न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११७
इत्यत्र संसर्गाभावमात्रस्यैव प्रयोजकत्वात् ।
यस्तु संसर्गाभावतादात्म्यनिषेधयोर्विशेषमनाकलयन्नितरेतराभावेन प्रत्य-
वतिष्ठते, स प्रतिबोधनीयः । तथाप्यभावेषु जातेरभावात् कथं त्रयाणामुपग्रहः
स्यात्, अनुपगृहीतानाञ्च कथं कारणत्वावधारणमिति चेत् । मा भूज्जातिः । न
बोधनी ।
सति संसर्गिणि कार्यं न जायते तस्मिन्नसत्यसंसर्गिणि जायत इत्यभ्युपगमे संसर्गाभाव एक एव
कारणम् । प्रागभावादयस्तु तद्विशेषा इति नानियतहेतुकत्वमिति । ननु संसर्गाभावः कारणमित्यु-
क्तेऽपि संसर्गप्राक्प्रध्वंसादिविकल्पेनानियतहेतुकत्वं, तत्रापि संसर्गाभावस्वीकारेऽनवस्थेति चेत्,
न । न ह्यत्र संसर्गस्याभावः कारणं यतो विकल्प्येत, किन्तु संसृज्यमानस्य मन्त्रादेः । न हि
संसर्गः प्रतिबन्धकः संसृज्यमानस्यैव मन्त्रादेस्तथात्वादिति ।
यत्तूक्तमितरेतराभावस्य सत्त्वेऽपि कार्यानुदयादिति तत्र प्रथमव्याख्यानेन यानुपपत्तिरुक्ता तां
निराचष्टे-यस्तु-इति । प्रतिबोधनीयः=,तादात्म्याभावविलक्षणं संसर्गाभावम् । तद्द्विविधो
ह्यभावः-इदमिह इदानीं वा नास्तीति संसर्गतया यत्र प्रतियोगी निषिध्यते स संसर्गाभावः । तत्र
संसर्गाभावभेदाः प्रागभावप्रध्वंसात्यन्ताभावाः, तेषामेव संसर्गितामापन्नप्रतियोगिनिरूप्यत्वात् तत-
श्चैतरेतराभावस्याप्रसक्तिरिति । नन्वस्तु तादात्म्याभावसंसर्गाभावयोर्विशेषः, तथापि प्रागभावा-
दित्रयानुगतायास्तादात्म्याभावव्यावृत्ताया जातेरभावात् कथं त्रयाणामुपसंग्रहः, कथं वा तदनुप-
संग्रहे व्यभिचाराच्छक्यावधारणं कारणत्वमित्याह-तथापि-इति । विनापि जातिमेकोपाध्युप-
गृहीतानां त्रयाणां कारणत्वमवधारयामः, उपाधिश्चात्र संसर्गितापन्नप्रतियोगिनिरूप्यत्वमित्याशय-
वानाह-मा भूत्-इति । तथापि न तावन्मात्रेण कारणत्वं शक्यावधारणमिति चेत् । न, भवतो-
प्रकाशः ।
नन्वन्योन्याभावव्यावृत्तस्य संसर्गाभावत्वस्योपाधेरभावात् । प्रतिबन्धकसत्त्वेपि तदन्योन्या-
भावात् कार्यं स्यादित्यत आह—
यस्त्विति । प्रतिबोधनीयः = प्रतिबन्द्या बोधनीय इत्यर्थः । तथाहि अन्वयव्यतिरेका-
भ्यां व्याप्तिकारणत्वयोर्ग्रहे मीमांसकैरपि संसर्गाभावस्य कारणत्वाङ्गीकारः । अन्यथा व्यापकसा-
मग्र्योः सत्त्वेऽपि तदन्योन्याभावाद् व्याप्यकार्याभावापत्तेः । तथापि प्रतिबन्धकाभावेऽपि शक्ति-
रस्तीति प्रतिबन्धकसत्त्वे तदन्योन्याभावमादाय शक्तिसत्त्वप्रसङ्गश्चेति भावः । मा भूदिति ।
प्रकाशिका ।
भिचारमिति । यद्यपि विशिष्टाभावस्य सर्वत्रात्यन्ताभावतया नोक्तव्यभिचारशङ्का, अत एव संस-
र्गाभावत्वेन कारणत्वमिति सिद्धान्तोऽप्युपपन्नः । तथाप्युत्तेजकशून्यप्रतिबन्धकस्थलाभिप्रायेण शङ्का
सिद्धान्तौ । नच तदसम्भवः । रूपादैः सजातीयप्रतिबन्धकतायामुत्तेजकाभावात् । नच तत्र समा-
नाधिकरणरूपत्वेन प्रतिबन्धकतेति तदत्यन्ताभावस्याकारणतया संसर्गाभावत्वेनाहेतुत्वात्कथं
सिद्धान्तसङ्गतिरिति वाच्यम् । लाघवेन रूपत्वेनैव प्रतिबन्धकत्वात् संसर्गाभावपदस्य कादाचित्का-
