत्परत्वा-
श्रयस्यैकस्याप्रसिद्धेः, विशेषणावच्छेदादेव च विशिष्टस्य सावधिकत्वान्वयः । प्रत्येकं यावत्पर-
त्वनिरूपिताश्रयप्रसिद्ध्या यावत्त्वं परत्वविशेषणमेवेत्येके । यावत्परत्वेत्येतावति च कृते प्रतियोगि-
मकरन्दः ।
तदवधिकपरत्वाश्रयत्वादिति विशिष्टमुपात्तम् । तदर्थश्च कालिकव्याप्त्या प्रतियोगिव्यापकत्वम् ।
तच्च द्रव्यान्तरं, न तद्धटव्यापकमिति नोक्तदोषः । एतेनान्यूनपदेनैव तद्दोषनिरासेऽनतिरिक्त-
पदं तथापि व्यर्थमेव । कारणाद्यत्वेनानन्यशब्दस्य क्षणिकतया तत्प्रागभावाव्याप्तिः । तदन्यू-
नानतिरिक्तकालीनद्रव्याप्रसिद्धेरित्यादि दूषणमपास्तम् । प्रतियोगिव्यापकञ्च किञ्चिदेव विवक्षितं,
न तु यावत् । तेन तादृशव्योमाद्यवधिकपरत्वाप्रसिद्ध्या नासम्भव इति ध्येयम् । प्रतियोगिव्या-
पकावधिकदैशिकपरापरत्वाश्रयः प्रतियोग्यपि कदाचिद्भवतीति तत्प्रागभावस्य तत्समानकालीन-
त्वाभावादव्याप्तिरित्यत उक्तं, सामयिकेति । समयपिण्डसंयोगसमवायिकारणकेत्यर्थः । प्रतियो-
गिव्यापकावधिकपरत्वाश्रयेण येन केन चित् पर्वतादिना समानकालत्वाद् घटध्वंसेऽतिव्याप्तिरित्यत
उक्तं, यावदिति । प्रतियोगिन्युत्पन्ने ज्येष्ठे यत्परत्वमुत्पद्यते तत्समानकालीनत्वाभावात् तत्प्रा-
टिप्पणी ।
ध्वंसप्रागभावेऽव्याप्तिः, ध्वंसव्यापकद्रव्याप्रसिद्धेः । न च तस्यालक्ष्यत्वम् । ध्वंसकारण-
त्वस्य प्रतियोगिनो निर्वाहाय लक्ष्यत्वात् । अत्र ब्रूमः । प्रतियोगिकालीनपदार्थाव-
धिकपरत्वाश्रयकालीनकादाचित्कोऽभावः प्रागभावः, उक्तध्वंसातिव्याप्तिश्च परत्वाश्रयं प्रति-
योगिकालावृत्तित्वेन विशिष्य वारणीया । ध्वंसस्य च प्रतियोगिकालमात्रवृत्तिपरत्वाश्रयसमान-
कालीनत्वात् । एवमदृष्टप्रागभावे ध्वंसप्रागभावे च नाव्याप्तिः । तत्कालीनयत्किञ्चित्पदार्थावधि-
कपरत्वाश्रयसमानकालीनत्वसत्त्वात् , एतादृशार्थलाभश्चैतादृशार्थतात्पर्यग्राहकसकलपदसमभि-
व्याहारात् । अत्र कादाचित्कत्वानुपदानेऽत्यन्तान्योन्याभावातिव्याप्तिः । अभावपदानुपादाने-
भावेऽतिव्याप्तिः । न च चरमध्वंसप्रागभावेऽव्याप्तिः, चरमध्वंसकालीनद्रव्याप्रसिद्धेः, विभाज-
कोपाधिपक्षेऽप्यस्यालक्ष्यत्वात् । तस्य कर्म्मस्वरूपतयैवोपपत्तेः, कारणनिर्वचने तु सुतरां तथे-
त्यलमधिकं पल्लवितेनेति । यावत्परत्वाश्रयसमानकालीनेति । इदञ्च परत्वं कालि-
कम् अन्यथा दैशिकपरत्वाश्रयप्रतियोग्यनन्तरोत्पन्नपदार्थसमानकालीनत्वाभावेन यावदर्थाभावा-
दव्याप्तिः स्यादिति । प्रवृत्त्युपयोगिकारणत्वस्यैव लक्ष्यत्वात् यावत्परत्वसमानकालीनत्वोक्तौ
पूर्वोत्पन्नत्वज्ञानस्य परत्वकारणतया तेन प्रतियोग्यन्तरोत्पन्नपरत्वसमानकालीनत्वाभावादव्याप्तिः
स्यादत आश्रयपर्यन्तानुधावनम् । प्रलयकालीनपरमाणुक्रियेति । प्राच्यादृष्टसहकृतानां
परमाणूनां सर्गान्तरोत्पत्त्यर्थं प्रलयकालेऽपि क्रियाङ्गीकारादिति भावः ।
२० न्या० कु०
१५४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां
प्रकाशिका ।
गिज्येष्ठावधिकप्रतियोग्यनन्तरोत्पत्तिकपरत्वासमानकालीनत्वात् प्रागभावस्याव्याप्तिरित्याश्रयेति ।
अत्यन्ताभावान्योऽन्याभावयोरतिव्याप्तिरिति कादाचित्कपदम् । अभावपदं च संपातायातम् कादा-
चित्कभावस्य पूर्वविशेषणनिरस्ततया व्यावर्तनीयाभावात् । न च महाप्रलयाव्यवहितप्राक्कालिकक-
र्मप्रागभावाव्याप्तिः तद्व्यापककालावधिकपरत्वाप्रसिद्धेरिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्य
लक्षणत्वात् । ननु सर्गाद्यकालीनघटप्रागभावाव्याप्तिः, तत्कालव्यापकं हि द्रव्यं नित्यं वा स्यात् तत्
कालोत्पन्नमेव वा, न च नित्यावधिकं परत्वं क्वचित् , न वा तत्कालोत्पन्नावधिकम् । आश्रयाभावात् ।
नित्यस्य परत्वानधिकरणत्वात्, अनित्यस्य तु ज्येष्ठस्याभावादिति चेत् । न । प्रलयकालीनपरमाणु-
क्रियाप्रागभावतुल्यतया ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सत्त्वात्। तदनभ्युपगमे ग्रन्थकृदु-
क्ताव्याप्तितुल्यतयैव तदव्याप्तेरपि दोषत्वेनेष्टत्वमेव । अत एव खण्डप्रलयाव्यवहितपूर्वक्षणोत्पन्न-
क्रियाप्रागभावाव्याप्तिरपि न दोषः । प्रलयकालीनपरमाणुक्रियाप्रागभावतुल्यत्वादिति सम्प्रदायः ।
अत्र वदन्ति । नानासर्गस्थायिनोऽदृष्टस्य प्रागभावेऽव्याप्तिः, तत्र प्रतियोगिकालव्यापकस्यानित्यस्य
द्रव्यस्याभावाद् । नित्यस्य च परत्वावधित्वाभावात् । किं च भावरूपे प्रागभावेऽव्याप्तिः, न च तद-
लक्ष्यमेव, कारणताघटकस्य हि प्रागभावस्य लक्षणमिह प्रकृतं तथा च ध्वंसे प्रतियोग्यादेः कारणता-
निर्वाहाय भावरूपस्यापि तस्य लक्ष्यत्वात् । एतेन द्रव्यप्रागभावमात्रस्यैवेदं लक्षणं, तेन नोक्तादृ-
ष्टप्रागभावेऽव्याप्तिः । तस्यालक्ष्यत्वात् । यावद्द्रव्यप्रागभावसमानकालत्वं च प्रागभावसामान्यल-
क्षणम् , तदुपयोगितयैव च विशेषलक्षणमपि निरुक्तम् , उक्तसामान्यलक्षणं तूक्तादृष्टप्रागभावादाव-
विकलमेवेत्यपास्तम् । *ध्वंसप्रागभावात्मकभावान्याप्तेरिति । अत्र वयं ब्रूमः । प्रतियोगिसमानका-
लीनत्वमात्रमत्र लक्षणे प्रविष्टमित्यदृष्टप्रागभावे लक्षणमविकलम् । न च विनश्यत्क्षणोत्पन्नद्रव्यमा-
मकरन्दः ।
गभावान्याप्तिरित्यत उक्तमाश्रयेति । न च यावत्परत्वानामाश्रयाप्रसिद्ध्याऽसम्भव इति वाच्यम् ।
प्रत्येकिनिरूपिताश्रयस्यैव विवक्षितत्वात् । केचित्तु यावत्त्वमाश्रयविशेषणमेव । विशेषणस्य साव-
धिकत्वेन विशिष्टे तदवधिकत्वान्वय इत्याहुः । अत्यन्तान्योन्याभावयोरप्यनादितया तथा-
त्वादतिव्याप्तेराह कादाचित्केति । कादाचित्कभावस्यानादित्वानभ्युपगमेन व्यावत्त्याभावाद्-
भावपदं स्वरूपाख्यानपरमित्याहुः । न च महाप्रलयपूर्वक्षणभाविकर्मादिप्रागभावाव्याप्तिः । तदा
ब्रह्माण्डान्तरस्याप्यभावादिति वाच्यम् । तदनभ्युपगन्तृमतेनैवास्योक्तत्वात् । अत एव लीला-
वतीप्रकाशे सिद्धान्तितमिदमेव लक्षणम् । ननु तथापि सर्गाद्यकालीनघटादिप्रागभावाव्याप्तिः । तत्र
हि प्रतियोगिव्यापकं सर्गाद्यकालीनमेव स्याद् नित्यं व्योमादि वा ? तदवधिकञ्च परत्वमप्रसि-
द्धम् । नित्यस्य तदवधिकत्वाभावात् । अपरावधिकपरत्वस्य चाश्रयाभावादनुत्पत्तेः । न हि नि-
त्यद्रव्यं तदाश्रयः । बहुतरतपनपरिस्पन्दान्तरितजन्मत्वाभावेन तत्र तदनभ्युपगमात् । नापि
कार्यद्रव्यम् । तज्ज्येष्ठस्य तदानीमभावात् । सर्गान्तरे तद्वत्त्वेऽपि तदानीमवधेरेवानुत्पन्नतया
तदवधिकपरत्वानुत्पत्तेः । यदवधिकं यत्रापरत्वं तदवधिकमेव तत्र परत्वमित्यभ्युपगमादिति चेत् ।
मैवम् । जन्मांशस्य गुरुत्वेन नित्यद्रव्येऽपि तदभ्युपगमादित्याहुः । अवधिर्न परत्वकारणं, किन्तु
तज्ज्ञानम् । तथा चानागतस्यैवावधेरीश्वरादीनां ज्ञाने सर्गान्तरद्रव्येषु तदुत्पाद इत्यप्याहुः । व-
स्तुतो ब्रह्माण्डान्तरद्रव्यमादाय अत्रापि समाधिसम्भवे प्रलयकालक्रियाप्रागभाववदत्राप्यव्याप्ति-