भावपरत्वाद् वा । व्याप्यकार्याभावेति । न चान्योन्याभावमादायेष्टापत्तिरिति वाच्यम् । व्य-
मकरन्दः ।
व्याप्यकार्येति । नचान्योन्याभावमादायेष्टापत्तिरिति वाच्यम् । तथा सति व्यभिचारि-
णोऽपि तथात्वपत्तेः ।
प्रतिबन्धकाभावे इति सति सप्तमी । बह्नादाविति शेषः । संसर्गाभावलक्षणमनुमानप्र-
काशे द्रष्टव्यम् ।
११८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां
हि तदुपगृहीतानामेव व्यवहाराङ्गत्वम्। सर्वत्रोपाधिमद्व्यवहारविलोपप्रसङ्गात्।
एतेन प्रतिबन्धके सत्यपि तज्जातीयान्यस्याभावसम्भवात् कार्योत्पादप्रसङ्गोऽनु-
त्पादे वा ततोऽप्यधिकं किञ्चिदपेक्षणीयमस्तीति निरस्तम्। यथा हि तज्जातीये
सति कार्यं जायतेऽर्थादसति न जायत इति स्थिते तद्भावेऽपि तज्जातीयान्तरा-
भावान्न भवितव्यं कार्येणेति न, तथैतदपि। अनुकूलवत् प्रतिकूलेऽपि सति त-
ज्जातीयान्तराभावानामकिञ्चित्करत्वादिति। यत्त्वकिञ्चित्करस्येति। तदप्यसत्।
बोधनी।
ऽपि बीजे सत्यङ्कुरो जायते तदभावे तु न जायते इत्यत्र व्यतिरेकादौ यदि बीजप्राग्भावो विव-
क्षितः प्रध्वंसे जायेत, अथ प्रध्वंसं इतरत्र जायेतेत्यादिप्रसङ्गः, बीजाभावमात्रविवक्षायां तादात्म्या-
भावेऽप्यङ्कुरानुदयप्रसङ्ग इत्यभिहिते च तादात्म्याभावव्यावृत्तस्य प्राग्भावादित्रयानुगतस्य च सं-
सर्गाभावत्वस्याङ्गीकार एव परिहार इति इतरेतराभावस्य सत्त्वेऽपीत्यत्र द्वितीयव्याख्यानोक्ता-
मनुपपत्तिमनुभाष्य दूषयति। एतेन-इति। प्रतिबन्धके सति कार्यं न जायते तस्मिन्नसति
जायत इति प्रतिपादिते कथमनेनैतन्निरस्तमित्यत्रातिदेशमेव भावकारणवादसाम्येन विशदयति-
यथा हि-इति। बीजजातीये सत्यङ्कुरोत्पत्तिरित्युक्तेऽर्थात्तदभावे तदनुत्पत्तिरिति सिद्धे एक-
स्मिन् बीजे सति बीजजातीयान्तराणामभावादङ्कुराख्येन कार्येण न भवितव्यमिति न प्राप्नोति
तथैतदपि। प्रतिबन्धके सति कार्यानुदयस्तदभावे सति कार्योदय इत्यत्रापि एकस्मिन् प्रतिबन्धके
सति सजातीयान्तराणामभावाद् भवितव्यं कार्येणेत्येतदपि न प्राप्नोतीति। कुत इत्यत आह-
अनुकूलवत्-इति। कार्यानुकूले कारणे सति यथा तज्जातीयान्तराणामभावो न तस्य कार्यं
निषेधति तथा प्रतिकूलेऽपि कस्मिंश्चित् प्रतिबन्धके सति प्रतिबन्धकान्तराभावेऽपि न कार्यं वि-
धत्ते अकिञ्चित्करत्वं निषेधे विधौ चेति द्रष्टव्यम्। अथ प्रतिबन्धकत्वान्यथानुपपत्तिं दूषयितुं प्रती-
केनानुभाषते-यत्तु-इति। सङ्ग्रहं व्याचक्षाणो दूषयति-तदपि-इति। पूर्वार्थापत्तिसमुच्चयेऽपि
सामग्रीवैकल्यं सामग्र्यन्तर्भूतानामन्यतमस्य विगमः प्रतिबन्धकः। उभयवादिसिद्धिप्रदर्शनार्थो
प्रकाशः।
जात्यभावेऽपि संसर्गाभावत्वरूपैकोपाधिनैव कारणत्वमित्यर्थः। न च तद् निर्वक्तुमशक्यम्।
अधिकरणे प्रतियोगिनमारोप्य यत्र निषेधबुद्धिस्तत्र संसर्गाभावो, यत्र तु प्रतियोगितावच्छेदक-
मारोप्य निषेधधीस्तत्र सोऽन्योन्याभाव इत्यस्मद्गुरवः।
ननु प्रतिबन्धकाभावो न हेतुः। एकदण्डान्वये घटोत्पत्तिवदेकप्रतिबन्धकसत्त्वेऽपि तद-