रभिप्रेतैवेति न दोषः । अत एव खण्डप्रलयपूर्वक्षणक्रियाप्रागभावान्याप्तिशङ्काऽपि न दोषायेति
मन्तव्यम् । वस्तुतस्तु प्रतियोगिव्यापकत्वविवक्षायामपि क्षणिकशब्दाऽऽदिध्वंसे पूर्वोक्तन्यायेना-
तिव्याप्तिरेवेति प्रतियोगिकालीनत्व एव तात्पर्यम् । परत्वाश्रयतयोरैक्यविवक्षया च नोक्ताति-
[प्रथमस्तबके] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५५
प्रकाशः ।
नियतत्वमपि व्यक्त्यपेक्षया, जात्यपेक्षया वा ? । नाद्यः । वह्निव्यक्तेः पूर्वं रासभस्यापि भावात् ।
अत एव नान्त्यः । न हि कापि वह्निजातीयपूर्वकाले न रासभसत्त्वम् । देशतोऽपि नियम इति
चेत् । सोऽपि संयोगी समवायी वा प्रत्यासन्नमात्रं वा ? आद्ये गुणादीनामकारणत्वप्रसङ्गः । द्वितीये
धूमं प्रति वहेरकारणत्वप्रसङ्गः । तयोरेकदेशसमवायित्वाभावात् । अन्त्ये व्योम्नः कार्यमात्रं प्रति
कारणत्वप्रसङ्गः । अन्यथासिद्धत्वेऽसतीति चेन्न । कारणेतरत्वेन तत्सिद्धेः कारणज्ञानापेक्षित्वात् ।
नापि कार्याभावव्यापकाभावसमूहै कदेशप्रतियोगित्वं कारणत्वम् । व्योमादेः कार्यमात्रे तत्त्वापत्तेः ।
प्रकाशिका ।
दाय तथा सति ध्वंसातिव्याप्तिरित्युक्तमेवेति वाच्यम् । प्रतियोगिकालावृत्तित्वस्याऽऽश्रयविशेषणत्वा-
त् । ध्वंसस्य च प्रतियोगिकालमात्रवृत्तितया तथाविधपरत्वाश्रयसमानकालत्वात् । यावत्पदसम-
भिव्याहारेणैव च प्रतियोगिकालावृत्तित्वलाभो ग्रन्थाधिक्यादिति न्यायादिति न यावत्पदव्यर्थ-
ताशङ्कापि । सामयिकपदं तु ध्वंसातिव्याप्तिवारणाय । प्रतियोगिनाशोत्तरानुवर्त्तमानप्रतियोगिसमा-
नकालीनावधिकदैशिकपरत्वाश्रयप्रतियोगिनाशोत्तरजातपदार्थसमानकालत्वात्तस्य । एवं च भावरूप-
प्रागभावाव्याप्तिरप्यपास्ता । तस्यापि ध्वंसरूपप्रतियोगिकालावृत्तिध्वंससमानकालतत्पूर्वोक्तन्नपदार्थ-
र्थावधिकपरत्वाश्रयसमानकालत्वात् । अभावपदं तु विरोधिमात्रपरं तत्तत्प्रागभावलाभाय । यदा
च विभाजकोपाधिनिर्वचनं तदा भावातिव्याप्तिवारणायाभावपदम् । एवं च महाप्रलयाव्यवहितक-
र्म्मप्रागभावाव्याप्तिरपि निरस्ता । तत्रापि कर्म्मसमानकालीनानित्यद्रव्यावधिकपरत्वाश्रयकर्म्मपूर्वनि-
ष्ठपदार्थसमानकालतासत्त्वात् । यावदनित्यद्रव्यनाशानन्तरं परमाणुकर्मोत्पत्तौ च मानाभावात् ।
न च चरमध्वंसप्रागभावरूपे कर्म्मण्यव्याप्तिः, विभाजकोपाधिपक्षे तस्यालक्ष्यत्वात्, कारणतानिर्व-
चनेऽपि तदसंग्रहे क्षतेरभावात् । तत्कारणताया भिन्नत्वेऽपि प्रवर्त्तकज्ञानविषयकारणताया अनु-
गमात्, चरमध्वंसेऽर्थं तत्प्रतियोगिन्यप्रवृत्तेः । महाप्रलयानभ्युपगमनैवेदं लक्षणमित्युपयुक्तमेवेति
दिक् । कारणेतरत्वेनेति । कारणेतरत्वस्यैवान्यथाशब्दार्थत्वादिति भावः । व्योमादेरिति । तद-
मकरन्दः ।
व्याप्यादिदोषः । एतन्मतेनैवाभावपदस्य स्वरूपाख्यानपरत्वमुक्तम् । अन्यथा पर्वतादिकमादाय
व्यावर्त्त्यसम्भवादित्यवधेयम् । नन्वेवमपि ध्वंसप्रागभावात्मनि घटादावव्याप्तिः, तन्न लक्ष्यमिति
चेद्, भ्रान्तोऽसि । न हि प्रागभावलक्षणमिह प्रकृतं, किन्तु कारणत्वलक्षणम् । तच्च सामान्यत एव
लक्ष्यं, मूलस्वरसात् । तथा च ध्वंसप्रागभावस्यालक्ष्यत्वे ध्वंसकारणसाधारणं लक्षणं न स्यात् ।
किञ्चैवमनुगतं कारणत्वमपि न स्यादिति तदनुगमात् प्रवृत्त्यननुगम इति चिन्त्यम् ।
अन्यथेत्यस्यार्थमाह । कारणेतरत्वेनेति । व्योमादेरिति । तदभावस्य केवलान्वयित्वा-
टिप्पणी ।
व्यापकाभावसमूहेति । कार्याभावव्यापकतावच्छेदकसमुदायत्वाश्रयैकदेश इत्यर्थः ।
अवच्छेदकत्वञ्च स्वरूपेण, न पर्याप्त्या, एवञ्च कारणाभावस्य कार्याभावव्यापकत्वेऽपि
प्रत्येकन्न क्षतिः । घटत्ववदिति । युगपत्सर्वब्रह्माण्डनाशपक्षे घटत्वस्य दृष्टान्तता । वस्तुत-
स्त्वैन्नत्वादिरथ दृष्टान्तः । तदाश्रयानधिकरणकालस्य प्रसिद्धत्वादिति । ननु गन्धानधिकरणकाल-
सिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं सिद्धम् । शब्दप्रत्यक्षयोरभावात् । अनुमान-
स्य च साध्यप्रसिद्धिमात्रेणासम्भवादिति चेन्न । प्रागभावत्वावच्छिन्नो गन्धानधिकरण-
कालावृत्तिः, गन्धप्रागभाववितिप्रतीतित्रिषयत्वाद् गन्धवदित्यनुमानात्तत्सिद्धिः । गन्धे साध्यप्रसि-
द्धिश्च प्रकाशोक्तानुमानादेव । तेन च काले गन्धानधिकरणत्वसिद्धौ गन्धेऽपि तुष्ट्यवितिवेद्यतया
१५६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
प्रकाश ।
नापि सामग्र्येकदेशत्वं कारणत्वं, कारणसमूहस्यैव सामग्रीत्वात् । उच्यते । गन्धानधिकरणका-
प्रकाशिका ।
भावस्य केवलान्वयित्वाभ्युपगमादिति भावः । गन्धानधिकरणेति। स्नेहप्रागभावेऽव्याप्तिरिति
कालपदम् । अभावपदं तु विरोधिपरं तत्प्रागभावलाभाय । तत्तत्कारणतायास्तत्तत्प्रागभावघटि-
तत्वात् । यत्तु भावातिव्याप्तिवारणायाभावपदं यथाश्रुतार्थमेवेति । तत्तूच्छम् । प्रकृते कारणता-
निर्वचनाय प्रागभावनिर्वचनमिति ध्वंसे प्रतियोगिनः कारणत्वनिष्पत्तये भावस्यापि लक्ष्यत्वात् यदा
तु विभाजकोपाधिनिर्वचनं तदा तद्व्याख्यानं समीचीनमिति । ननु गन्धानाधारसमयो नास्तीत्य-
वधारितवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तदज्ञाने च कथं प्रवृत्तिः, इष्टसाधन-
ताज्ञानसाध्यत्वात् प्रवृत्तेः, किञ्चैवं कारणताबोधकशब्दस्यैव महाप्रलये प्रमाणमिति तत्र विप्रति-
पत्तिरपि कथं मीमांसकादेरिति चेत् । न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्कार्यनिरूपिततत्तत्प्रा-
गभावत्वज्ञानात् तत्तत्कार्यनिरूपिततत्तत्प्रागभावव्यक्तिघटिततत्तत्कारणताज्ञानेन तत्तत्कार्या-
र्थिनः प्रवृत्तेः शब्देनापि प्रतियोग्यनुगतोकृततत्तत्प्रागभावघटितकारणताया एवाभिधानात् प्राग-
भावलक्षणानुगतमेवेदं स्वमते । वस्तुतः कारणत्वं स्वरूपसम्बन्धविशेषो विषयस्य ज्ञानेनैव
कार्येण कारणस्य प्रतीतिसिद्धेः तज्ज्ञानमेव च प्रवृत्त्यनुकूलम् इदन्तु नियामकमात्राभिधानम् । अत
एव गन्धानाधारत्वेनेव नीलानाधारत्वादिनारिप स कालो लक्षयितुं शक्य एवेति विनिगमकाभावादु-
भयगर्भप्रागभावत्वघटितकारणत्वज्ञानस्य प्रवर्त्तकत्वेऽननुगम इत्यपास्तम् । नियामकानेकत्वस्या-
मकरन्दः ।
दिति भावः । गन्धानधिकरणेति । निर्गन्धान्योन्याभावादावतिव्याप्तेराहे । कालेति । अ-
भावपदञ्च घटादिवारणायेत्याहुः । तन्न । कारणत्वसामान्यलक्षणार्थं तस्य लक्ष्यतौचित्यमित्युक्त-
त्वात् । तस्मात् तत्प्रतियोगिकाभावलाभार्थमभावपदम् । न हि प्रागभावसामान्यगर्भे कारणत्वं,
किन्तु तत्प्रतियोगिप्रागभावावच्छिन्नसमयवृत्तित्वं तत्कारणत्वम् । तथा च तादृशकालावृत्तिस्तद-
भावस्तत्प्रागभाव इति पर्यवस्यति । ननु गन्धानाधारसमयो नास्तीति निर्णयवतो मीमांसकस्येष्ट-
साधनतालिङ्गककार्यताज्ञानेन प्रवृत्तिदर्शनान्नैतत्प्रागभावगर्भं कारणत्वम् । किञ्च, कारणत्वबोधक-
शब्दादिरेवैवं महाप्रलयकाले प्रमाणं स्यात् । तस्य तद्घटितत्वात् । तथा च तदनभ्युपगमोऽपि
तस्य व्याहन्येतेति चेत् । मैवम् । विशेषतो बाधावतारेऽपि सामान्यतस्तस्य तद्ग्रहाभ्युपगमादि-
त्येके । वस्तुत इदं कारणत्वं न प्रवृत्त्यनुकूलम् । अनन्यथासिद्धिघटितत्वेन गुरुत्वात् । तथा च
स्वमतेन लक्ष्यतावच्छेदकतया निरुक्तं, वक्ष्यमाणं तदनुकूलं लाघवादिति । एतेन गन्धानाधारगर्भ-
वन्नीलाधारगर्भत्वादिनारिप तन्निर्वचनात्तद्गर्भं कारणत्वमपि भिद्येत । तथा च विनिगमकाभावादु-
भयगर्भैष्टसाधनताज्ञानप्रवर्त्तकतायां प्रवृत्त्यननंगम इत्यापास्तम् । अन्ये तु आकाशादिपदात् कदा-
टिप्पणी ।
तद्वृत्तित्वस्यापि सिद्धेः, पक्षतावच्छेदकप्रागभावत्वञ्च प्रतीतिविशेषविषयाभावत्वमेवेति न परम्प-
राश्रयः । प्रतीतेर्व्यावृत्तिश्च कालविशेषपुरुषविशेषादेवेति न प्रतीतिविषययोः परस्परव्यावर्त्तकत्वे
ऽन्योन्याश्रय इति दिक् । गन्धानधिकरणकालावृत्तिरभाव इति । ननु गन्धान
धिकरणसमयो नास्तीत्यवाधितज्ञानवतो मीमांसकस्य कथं प्रागभावघटितकारणताज्ञानं तद-
ज्ञाने च कथं वृत्तिः, कारणताबोधकशब्दस्यैव प्रलये मानत्वात्कथं महाप्रलये विप्रतिपत्तिरिति
चेन्न । अनुगतप्रागभावत्वाज्ञानेऽपि तत्तत्प्रागभावव्यक्तिघटितकारणताविशेषज्ञानादेव प्रवृत्तेः ।
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५७
प्रकाशः ।
लावृत्तिरभावः प्रागभावः । न च तत्र मानाभावः । गन्धत्वं स्वाधिकरणानधिकरणकालवृत्ति,
प्रकाशिका ।
दोषत्वात् । वस्तुतोऽननुगमोऽपि न, कालोपाधिविशेषघटितत्वात् प्रागभावस्य स च नीलानाधारत्वेन
वोपलक्ष्यतां गन्धानाधारत्वेन वेति न कश्चिद्विशेषः, उपलक्ष्यस्यैकत्वात् । केचित्तु प्रागभावगर्भं
कारणत्वं लक्ष्यतावच्छेदकं, लक्षणं तु सहकारिवैकल्येत्यादिवक्ष्यमाणमिति नाननुगमादिदोषाशङ्केत्या-
हुः । स्वाधिकरणेति । स्वाधिकरणत्वावच्छिन्नभिन्नवृत्तीत्यर्थः । गन्धवृत्तितया सिद्धसाधनवारणाय
कालपदम् । कार्यमात्रेति । आत्मत्वादौ व्यभिचार इति कार्येति । सत्तादौ व्यभिचार इति मात्रेति ।
ध्वंसत्वे व्यभिचार इति जातीति । तदर्थश्च समवेतत्वमात्रमितरदलप्रवेशस्य व्यर्थत्वात् कार्यत्वं च
क्षेमसाधारणकृतिसाध्यत्वमात्रमतः प्रागभावप्रतियोगित्वरूपं कार्यपदार्थमादायान्योन्याश्रय शङ्कापा-
मकरन्दः ।
विच्छब्दाश्रयत्वेन कदाचिदघटद्रव्यातिरिक्तद्रव्यत्वेनेतिवत् कदाचिन्नीलाधारत्वेनापि समयविशेषो-
पलक्षणान्न काऽपि क्षतिः । तत्समयविशेषावृत्त्यभावावच्छिन्नसमयत्वस्यैव हेतुत्वरूपतया च न
प्रवृत्त्यननुगम इति वदन्ति । स्वरूपसम्बन्धविशेषः कारणता प्रतियोगित्वादिवत् , तत्परिचायक
एवायं धर्मविशेष उक्त इत्याहुः ॥
स्वाधिकरणेति । स्वाधिकरणतावच्छिन्नेत्यर्थः । अत एव गन्धवृत्तित्वेन सिद्धसाधन-
वारणाय, कालेति । आत्मत्वादौ व्यभिचारवारणाय कार्येति । द्रव्यत्वादौ व्यभिचारवार-
णाय मात्रेति । ध्वंसत्वादौ व्यभिचारवारणाय जातीति । जातिपदार्थनिर्वचने यदि व्यर्थ-
त्वशङ्का तदा तावन्मात्र एव तात्पर्यम् । ननु कार्यत्वं प्रागभावप्रतियोगित्वमित्यन्योन्या-
श्रय इति चेन्न । प्रागभावसाधारणकृतिसाध्यत्वमात्रस्य तत्त्वेनाभिमतत्वादित्याहुः । खण्ड-
प्रलयवृत्तितया घटत्वस्य दृष्टान्तत्वम् । तदसिद्धावपि चैत्रत्वादैर्दृष्टान्तत्वं बोध्यम् । ननु सि-
द्ध्यतु गन्धानाधारसमयस्तथापि प्रागभावस्य तदनधिकरणत्वं कथं ग्राह्यम् ? न हि तत्र प्रत्य-
क्षमागमो वा सम्भवति । अनुमानञ्च सम्भवेत् तत्प्रसिद्ध्युत्तरम् । तथा चानुमानप्रवृत्तौ प्रागभाव-
त्वेन धीस्तस्याञ्चानुमानप्रवृत्तिरित्यन्योन्याश्रय इति चेन्न । तादृशसमयो नास्तीति निर्णयवतो मीमां-
सकस्य, भविष्यतीति बुद्धिनिर्भाकातिरिक्त रूपेण प्रागभावस्यावश्यं तद्बुद्धिविषयत्वात्तेन रूपेण तद्-
बुद्धिविषयत्वेन वोपस्थितस्य प्रागभावस्य लिङ्गाभासादिनापि तादृशसमयानाधारत्वमिति सम्भ-
वाद् गन्धस्यैव दृष्टत्वात् । यद्वा, कादाचित्काभावत्वेनैवोपस्थितस्य तदनुमानं ध्वंसांशे बाधादे-
वानुमानात् । तदनवतारे तदंशे भ्रमत्वेऽपि न क्षतिरिति ।
टिप्पणी ।
अनुगतप्रागभावत्वच्छेदं स्वमतेनैव । अन्यथा तु शब्देनापि प्रतियोग्यनुगतीकृत्य तत्तत्प्रागभा-
वघटितकारणताया एवाभिधानात् । अन्यथा विषयस्य ज्ञानेनैव कार्येण कारणस्य स्वरूपसम्बन्ध-
विशेषः कारणत्वं तज्ज्ञानेनैव प्रवृत्त्यादिनिर्वाहः । प्रागभावघटितकारणत्वं तु नियामकमात्रम् ।
अत एव च गन्धानाधारत्वेनेव नीलानाधारत्वादिनापि स काल उपलक्ष्यतां विनिगमकाभावादित्य
ननुगतकारणत्वज्ञानादप्रवृत्तिरित्यप्यपास्तम् । नियामकाननुगमस्यादोषत्वात् । यद्वाननुगमोऽपि न
कालोपाधिविशेषघटितत्वात् प्रागभावस्य स कालोनीलानाधारत्वेन वा गन्धानाधारत्वेन वोपलक्ष्यतां
तथापि नानुगमः । उपलक्ष्यस्यैक्यात् । अथवा प्रागभावघटितकारणत्वं लक्ष्यतावच्छेदकम् ,
१५= व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
प्रकाशः।
कार्यमात्रवृत्तिजातित्वात्, घटत्ववत्। स एव सर्वमुक्तिकालः। अन्यथासिद्धिश्च पञ्चधा। येन सहैवः
प्रकाशिका।
स्ता। घटत्ववदिति। युगपत् सर्वेश्च ब्रह्माण्डप्रलयपक्ष घटत्वं दृष्टान्तः। अन्यथा तु चैत्रत्वादिकं
दृष्टान्त इति ध्येयम्। ननु गन्धानधिकरणकालसिद्धावपि तद्वृत्तित्वं प्रागभावस्य कथं ग्राह्यं प्रत्य-
क्षशब्दयोरभावात्, अनुमानस्य च साध्यप्रसिद्धिमन्तरेणाप्रवृत्तेरिति चेत् न, प्रागभावत्वावच्छिन्नो
गन्धानधिकरणकालावृत्तिः गन्धप्रागभावादिति प्रतीतिविशेष्यत्वात् गन्धवदित्यनुमानेन तद्प्र-
हात् प्रतीतिविशेषविषयाभावत्वमेव च प्रागभावत्वमतो नान्योन्याश्रयावकाशः, पक्षनिर्वचने-
तैत्पुरुषीय तत्कालीनलवमेव च प्रतीतेर्व्यावर्त्तकमिति न विषयप्रतीत्योंः परस्परव्यावर्त्तकत्वेनान्यो-
न्याश्रयः, प्रतीतिश्चेत् प्रागभावीयेदानीं स्मृतेत्यनादितैव इयञ्च कल्पना भविष्यतीति मीमांसको-
दिसाधारणप्रतीत्यनुरोधेन गन्धे च साध्यं प्रकाशोक्तानुमानसिद्धमेव गन्धे तत्तत्कालावृत्तित्वस्य
तत्तत्काले गन्धानधिकरणत्वग्राहकेन तेन समानसंवित्संवेद्यतया विषयीकरणात् विपक्षबाधकं च
प्रागभावस्य विनाशत्वनियम एवाविनाशे च प्रागभावत्वव्याघात इति। ननु गन्धानधिकरणकालेऽपि
कर्मप्रागभावावृत्तिसन्देहेनाव्याप्तिसन्देहादलक्षणमिदमत आह स एवेति। तथा च कोऽपि
प्रागभावो न तदेति नान्याप्तिरिति भावः। ननुयुगपन्नाशे मानाभावः, यावद्गन्धनाशो हि यावद्-
दृष्टनाशात् कालविशेषद्वारा वाच्यः, स च सर्वनाशे साधारण एवेत्याशयात् पूर्वोक्तदोषभयेन
योगार्थमपहाय रूढ्या अन्यथासिद्धपदार्थमाह। अन्यथासिद्धिश्चेति। एतन्निर्वचनञ्च निरुक्त-
कारणतालक्षणानुसारेण, स्वरूपसम्बन्धात्मककारणताभ्युपगमे तु नैतदुपयोग इति मन्तव्यम्।
येन सहैवेति। येन पृथगन्वयादिमताऽवच्छेदकीभूतेन सह यस्यापृथगन्वयादिमतः पूर्ववर्त्तित्वं
गृह्यते तेन तदन्यथासिद्धमित्यर्थः। पृथगित्यादिविशेषणेन दण्डत्वेन न दण्डस्यान्यथासिद्धिः, अपृथ-
गित्यादिविशेषणेन न दण्डेन दण्डसंयोगोऽन्यथासिद्धः। घटं प्रति अवच्छेदकीभूतेनेति विशेषणा-
द्दण्डत्वस्याप्यनेनैव संग्रहे तत्संग्राहकान्यथासिद्धयन्तरवैय्यर्थ्यमिति दूषणमपास्तम्। अत्र ह्यवच्छे-
मकरन्दः।
स एवेति। नन्वत्र मानाभावः, युगपन्नाशे मानाभावात्। तथा च यावद्गन्धनाशानन्तर-
मपि वस्त्वन्तरसत्त्वसम्भावनया तत्प्रागभावस्य गन्धानाधारत्वसंशयेन तत्कारणेऽपि तद्गर्भका-
रणत्वलक्षणाऽव्याप्तिसन्देहः। एवञ्च व्यर्थविशेषणतासन्देहात्तद्धारणाय विशेषणमप्यदेयमिति।
अत्राहुः। यावद्गन्धनाशो ह्यदृष्टभावात्। अन्यथा संयोगविभागयोरन्योन्यनाश्यतयाऽन्यतराव-
स्थितौ सर्वमुक्त्यनुपपत्तेः। तथा च सर्वाद्दष्टाभावाद् यावत्कार्याभावो वाच्य इति युगपदेव सर्वना-
श इति। कारणेतरत्वेनेत्यादिदोषभिया योगार्थमपहाय रूढमन्यथासिद्धिपदार्थमाह। अन्यथा-
सिद्धिश्चेति।
येन सहैवेति। ननु शब्दादिना दण्डपूर्ववर्त्तित्वज्ञानं विनापि तद्रूपपूर्ववर्त्तित्वग्रहसम्भवा-
न्नियमोऽसिद्धः। न च प्रत्यक्षेणेति विशेषणीयम्। अतीन्द्रियान्यथासिद्धयव्याप्तेः। नियमाविवक्षा-
यां दण्डरूपेणैव दण्डस्यान्यथासिद्ध्यापत्तेरिति चेन्न। रूपत्वमात्रस्यातिप्रसक्ततया दण्डरूपत्वेनैव
पूर्ववर्त्तित्वग्रहो वाच्यः। तथा च साहित्यनियमात्। न चैवं द्रव्यत्वादेरतिप्रसकतया दण्डत्वेनैव
टिप्पणो।
लक्षणन्तु सहकारिवैकल्येत्यादि वक्ष्यतीति न किमप्यनुपपन्नमिति ध्येयम्। येन सहैवेति।
येन पृथगन्वयादिमता अवच्छेदकीभूतेन यस्यापृथगन्वयादिमत इत्यर्थः। यथाश्रुते दण्डत्वेन
दण्डोऽन्यथासिद्धः स्यात्। पृथगिति विशेषात् परमाण्वादीनीलघटादिनीलयोर्नीलत्वस्यैक्याद्
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५४
प्रकाशिका ।
दकेनावच्छेदकमन्यथासिद्धमित्यर्थोऽग्रे तु विपरीतमिति भेदात् । न चोद्भूतरूपतेजसोरेकेनापरस्यान्यथा-
सिद्धिः । तत्रोभयोभयावच्छेदेनैव पूर्ववर्तित्वग्रहात् पृथगित्यादि विशेषणेनैव निरासात् । ननु
कुम्भकारपितृत्वेनापि कारणत्व इयमेवान्यथा सिद्धिरिति किमिति तत्संग्राहकान्यथासिद्ध्यन्तरा-
भिधानमिति चेत् न । यस्येत्यत्र स्वनियतपूर्ववर्त्तिभिन्नस्येति विशेषणात् मननव्यापारकश्रवणत्वेन
कारणत्वरक्षार्थमेव तद्विशेषणस्यावश्यकत्वात् । न च तथापि रूपत्वेन दण्डरूपस्य कारणत्वमस्तु
तत्रोक्तान्यथासिद्धिविरहादिति वाच्यम् । तेन रूपेणान्यत्रैत्यायन्यथासिद्धावेव प्रवेशात् । न च दण्ड-
रूपत्वेनापि तदन्यथासिद्धिप्रवेशोऽस्तु तथा च किमनयान्यथासिद्धयेति वाच्यम् । तन्न ह्यवश्यकल्पनीय
पूर्ववर्त्तिसाहित्यनियतत्वमित्यर्थः । तथा सति उद्भूतरूपतेजसोरुभयोर्भाभ्यामन्यथासिद्धि
मकरन्दः ।
दण्डपूर्ववर्तित्वग्रहात्तेन दण्डस्यान्यथासिद्धिरस्त्विति वाच्यम् । येन पृथगन्वयवता सहेत्यर्थात् ।
अत्रापृथगन्वयादिमत इत्यपि यस्येति विशेषणं देयम् । तेन दण्डेन दण्डसंयोगस्य नान्यथासि-
द्धिः । एतद्विशेषणद्वयमहिम्नैव यत्रोभयोभयविशेषणावच्छेदेनान्वयव्यनुविधानं, तत्र नैकेनापर-
स्यान्यथासिद्धिः, यथोद्भूतरूपतेजसोरिति । यत्रोभयविशेषणावच्छेदेनान्वयाद्यनुविधानं, तद्भिन्न-
त्वेन विशेषणान्न तादृशस्थलेऽतिप्रसङ्ग इत्यन्ये । ननु रूपवत् कुम्भकारपिताऽप्यत्रैवान्यथासि-
द्धावन्तर्भवति, कुम्भकारत्वेन तदन्यथासिद्धत्वस्येष्टत्वात् कुम्भकारपितृत्वेनैव तदन्यथासिद्धित्वं
वाच्यम् । तत्र तत्साहित्यनियमाद् अन्यं प्रतीत्यन्त्राप्यन्तर्भावयितुं शक्यते । कुम्भकारं प्रति पूर्व-
वर्त्तित्वे ज्ञात एव तत्पितृत्वेन घटपूर्ववर्तित्वग्रहात् । तथा च तत्संग्रहार्थमन्यथासिद्धयन्तरोपवर्ण-
नमयुक्तम् । एवञ्च एतत्त्वेनान्यथासिद्धस्यापि कुम्भकारत्वनेव दण्डरूपत्वेनान्यथासिद्धस्यापि रूप-
त्वादिनाऽनन्यथासिद्धत्वमस्तु । ननु तदतिप्रसक्तमिति चेत् । तत् किमतिप्रसक्तत्वमप्यन्यथासि-
द्धिः ? तथा चानन्यथासिद्धत्वनियतपूर्ववर्तित्वयोरप्रतिषेपे किं तेन ? किञ्च, फलानुपहितवृत्तिस्त्वस्या-
तिप्रसक्तत्वस्य दण्डत्वादिसाधारणत्वाद् एतादृशस्य चाभावात् । न च तेन रूपेणान्यत्र क्लृप्तेत्य-
त्रान्तर्भवतीति वाच्यम् । तर्हि दण्डरूपत्वेनाऽपि तथाऽस्तु । एवञ्च दण्डसाहित्येनैव दण्डत्वत्वेन
घटपूर्ववर्त्तित्वग्रहाद्दण्डत्वमप्यत्रान्तर्भवति । यदि च रूपान्तरेण तस्य तद्ग्रहे साहित्यनियमाभा-
वान्न तथा, तदा दण्डरूपेऽपि तुल्यम् । तथा च तत्संग्रहार्थमपरान्यथासिद्धिनिर्वचनमप्यसङ्गतम् ।
अत एवावच्छेदकजनकजन कयोरपि त्रयेणैव संग्रहसम्भवात् त्रिधैवान्यथासिद्धिरिति गङ्गेशः । न चो-
भयेनापि तत्संग्रहे को दोष इति वाच्यम् । कारणत्वस्य तदभावगर्भत्वे गौरवादिति चिन्तनीयम् ।
टिप्पणी ।
घटान्तर्भावेण महत्त्वसम्बन्धात् । उष्मरूपवह्यादिरूपयोरुपत्वस्यैक्यात् उद्भूतरूपसम्ब-
न्धस्य वह्न्यन्तर्भावेण सत्त्वात् परमाण्वादीनीलान्तभावेण नीलत्वादिप्रत्यक्षापत्तिः । एवं यत्रैक-
देशावच्छेदेन चक्षुःसंयोगोऽपरदेशावच्छेदेनाऽऽलोकसंयोगस्तत्र प्रत्यक्षापत्तिरतः प्रत्यक्षकारणानां
महत्त्वोद्भूतरूपाद्योलोकादीनां विशेष्यविशेषणभावापन्नानां कारणत्वं वाच्यम् । तथा चैकेना-
परान्यथासिद्धिप्रसङ्गो वारितः । एतेनान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशाळित्वरूपस्य तस्य
तत्राभावात् तेषां परस्परविशेष्यविशेषणभावेन विशिष्टसत्त्वस्य विशेषणसत्त्वाधीनत्वात् समवायेन
कपालद्वयसंयोगसत्त्वस्य कपालसत्त्वाधीनत्वेन पृथगन्वयव्यतिरेकवत्त्वात् पृथगितिसत्त्वेन तस्या-
न्यासिद्धिवारणम्, अवच्छेदकीभूततद्विशेषणेन दण्डत्वेन दण्डस्यान्यथासिद्धत्वात् संग्राहक-
मन्यथासिद्धयन्तरानुधावनं विफलमिति निरस्तम् । ननु कुलालेन कुलालपितुरत्रैवान्तर्भावस्तत्-
संग्राहकान्यथासिद्धद्यनुधावनं व्यर्थमिति चेत् । न । मोक्षं प्रति मननव्यापारकश्रवणत्वेन हेतु-
१६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
प्रकाशः ।
यस्य यं प्रति पूर्ववर्त्तित्वज्ञानम् , यथा घटं प्रति दण्डरूपस्य । अन्यं प्रति पूर्ववर्त्तित्वे ज्ञात
एव यस्य यं प्रति पूर्ववर्त्तित्वज्ञानम् , यथा शब्दं प्रति पूर्ववर्त्तित्वे ज्ञात एव घटं प्रत्याकाशस्य ।
प्रकाशिका ।
प्रसङ्ग इति अवश्यकल्पनीये स्वावच्छेदकभिन्नत्वस्यापि विशेषणात् । अन्यं प्रतीति । अन्यम्=उदा-
सीनमित्यर्थः, तेन कुम्भकारपिता नास्यामन्यथासिद्धौ प्रविशतीति तदर्थमन्यथासिद्धयन्तरमुक्तम् ।
मननव्यापारकश्रवणत्वेन कारणत्वेऽर्थादुदासीनत्वविवक्षाया आवश्यकत्वात् । न चापूर्वं यागस्यान्य-
थासिद्धिः स्वर्गापूर्ववर्तिताग्रहोत्तरमेव तस्य तत्पूर्ववर्त्तित्वग्रहादिति वाच्यम् । यं प्रत्यन्यथासि-
द्धत्वं तन्निरूपितनियतोत्तरवर्त्तित्वनियतपूर्ववर्त्तित्वान्यशून्यस्योदासीनपदार्थत्वात् । पूर्ववर्तित्व
इत्यत्र साक्षादिति विशेषणाद्वा । तत्पक्षे च नियतपूर्ववर्तिभिन्नस्योदासीनपदार्थत्वमित्यवधेयम् ।
मिश्रास्तु यस्य पूर्ववर्तित्वमित्यत्र तत्पूर्ववर्तित्वानुपपादकमिति विशेषणमित्याहुः । न च परत्वादि
पूर्ववर्तित्वग्रहोत्तरमेव कालादेः कार्यान्तरपूर्ववर्तित्वग्रह इति तत्र कालादेरन्यथासिद्ध्यापत्तिः,
तत्पूर्ववर्तिताग्रहं विनापि अधिकरणत्वेन कार्यमात्रे घटं प्रति कपालकारणत्वग्रहे तद्ग्रहात् । एतेन
संयोगं प्रति आकाशस्यान्यथासिद्धिः स्यादित्यपास्तम् । द्रव्यत्वेन सामान्यत एव तद्ग्रहसम्भ-
वात् , आकाशत्वेनान्यथासिद्धत्वस्येष्टत्वात् । ननु शब्दपूर्ववर्त्तित्वग्रहं विनापि शब्दोऽष्टद्रव्यातिरि-
क्तद्रव्याश्रितो अष्टानाश्रितत्वेसत्याश्रितत्वादित्यनुमानेनाकाशोपस्थितौ तस्य घटपूर्ववर्त्तित्वग्रहात्
तं प्रति कथमाकाशमन्यथासिद्धम् । न चात्राप्यनुमाने शब्दपूर्ववर्तित्वमेव विपक्षबाध-
कमिति वाच्यम् । तथा सति मीमांसकानां शब्देनाकाशसिद्धिप्रसङ्गादनुकूलतर्कान्तरस्यावश्य-
वाच्यत्वादिति चेन्न । नियतजातीयसिद्ध्यधीनसिद्धिकस्य तज्जातीयान्यकार्यं प्रत्यन्यथासिद्धिस्तेन-
रूपेणेति विवक्षितत्वात् । नियतजातीयत्वञ्च गुणत्वव्याप्यजात्या । नन्वेवमपि द्रव्यत्वेन ज्ञानं
प्रत्याकाशस्य कारणत्वमस्तु, नच तत्र ग्राहकाभावः, ग्राह्यसत्त्वे तस्यावश्यकत्वादिति चेन्न । तेन
रूपेणान्यत्रेत्यादावन्तर्भावात् । न चाकाशत्वेनापि तत्रैव प्रवेशोऽस्तीति वाच्यम् । अवश्यक्लृप्तपूर्व-
वर्त्तिनियतसहवृत्तिधर्मवत्त्वस्य तदर्थत्वात् । आकाशस्य चावृत्तित्वेनाकाशत्वस्यातथात्वात् । न च
शब्दसाक्षात्कारं प्रत्यपि श्रोत्रस्यान्यथासिद्धिः स्यात् शब्दपूर्ववर्तिताग्रहोत्तरं तत्पूर्ववर्तिताप्र-
हादिति वाच्यम् । इन्द्रियत्वेन पूर्वमपि पूर्ववर्तिताग्रहात् । न च श्रोत्रत्वेन तथाप्यन्यथासिद्धिरिति-
वाच्यम् । अवद्यवधिमदभावावच्छेदकधर्म्माना श्रयतवे सतीति विशेषणात् । श्रोत्रस्य च सामान्यतः
शब्दसाक्षात्कारं प्रति तथात्वात् ईश्वरज्ञानादीनां क्षितिपूर्ववर्तित्वग्रहानन्तरमेव घटपूर्ववर्तिता-
ग्रहात् तत्र तदन्यथासिद्धिः स्यादिति दूषणं दूरपरास्तम् । नियतजातीयसिद्ध्यधीनसिद्धिकत्वात्
मकरन्दः ।
अन्यं प्रतीति । न चैवं संयोगादिकमपि प्रत्याकाशस्यान्यथासिद्धत्वप्रसङ्गः । आकाशत्वे-
नेष्टत्वात् । द्रव्यत्वेन शब्दपूर्ववर्तितामज्ञात्वाऽपि तत्पूर्ववर्तित्वग्रहात् । नन्वेवं यागादेरपूर्वेऽन्य-
थासिद्ध्यापत्तिः । स्वर्गं प्रति पूर्ववर्तित्वे ज्ञात एव तत्र तद्ग्रहादिति चेन्न । साक्षादिति पूर्ववर्तित्व-
टीप्पणी ।
त्वस्य सिद्धान्तसिद्धेः श्रावणज्ञानस्य मननेनान्यथासिद्धत्ववारणाय तस्येत्यत्र अनियतपूर्ववर्ति-
भिन्नत्वं विशेषणं देयम् तथा च कुलालपितुरपि वारणम् । एवञ्च तत्तद्धर्म्मावच्छिन्ननिरूपितस्वतन्त्रान्व-
न्वयव्यतिरेकशून्यत्वे सति तादृशान्वयव्यतिरेकबद्घर्म्मावच्छिन्ना या स्वनियतपूर्ववर्त्तिभिन्ननिष्ठा
तत्तद्धर्म्मावच्छिन्ननिरूपितनियतपूर्ववर्त्तित्वग्रहविशेष्यता तदाश्रयत्वं प्रथमान्यथासिद्धेः पर्य्य-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६१
यदि, तदा न विवदामहे । अस्मदभिप्रेतस्य चाभावादेरनुग्राहकत्वमङ्गीकृत्य
बोधनी ।
बुद्धानवारोहोदोष इति । तर्हि सम्प्रतिपत्तौ न विवाद इत्येतत् तदवस्थमित्यत आह-यदि-इति ।
प्रतिबन्धकापाकरणीयः कश्चिदधिको मीमांसकस्यापि सम्प्रतिपन्न इति कृत्वा यदि वयं न विवदा-
महे ततः सोऽधिकः प्रमाणसिद्धः प्रतिबन्धकाभाव एव भविष्यतीति । अस्मदभिप्रेतस्यैवानुग्राहक-
त्वमङ्गीकृत्य ततोऽधिकभावे निःसाधनको मीमांसकोऽपि न विप्रतिपत्तुमर्हतीति । एके व्याचक्षते
सम्प्रतिपन्नान्वयव्यतिरेकसहकार्यपेक्षं कार्यमिति मीमांसको यदि ब्रूयान् नास्माकमत्र विवाद
इत्याह-तत्रापि-इति । यदि च नैयायिकोक्तं प्रतिबन्धकाभावादेः सहकारित्वं मीमांसकोऽङ्गी-
कुर्यात् तदा प्रतिबन्धकाभावसहितायाः सामग्र्याः कार्यव्यभिचाराभावात् तदतिरिक्तकल्पनं नि-
ष्प्रमाणकमिति निःसाधनो मीमांसको न विप्रतिपत्तुमर्हतीत्याह-अस्मदभिप्रेतस्य च-इति ।
प्रकाशः ।
अन्यत्र क्लृप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहकृतत्वम् । यथा गन्धवति गन्धानुत्पादाद्
प्रकाशिका ।
सामान्यत उपादानगोचरज्ञानत्वेन पूर्ववर्तित्वग्रहाच्चेति दिक् । मन्येतति । अवश्यपरिकल्पनीय-
नियतपूर्ववर्त्तिसमवधाननियतत्वमित्यर्थः । तेन महत्त्वानकद्रव्यत्वयोर्बहिरिन्द्रियजन्यसाक्षात्कार-
मकरन्दः ।
विशेषणात् । तत्पूर्ववर्तित्वानुपपादकं यस्य पूर्ववर्तित्वं गृह्यते इत्यर्थादित्यन्ये । न च परत्वादि-
पूर्ववर्तित्वग्रहानन्तरमन्यकार्यं दिक्कालयोस्तद्वदित्यन्यथा सिद्धथापत्तिः । अधिकरणत्वेन तद्ग्रहं
विनाऽपि कार्यमात्रे तद्ग्रहात् । नन्वन्धं प्रति पूर्ववर्तित्वे गृहीत एवेत्यत्र किं येन केनचित् ? सर्वे-
ण वा ? नाद्यः । दण्डादावतिप्रसङ्गात् । नान्त्यः । शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितोऽष्टद्रव्यानाश्रि-
तत्वे सति गुणत्वादित्यनेनाकाशसिद्धौ शब्दपूर्ववर्तित्वाग्रहेऽपि घटं प्रति तद्ग्रहसम्भवात् ।
न च तत्रापि शब्दं प्रति कारणतामुपजीव्यैवाकाशसिद्धिः । शब्दनित्यत्वानित्यत्वसन्देहेऽपि तदा-
श्रयत्वेन तत्सिद्धयविरोधात् । अनुकूलतर्केण तत्सम्भवाच्च । वस्तुतः, शब्दनित्यत्वनिर्णयवतो
मीमांसकस्य तत्पूर्ववर्तित्वमज्ञात्वैव घटादिपूर्ववर्तित्वग्रह इति नियमासिद्धिः । किञ्च, द्रव्यत्वेनैवा-
काशस्य संयोग इव ज्ञानादौ हेतुत्वमस्तु । न च तत्र ग्राहकाभावेन नियतपूर्ववर्तित्वाग्रह इति
वाच्यम् । प्रत्यक्षत्वे ग्राहकाभावासत्त्वात् । न च तेनैव रूपेणान्यत्रेत्यत्रान्तर्भवतीति वाच्यम् ।
तथा सत्याकाशत्वेनापि तथात्वापत्तेः । अपि चैवं शब्दसाक्षात्कारं प्रत्यपि तस्यान्यथासिद्धिः
स्यात् । न च शब्दपूर्ववर्तितामज्ञात्वाऽपि इन्द्रियत्वेन तत्पूर्ववर्तित्वग्रह इति वाच्यम् । श्रोत्रत्वे
न तथाप्यन्यथासिद्धयापत्तेः । तस्याकाशघटितत्वादाकाशस्य च शब्दपूर्ववर्तित्वग्रहं विनाभ्युप-
पगमात् । अन्यथा घटेऽपि तस्यान्यथासिद्धत्वं न स्यात् । एवञ्च पाञ्चभौतिकं शरीरं प्रत्यपि तद-
न्यथासिद्धं स्यात् । किञ्चेश्वरज्ञानादेः क्षितिपूर्ववर्तित्वे ज्ञात एव घटपूर्ववर्तित्वग्रहात्तत्रान्यथासि-
द्धयापत्तिः । न च कार्यमात्रे कर्तृमात्रस्यैकदैव पौर्वापर्यग्रहात्तैवेमिति वाच्यम् । प्रकृतेऽपि विभु-
मात्रस्यैकदैव पौर्वापर्यग्रहस्य शब्दादिना सम्भवादन्यथासिद्धयभावापत्तेः । विभुत्वेन पूर्ववर्तित्व-
मात्रं गृह्यते, न तु जनकत्वमिति चेत् । ततः किम् ? न हिजनकत्वगर्भा प्रकृतान्यथासिद्धिः, आ-
त्माश्रयापत्तेः । यत्तु अन्यमित्यस्य यमित्यर्थः । तेन यं प्रति पूर्ववर्तित्वे गृहीत एवेत्यर्थः, न च
क्षित्यादिस्तथा । अन्यतमपूर्ववर्तित्वग्रहेणापि सम्भवेन नियमाभावात् । तत्र शब्दत्ववदत्राप्यनु
गतपक्षतावच्छेदकस्याऽन्यतमत्वादेर्वा सम्भवादिति चिन्त्यम् ॥
मन्येथेति प्रायिकम् । अवश्यकल्प्यं यल्लघु नियतपूर्ववर्ति, तत् समवधाननियतत्वं तत्त्व-
मित्यत्र तात्पर्यम् । तेन गुणेन दोषाभावस्य महत्त्वनानेकद्रव्यत्वस्यान्येषां वा गुरूणां पदार्था-
२१ न्या० कु०
१६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्या
प्रकाशः।
गन्धं प्रति गन्धकादाचित्काभावस्य नियतपूर्ववर्तित्वकल्पनाद् गन्धं प्रति पाकजस्थले रूपप्रा-
गभावादीनाम् । यत्र च जन्यपूर्वभावे ज्ञाते जनकस्य पूर्वभावो ज्ञायते, तत्र जन्येन जनकमन्य-
प्रकाशिका।
समवधाननियतत्वेनान्यत्रेत्याद्यभावादनेकद्रव्यत्वेऽव्याप्तिः, पूर्ववर्तिन इति पञ्चम्यर्थहेतुता-
घटितत्वेनात्माश्रयः, रासभादेरप्येवमन्यथासिद्धतय। नियतपदस्य कारणतालक्षणे व्यावत्र्त्याभावेन
व्यर्थत्वमित्यादीनि दूषणान्यनवकाशानि । नियतयद्धर्मविशिष्टस्यावश्यकल्प्यत्वं तदवच्छिन्नसमवधा-
ननियतत्वं यद्धर्मावच्छिन्नस्येति वार्थः। तेन रूपवत्त्वेन दण्डस्य कारणत्वमित्यपि सिद्धं भवति ।
यथा च दण्डरूपाकाशयोरत्र न प्रवेशः, तथा पूर्वान्यथासिद्धिलक्षणद्वयनिरुक्तावेव व्याख्यातम् । न
चाग्रिमान्यथासिद्धिसंग्राह्यस्य दण्डत्वस्यानयैव संग्रहात् तद्वैयर्थ्यमिति वाच्यम् । चक्षुःसंयोगका-
रणत्वेऽवच्छेदकीभूतस्य चक्षुषोऽन्यथासिद्धत्वं स्यादिति भयेनावच्छेदकभिन्नत्वस्य विशेषणतया
दण्डत्वस्यैतद्बहिर्भावात् । नन्ववश्यक्लृप्यत्वं नियतपूर्ववर्तित्वमात्रेण कारणतया वा, नाद्यः,
गन्धं प्रति रूपप्रागभावस्य तथात्वेन तत्सहभूतस्य गन्धप्रांगभावस्यान्यथासिद्धापत्तेः ।
नान्त्यः, आत्माश्रयादिति चेत् । न । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नत्वेनावश्यकल्प्यत्व-
स्य विवक्षितत्वात् । न च तदेव कारणत्वमिति वाच्यम् । बीजादङ्कुरोत्पत्तिरिति प्रतीतिबलेनोत्पत्ते-
रपि सावधिकतया तस्याश्चाहेतुकतया तादृशसम्बन्धस्य कारणताभिन्नत्वात् । न च कार्यकारणयोस्ता-
दृशसम्बन्धे मानाभावः प्रतीतेर्हेतुहेतुमद्भावेनैवोपपत्तेरिति वाच्यम् । उत्पत्तिनिरूपिततादृशस-
म्बन्धावच्छिन्नत्वस्यैव प्रकृतनिरुक्तिप्रवेशात् । न च सहकारिणो परस्परमन्यथासिद्धिरुभयोरवश्यक-
ल्प्यसमवधाननियमादिति वाच्यम् । तादृशसम्बन्धावच्छिन्नत्वेनावश्यकल्प्यत्वस्य प्रकृते विशेषण-
त्वात् । गन्धकादाचित्काभावस्येति । गन्धप्रागभावस्येत्यर्थः । यत्र चेति । जन्यं नियतोत्तर-
वर्त्तिनं प्रति पूर्वभावे नियते ज्ञाते तत्पूर्ववर्त्तिनो यं प्रति पूर्वभावो ज्ञायते इत्यर्थस्तेन नात्माश्रय-
शङ्का, अन्यं प्रतीत्यत्र च यथा नैतत्प्रवेशस्तथा तत्रैव व्याख्यातम् । न चैवं मननव्यापारकश्रव-
णत्वेन कारणत्वं न स्यादन्यथासिद्धेरिति प्रकाशविरोध इति वाच्यम् । जन्यपूर्ववर्त्तित्वग्रहमन्तरेण
मकरन्दः ।
नामन्यथासिद्धिर्भवति । अत एव पञ्चम्या हेतुत्वाभिधानादात्माश्रय इत्यपास्तम् । पूर्ववर्त्तिन इत्यत्र
पञ्चम्या अवधित्वेन तस्योक्तत्वादित्यन्ये । अत एव च रासभादेरपि यथाश्रुतान्यथासिद्धान्तर्भा-
वेऽनन्यथासिद्धपदेनैव तद्वारणे नियतपदं व्यर्थमित्यपास्तम् । नन्वेवं दण्डरूपाकाशदण्डत्वाना-
मप्यत्रैवान्तर्भावे तत्संग्राहकान्यथासिद्धीनामानर्थक्यम् । किंन्वावश्यकल्प्यत्वं नियतपूर्ववर्तित्वमा-
त्रेण, कारणतया वा ? नाद्यः । गन्धं प्रति रूपविशेषप्रागभावस्यापि तथात्वेन तेनैव गन्धप्राग-
भावाऽन्यथासिद्धापत्तेः । नान्त्यः । आत्माश्रयात् । अपि च सहकारिणां परस्परस्य परस्परेणा-
न्यथासिद्धापत्तिः, द्वयोरप्यवश्यकल्प्यलघुनियतपूर्ववर्तित्वेन तत्समवधाननियतत्वात् । न च
पृथगन्वयाद्यननुविधायित्वे सतीत्यपि विशेषणम् । तद्धि पृथगन्वयादिग्रहाविषयत्वं वा समनिय-
तत्वं वा ? नाद्यः । रूपप्रागभावस्यापि शब्दादिना तादृशग्रहविषयत्वेन तथात्वापत्तेः । नान्त्यः ।
आलोकतद्रूपादेरीश्वरज्ञानादेश्चैवमपि परस्परमन्यथासिद्धापत्तेः । एतेनावश्यकल्प्यपूर्ववर्तिन
एव कार्यसम्भवे तन्नियतसहभूतत्वमित्यर्थः । पञ्चमी चावधित्वे, न हेतुत्वे इत्यपास्तमिति चिन्त्यम्॥
गन्धकादाचित्काभावस्येति । गन्धप्रागभावस्येत्यर्थः । यत्र च जन्येति । जन्यजन-
कत्वं वास्तवं नियतपूर्ववर्तित्वमात्रं विवक्षितमिति नात्माश्रयः । इयञ्च तत्पितृत्वेनान्यथासिद्धि-
र्बोध्या । कुलालत्वेन तस्यापि हेतुत्वात् । अत्रापीदं चिन्त्यम् । पूर्वेनैवास्यान्तर्भावे वैयर्थ्यमित्यु-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६३
प्रकाशः ।
थासिद्धम् , यथा कुम्भकारेण कुम्भं प्रति तत्पिता । यमादायैव यस्यान्यवयव्यतिरेकौ तेन
तदन्यथासिद्धम् , यथा दण्डेन दण्डत्वम् । एतावदन्यथासिद्ध्यभावे सति यस्य नियतपूर्ववर्त्ति-
त्वं, तत् कारणम् । (पृ० १५०) सहकारीति । नन्वत्रात्माश्रयः सहकारित्वस्य कारणत्वात् ,
प्रकाशिका ।
तज्जन्यं यत्कार्यप्रयोजकत्वं, न यस्य गृह्यते तत्कार्यं प्रति तदन्यथासिद्धमित्यर्थात् । श्रवणस्य
श्रोतव्य इत्यादिशब्देन मनन पूर्ववर्त्तित्वामगृहीतवापि मुक्तिप्रयोजकताग्रहात् , अत एव परामर्शजनक-
त्वेन व्याप्तिग्रहादीनां कारणत्वेऽपि नान्यथासिद्धिः । अनुमितेः करणजन्यत्वानुमानेनैव परामर्शपूर्व-
वर्त्तित्वमगृहीत्वाप्यनुमितिप्रयोजकत्वग्रहात् । कुम्भकारपितुः कुम्भकारपितृत्वमगृहीत्वा मानाभावे-
न घटप्रयोजकत्वाग्रहाद् घटं प्रति सोऽन्यथासिद्ध इति दिक् । यमादायैवेति । यं पृथगन्वयाद्यन-
नुविधायिनमवच्छेदकीकृत्य यस्यान्यवयव्यतिरेकौ तेनान्वयव्यतिरेकवतावच्छेदकमन्यथासिद्धमित्यर्थः ।
पृथगित्यादिविशेषणेन न दण्डरूपेण दण्डेऽन्यथासिद्धिः । प्रथमान्यथासिद्धिरवच्छेदकेनावच्छेद्यस्ये
यन्त्ववच्छेद्येनावच्छेदकस्येति ततो भेदः । यमित्यत्र कार्येण सहावच्छेद्यापेक्षयाऽव्यवहितसम्बन्ध
मिति वा विशेषणम् । तेन दण्डावच्छिन्नस्य दण्डत्वस्यान्यवयव्यतिरेकग्रहेऽपिन दण्डत्वेन दण्डेऽन्यथा
सिद्धिः । अत एव नोद्भूतरूपतेजसोः परस्परमन्यथासिद्धिः । विषयतया साक्षात्कारेण तुल्यवदुभयोः
सम्बन्धत्वात् । अत एव नेन्द्रियसंयोगेनेन्द्रियान्यथासिद्धिः । विषयद्वारा तुल्यवदुभयोः साक्षा-
त्कारसम्बन्धात् यथा च न दण्डत्वस्य पूर्वत्रान्तर्भावः, तथा तत्रैव व्याख्यातमिति । नियतेति ।
यद्धर्मावच्छिन्नकार्याव्यवहितक्षणत्वव्यापकाधिकरणताप्रतियोगित्वं यद्धर्मावच्छिन्नस्य तद्धर्माव-
च्छिन्नं प्रति तद्धर्मावच्छिन्नं कारणमित्यर्थः । अधिकरणता च स्वस्वप्रागभावव्यापकप्रागभाव-
प्रतियोग्यन्यतरस्य तेन यागादेः स्वर्गकारणत्वाविरोधः । अधिकरणता च कार्यदेशावच्छिन्ना बो-
द्धव्या, तेन रासभस्य नियतघटानव्यवहितपूर्वकालत्वेऽपि न तत्कारणत्वम् । ननु तद्देशाधिकरणता
साक्षात्सम्बन्धेन वा साक्षात्परम्परासाधारणसम्बन्धेन वा, आद्ये अदृष्टस्य घटकारणत्वं न स्यात् ,
अन्त्ये रासभस्यापि घटकारणतापत्तिरितिचेन्न । एकजातीयतानियतेन सम्बन्धेन साक्षादेव वा पर
मकरन्दः ।
क्तमेव । मननव्यापारकश्रवणत्वेन हेतुत्वमिति द्रव्यप्रकाशविरोधश्च । यदि मननपूर्ववर्त्तित्वमज्ञा-
त्वाऽपि, श्रोतव्य. इत्यादिशब्दादिना श्रवणपूर्ववर्त्तित्वग्रहसम्भवे भिन्नग्रहसामग्रीकत्वादिति
नैर्षं, तदा प्रकृतेऽपि तुल्यमिति । यमादायति । न च येन सहेत्यनेनाभेद इति वाच्यम् । तत्र
साहित्यप्रतियोगिना दण्डेनान्वयादिप्रतियोगि रूपमन्यथासिद्धमिति हि विवक्षितम् । अत्र च
साहित्यप्रतियोगिदण्डत्वमेव दण्डेनान्यथासिद्धमिति भेदात् । अत्रापीदं चिन्त्यम् । पूर्वत्रैवास्या-
न्तर्भावे वैयर्थ्यम् । उद्भूतरूपतेजसोः परस्परमन्यथासिद्ध्यापत्तिः । इन्द्रियादेरिन्द्रियसंयोगा-
दिनाऽन्यथासिद्ध्यापत्तिश्च । किञ्च दण्डत्वावच्छेदकसमियतधर्म्मान्तरमादायापि शब्दादिना-
ऽन्वयादिग्रहसम्भवान्नियमसिद्धिः । प्रत्यक्षपरत्वेऽतीन्द्रियावच्छेदकाऽव्याप्तिः । अन्यथा दण्ड-
मादाय दण्डत्वेन तद्व्यान्वयादिग्रहात्तेन दण्डान्यथासिद्ध्यापत्तेरिति ।
नियतेति । ननु नियतत्वं देशमपेक्ष्य कालमपेक्ष्य वा ? । नाद्यः । रासभेऽपि गतत्वात् ।
घटपटादिपूर्वकाले रासभजातीयस्य नियमेन सत्त्वात् । नान्त्यः । साक्षात्सम्बन्धेनादृष्टादेर्घटा-
दिदेशेऽनियतत्वात् । साक्षात्परम्परासाधारणसम्बन्धमात्रापेक्षया रासभे घटादिदेशनियतत्वेना-
तिप्रसङ्गादिति चेत् । मैवम् । साक्षात्परम्परासाधारणैकजातीयसम्बन्धेन देशनियतत्वस्य विवक्षि-
तत्वात् । रासभादेरेकजातीयसम्बन्धेन घटादिदेशनियतत्वाभावाद् घटादेरेकजातीयसम्बन्धेना-
१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां
प्रकाशः ।
प्रयुक्तत्वं च न जन्यत्वं, प्रागभावस्याजन्यत्वात् । नापि जनकत्वम् , असम्भवात् । नापि व्या-
पकत्वम् । शिलाशकलेऽपि तादृशाभावस्य सत्त्वेन तत्रातिव्याप्तेः । नाऽपि व्याप्यत्वम् । कार्य-
संसर्गाभावमात्रस्य सहकार्याभावाव्याप्यत्वात् । शिलाशकलादौ कार्याभावे सत्यपि सहकार्याभाव-
स्याऽसत्त्वात् । न च कार्यप्रागभावस्तद्व्याप्यः । निमित्तसमवायिनोः कार्यप्रागभावाभावेन तद-
व्याप्तेः । उच्यते । यस्य कार्याभावव्याप्यत्वमितराभावावच्छिन्नं, तत् कारणम् । बीजेऽङ्कुरा-
भावव्याप्यता न बीजत्वेनावच्छिद्यते, इतरसमवधाने सति बीजादङ्कुरसत्त्वात् । किन्त्वितराभावे
प्रकाशिका ।
म्परया वा तद्देशाधिकरणत्वस्य विवक्षितत्वात् । न च कियत्सु घटेष्वपि रासभस्यापि नियतः
सम्बन्धोऽस्त्येवेति कार्यतावच्छेदकावच्छिन्न एकजातीयः सम्बन्धो नादृष्टस्यापि द्रव्यगुणादौ तस्य-
नानाजातीयतद्देशसम्बन्धादिति वाच्यम् । कारणता हि प्रतिकार्यं प्रतिकारणं च भिन्नेति तत्र तत्र
कार्येऽदृष्टस्य नियतजातीयदेशसम्बन्धात् । न च कार्यत्वावच्छिन्नेऽदृष्टत्वेन कारणतायां
नैकजातीयसम्बन्ध इति वाच्यम् । तस्याः कारणतायाः साक्षात्परम्परासाधारणनानाजातीय
सम्बन्धमात्रघटितत्वात् । न चैसैव कारणता रासभेऽतिव्याप्तेति वाच्यम् । तस्यां कारणतायामुक्त
रूपविशेषकारणताश्रयत्वस्य विशेषणत्वात् । ताश्च विशेषकारणताः कार्यत्वव्याप्यधर्मनिरूपितत्वे
सत्यदृष्टत्वव्याप्यधर्मनिरूपितत्वेनानुगमनीया इति न तद्घटितसामान्यकारणतानुगम इति
दिक् । यस्य कार्याभावेति । यस्यावध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नकार्याभावव्याप्यता-
इतरसहकार्याभावावच्छिन्ना तदवच्छिन्नं कारणमित्यर्थः । तेन शिलात्वेऽपि संयोगावच्छिन्नाङ्कुराभा-
वव्याप्यता न शिलात्वेनावच्छिद्यते शिलायां कदाचिदङ्कुरसत्त्वादिति तत्रातिव्याप्तिः, यत्र दण्डाभा-
ववत्त्वं तत्र घटाभाव इति व्याप्तावधिकरणतया दण्डाभावस्यावच्छेदकतया तदवच्छिन्ने दण्डाभाववत्त्वे
ऽतिव्याप्तिः, कार्याभावव्याप्यता इतरसहकृतत्वावच्छिन्ना बीजत्वस्येति तत्रातिव्याप्तिरित्यादीनि
दूषणानि न भवन्ति । न च चरमकारणे कार्याभावाभावादव्याप्तिः, चरमकारणेऽपि परामर्शादौ
सति प्रतिबन्धके कार्याभावात् यत्रापि न विलम्बः परामर्शादनुमितौ, तत्रापि तज्जातीयत्वम-
स्त्येव, तदेव च लक्षणम् । न चैवमपि विभागकारणे कर्म्मणि प्रतिबन्धकस्याप्यभावादसङ्गतिरिति
वाच्यम् । उत्पत्तिकालावच्छिन्नस्य कर्म्मणो विभागाभावाधिकरणत्वात् । एवं च स्वासाधारणेतर-
धर्म्मावच्छिन्नं यस्योक्तसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं तदवच्छिन्नं कारणमिति लक्षणवा-
क्यार्थः । अन्यथासिद्धानाञ्च स्वभावत एवोक्तसम्बन्धावच्छिन्नकार्याभाव इति न तत्रातिप्रसङ्गः ।
अत एव तदवच्छिन्नस्य धर्मिणः कारणत्वमित्येवार्थो न तु तदवच्छेदैन कारणत्वमिति तेन न
रूपवद् दण्डत्वमादायातिप्रसङ्गः । अरण्यस्थदण्डत्वं यद्यपि स्वरूपेण घटाभावव्याप्यम् , तथापि
दण्डत्वमादायैव तत्र कारणता। अग्रे च बीजबीजत्वपदे बीजत्वबीजत्वपरे इति दिक् । ननु कार्य-
कारणयोरवध्यवधिमद्भावसम्बन्धे मानाभावः । प्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्युत्पत्ति-
मकरन्दः ।
ऽदृष्टादेर्नियतत्वादिति वदन्ति । तन्नेदं चिन्त्यम् । कियत्सु घटेषु रासभस्याऽप्येकजातीयसम्बन्धेन
देशनियतत्वादतिप्रसङ्गः । कार्यतावच्छेदकावच्छेदेनादृष्टस्याप्यतथात्वम् । द्रव्यगुणाद्यनेककार्ये
एकजातीयसम्बन्धाभावादिति ॥
यस्य कार्याभावव्याप्यत्वमिति । इतराभावसहकारावच्छिन्नं तदवच्छिन्नं कारणमि-
टिप्पणी ।
वक्षितार्थः। प्रागभावस्याजन्यत्वादिति । ध्वंसस्योत्तरभावितयात्राप्रयोजकत्वात् कार्याभावस्य
तस्य जन्यत्वमपि न किञ्चित्करमतः प्रागभावस्येति प्रागभावेत्युपलक्षणमत्यन्ताभावस्येत्यपि
बोध्यम् । यस्य कार्याभावव्याप्यत्वमिति । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्न
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६५
प्रकाशः ।
नावच्छिद्यते । इतराभावे बीजेऽङ्कुराभावनियमात् । शिलायां तु तत् , शिलात्वेनैवावच्छिद्यते ।
मकरन्दः ।
त्यर्थः । तेन बीजत्वस्य कार्याभावव्याप्यत्वस्य जनकत्वाभावान्नासम्भवः । न वा यत्र दण्डाभा-
ववत्त्वं तत्र घटाभाव इति दण्डाभावनिष्ठव्याप्तौ दण्डाभावस्यैवावच्छेदकतयाऽजनके दण्डा-
भावादौ चातिव्याप्तिः । तत्र दण्डाभावसहकृतत्त्वस्यानवच्छेदकत्वात् । एवञ्चाग्रे बीजत्वादि-
पदं तद्धर्मपरमिति । ननु कार्याभावस्तजनकत्वाभावो वा, तदभावमात्रं वा ? । आद्ये
आत्माश्रयः । अन्त्ये शिलायामप्यङ्कुरस्य संयोगवृत्त्या सत्त्वेन तत्रापीतराभावसहकृतशिला-
त्वस्य कार्याभावव्याप्यत्वात् । किञ्च घटकारणे ज्ञानादौ कार्याभावव्याप्यत्वं ज्ञानत्वादिनै-
वावच्छिद्यते । दण्डाद्यभावसाहित्यस्य तत्र नीलधूम इव व्यर्थत्वादिति चेत् । अत्र वदन्ति ।
उत्पत्तिकालीनसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं विवक्षितम् । संयोगसम्बन्धस्योत्पत्त्यनन्तर-
कालीनतया तदवच्छिन्नाभावमादाय न शिलादौ प्रसङ्गः । उत्पत्तिकालीनसम्बन्धो द्वयमेव, कार-
णता समवायश्च । तदवच्छिन्नाङ्कुराभावश्च समवायिनि बीजादौ च । द्वयञ्च कारणमेव । न चैवं
कारणतागर्भत्वेनात्माश्रयः । सम्बन्धत्वेनैव तज्ज्ञानादिति । अत्र वदन्ति । विषयविषयिभाव-
सम्बन्धस्याप्युत्पत्तिकालीनतया तदवच्छिन्नकार्याभाववत्त्वस्येतराभावावच्छेदकतया वह्न्यादेरनुमिति-
जनकत्वापत्तिः । चरमकारणे कार्याभावाभावादव्याप्तिश्चेति । बीजादङ्कुर इति प्रतीतिबलादवध्यव-
धिमद्भावलक्षणः स्वरूपसम्बन्धविशेष एव विलक्षणः । कार्यकारणयोस्तत्सम्बन्धावच्छिन्नकार्या-
भावश्च कारण इतराभावावच्छेदेन । स्वरूपायोग्ये च तादृशसम्बन्धाभावात् तदवच्छिन्नकार्याभावः
स्वासाधारणशिलात्वादिकर्मोवच्छेद्यः । एवञ्च तादृशसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं यन्त्र स्वा-
साधारणधर्मेत्तरावावच्छिन्नं तदवच्छिन्नं कारणमित्यत्र तात्पर्यम् । चरमकारणे च यद्यपीतराभावो
नावच्छेदकस्तथाप्युत्पादकाल एव तथा । उत्पादामन्तरमेव कार्योत्पादेन तदा कार्याभावात् । यद्वा,
परामर्शदौ चरमकारणेऽपि प्रतिबन्धकाभावविलम्बेन कार्योत्पत्तिविलम्बादितराभावावच्छिन्नमेव ।
टीप्पणी ।
कार्याभावव्याप्यता यस्य स्वासाधारणधर्मातिरिक्तधर्मावच्छिन्ना तत्त्वमित्यर्थः। तेन यत्र दण्डा-
भाववत्त्वं तत्र कार्याभाव इति दण्डाभाववत्त्वनिष्ठव्याप्तेरधिकरणविधया दण्डाभावावच्छिन्नत्वेऽपि
नातिव्याप्तिः । शिलाशकलेऽपि कदाचित् संयोगेन कार्यस्य सत्त्या तत्स्वरूपस्यापि निःस्वरूपेण
व्याप्यता रासभस्यापि सामग्रीकाले कार्यदेशे सत्त्या दण्डाद्यभावावच्छिन्नैव कार्यभावाव्याप्यतेति न
तयोः कारणत्वप्रसङ्गः । स्वरूपायोग्येन सहकार्यस्यावध्यवधिमद्भावसम्बन्धानङ्गीकारात् शिला-
शकलादङ्कुरं रासभाद् घट इत्यप्रतीतेः सर्वदैव स्वरूपत एव तयोः कार्याभाववत्त्वमितीतरस्य
धूमे वह्निव्याप्यतायां नैल्यस्येव वैयर्थ्यान्नावच्छेदकत्वम् । स्वरूपयोग्येषु बीजदण्डकपालादिषु स्व-
रूपतो न सदा कार्याभावः, बीजादङ्कुरम् दण्डाद् घटः सति कारणान्तर इति प्रतीतेः, किन्तु सहकार्य-
न्तरविरहे बीजादपि नाङ्कुरमिति प्रतीतेरितरकारणाभावविशिष्ट एव बीजादौ निरुक्तसम्बन्धाव-
च्छिन्नकार्याभावनियम इति तन्निष्ठव्याप्यतवैवेतरावावच्छिन्नेति तेषु समन्वयः । कर्मसद्भावे
विभागनियमेऽप्युत्पत्तिकाले कार्याभावेन तन्निष्ठाया व्याप्यताया इतराभावानवच्छिन्नत्वेऽप्युत्पत्ति-
कालेनेतरेणावच्छेद्यत्वात् । परामर्षनिष्ठातुमित्यभावव्याप्यतायाश्च प्रतिबन्धकेनापीतरेणावच्छेद्यत्व-
सम्भवान्न तयोर्व्याप्तिः । न च विनश्यदवस्थाद्यतो जन्म कार्यस्य तस्य कार्यक्षणेऽविद्यमानत्वात्
कदाचिदपि कार्यवत्त्वासम्भवात् तस्य स्वरूपेणैव कार्याभावनियतत्वम् । कार्योत्पत्तेः प्राक् सम्ब-
न्धसत्त्वेऽपि कार्यस्यैवाभावात् कार्याभाववत्त्वम् । अन्यथा कर्मण उत्पत्तिकालावच्छिन्नं कार्याभा-
१६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां
निःसाधना मीमांसका अपि न विप्रतिपत्तुमर्हन्ति । ततोऽभावादिरनुग्राहक इत्येके,
नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितञ्चैतस्यानुग्राहकत्वम् । किमपरमव
शिष्यते यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण ॥
बोधनी ।
ततश्चार्यं विवादविषयोऽवशिष्यत इत्याह-ततः-इति । तस्याभावादेरनुग्राहकत्वमनन्यथासिद्धा-
न्वयव्यतिरेकित्वे व्युत्पादितम् , अतः शक्तिनिषेधो नाम न कश्चिदन्योऽर्थः प्रमाणसाध्योऽस्तीति-
शक्तिविषयेयं कथोपरम्यत इति ।
नन्वेवमपि भूतधर्म्मत्वमपूर्व्वस्य न सिद्ध्यतु, चेतनधर्म्मत्वेऽपि विनिगमना कुतस्त्येत्याह-
प्रकाशः ।
यद्वा, अन्यासमावधानावच्छिन्नकार्यानुत्पत्तिव्याप्यत्वं कारणत्वम् । रासभादेश्च स्वत एव कार्याभाव-
व्याप्यतयाऽन्यासमावधानस्य वैय्यर्थ्येनानवच्छेदकत्वादिति । (पृ. १५१) ततोऽधिकेति । कार-
णत्वस्योभयसिद्धत्वात् तदन्यशक्तिनिषेधकमित्यर्थः । (पृ. १५१) अनुग्राहकत्वेति । कारणत्वस्य
शक्तिपदवाच्यत्वेऽपि अनुग्राहकत्वस्य कारणसहकारिसाधारणत्वात् सहकारिष्वपि शक्तिपदप्रयोगः ।
यत्समवधाने नियतं कार्यं, तस्यैवानुग्राहकत्वादित्यर्थः । तत इति । मन्त्रादिप्रयोगे किं भावरूपो-
ऽनुग्राहको नास्त्यभावरूपो वेति विप्रतिपत्त्या कथायामभावस्यानुग्राहकत्वे व्युत्पादिते कान्यत्र
प्रमाणं वाच्यमित्यर्थः ।
प्रकाशिका ।
गर्भलक्षणमाह । अन्यासमाधानेति । दण्डाद् घटोत्पत्तिरिति प्रतीतेरनन्यगतिकतया तयोः
तादृशसम्बन्ध इति भावः । अत्रापि यस्य व्याप्यत्वं तदवच्छिन्नत्वं कारणत्वमिति पूर्व्वदेव व्या-
ख्यानं सर्व्वम् । रासभादेः=रासभत्वादेः । अनुग्राहकत्वेति । तथा च भक्तित्वेन रूपेण सह-
कारिविषयक एव विवाद इत्यर्थः । गुरुत्वादिरित्यादिपदसंग्राह्यशक्तिपदशान्तनिषेधेऽपि गुरुत्वद-
मकरन्दः ।
यदि च कचिच्च तथात्वं, तदा तज्जातीयत्वं लक्षणं बोध्यम् । न चारण्यस्थदण्डे तद्दण्डत्वादिनैव
तदवच्छेदाद्व्याप्तिरिति वाच्यम् । दण्डत्वमादाय लक्षणसत्त्वादिति ।
अन्यासमावधानावच्छिन्नेति । अन्यासमावधानावच्छिन्नं कार्यात्नुत्पत्तिव्याप्यत्वं यस्य,
तदवच्छिन्नं कारणत्वमित्यर्थः । उत्पत्तिगर्भतया पूर्व्वस्माद्भेदः । शेषं पूर्ववत् । कारणत्वसहकारी-
त्यत्र द्वन्द्वः ।
टिप्पणी ।
वत्त्वं न स्यादिति वाच्यम् । तज्जातीयवत्त्वस्य लक्षणात् । स्वरूपायोग्यश्च कार्य्यकालेऽपि सम्बन्धस्यैवा
भावेन कार्य्याभाववत्त्वं बोध्यम् । व्याप्यता च तादात्म्येनेति । यद्वा यद्धर्म्मस्य स्वेतरावच्छिन्नं
व्याप्यत्वं यद्धर्म्मवत्त्वं कारणत्वम् । न ह्येवंविवधं किञ्चित् कारणमस्ति यज्जातीयं कार्य्योत्पत्ति-
क्षणेऽपि नास्ति । एतेनोत्पत्त्यवच्छिन्नकर्मणो विभागावच्छिन्नकर्मव्यतिरेकेऽपि न क्षतिः ।
उत्पत्त्यवच्छिन्नकर्म्मत्वाधिकरणताया विलक्षणत्वात् । न च प्रागभावस्य सामग्रीनाश्यत्वे स्वरूपत
एव सदैव कार्य्याभाववत्त्वमिति तत्र का गतिरिति वाच्यम् । प्रतियोगिनाश्यत्वस्यैव तस्य स्वीका-
रात् । उत्पन्नपुनरुत्पत्तेः कार्य्यसहभावेन कारणत्वाभ्युपगमेन वारणीयत्वात् । प्रागभावानभ्युपग-
माद् वा सर्व्वमवदातम् । कारणेन सह कार्य्यस्य नावध्यवधिमद्भावलक्षणसम्बन्धः, उक्तप्रतीतेः
कार्यकारणभावेनैवोपपत्तेरित्यत आह यद्वा मन्द्यासमवधानावच्छिन्नेति । उत्पत्तेर हेतु-
कत्वाद् बीजादङ्कुरोत्पत्तिरिति प्रतीतेस्तस्यावश्यकत्वादिति भावः ।(१)
इति प्रथमस्तबकप्रकाशटिप्पणी ।
( १ ) इतः परं प्रथमस्तबकप्रकाशटीप्पणी आदर्शपुस्तके नास्ति ।