न्याभावात् कार्योत्पत्त्यापत्तेः। न हि यावत्कारणतावच्छिन्नं तावदन्वये कार्यमित्यत आह।
एतेनेति। अभावकारणत्वाङ्गीकारेण। यथा बीजजातीये सत्यपि बीजान्तराणामभावादङ्कुरेण
न भाव्यमित्ययुक्तं, तथैदमपीत्यर्थः। प्रतिबन्धकतावच्छिन्नप्रतियोगिताकः प्रतिबन्धक-
सामान्याभावः कारणम्। स च यावद्विशेषाभावनियत इति नैकप्रतिबन्धकसत्त्वे तदन्या-
भावात् कार्योत्पत्तिः। यद्वा, प्रतिबन्धकाभावत्वेन न कारणत्वम्। अन्योन्याश्रयात्।
प्रकाशिका।
भिचारिणोऽपि तमादाय तथासति नियतत्वापत्तेः। प्रतिबन्धकाभाव इति सति सप्तमी वह्न्यादाविति-
शेषः। अधिकरण इति। यद्यप्यधिकरणे प्रतियोगी संसर्गाभावप्रतीतौ नारोप्यो न वा प्रतियोगि-
तावच्छेदकमारोप्यमन्योन्याभावप्रतीतावधिकरणे किन्तु भूतलेवृत्तित्वं घटे प्रथमप्रतीतौ प्रतियोगी-
न्वाधिकरणे तादात्म्येन द्वितीयप्रतीतौ, तथापि प्रतियोगिसंसर्गतादात्म्ययोरधिकरणे संसर्गविधया
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । ११६
सामग्रीवैकल्यं प्रतिबन्धपदार्थो मुख्यः, स चात्र मन्त्रादिरेव, न त्वसौ प्रति-
बन्धकः । ततः किं तस्याकिञ्चित्करत्वेन । तत्प्रयोक्तारस्तु प्रतिबन्धाः । ते च
किञ्चित्करा एवेति किमसञ्जसम् ।
ये तु व्युत्पादयन्ति, कार्यानुत्पाद एव प्रतिबन्ध इति । तैः प्रतिबन्धमकुर्वन्त
एव प्रतिबन्धका इत्युक्तं भवति। तथाहि, कार्यस्यानुत्पादः प्रागभावो वा स्यात् ,
तस्य कालान्तरप्राप्तिर्वा ? न पूर्वः तस्यानुत्पाद्यत्वात् । न द्वितीयः, कालस्य
बोधनी ।
मुख्यशब्दः । स च प्रतिबन्धोऽत्राभावकारणत्वस्थितौ मन्त्रादिरेव स्यात् , अभावाभावस्य भा-
वात्मकत्वात् । न त्वसौ मन्त्रादिः प्रतिबन्धकः । अतो मन्त्रादेरकिञ्चित्करत्वेऽपि न प्रतिबन्ध-
कस्याकिञ्चित्करत्वं भवति प्रतिबन्धकस्य किञ्चित्करापेक्षायामनवस्थाप्रसङ्गात् प्रतिबन्धकत्वप्रसङ्गा-
च्चेति । के तर्हि प्रतिबन्धका इत्यत्राह-तत्प्रयोक्तारः-इति । मन्त्रादिप्रयोक्तारः पुरुषाः प्रति-
बन्धकाः, ते च मन्त्रादीन् प्रयुञ्जानाः किञ्चित्करा एवेति नानुपपद्यमानं किञ्चिदस्तीति ।
कार्यानुत्पादः प्रतिबन्धः, तं च कुर्वन्तो मन्त्रादयः प्रतिबन्धका इत्येकदेशीनां मतमुपन्यस्य
निरस्यति-ये तु-इति । तस्य कालान्तरप्राप्तिरिति सामग्रीसमवधाने हि कार्यस्य प्रागभावो वि-
नश्यति । सति तु प्रतिबन्धके पश्चात्तनमपि काले व्याप्नोति । तेन प्रागभावस्य पाश्चात्यकालप्राप्तिः
प्रतिबन्धकाधीनेति । तस्यानुत्पाद्यत्वाद् इति । प्रागभावस्यानादित्वेनानुत्पाद्यत्वादिति ।
कालस्य स्वरूपत-इति । मुख्यतस्तावत् कालस्यैकत्वात् कालान्तरमिति न संभ-
प्रकाशः ।
कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्वात् । किन्तु मण्याद्यभावकूटस्य । स च तत्र
नास्त्येवेति भावः । मुख्य इति । प्रतिबन्धपदस्य सामग्र्यन्तर्गतकारणविगमार्थत्वादित्यर्थः ।
ये त्विति । तथाच कार्यानुत्पादहेतुतया मन्त्रादिरेव प्रतिबन्धक इत्यस्त्वित्यर्थः । काल-
स्येति । कालप्रागभावस्वरूपातिरिक्तायास्तत्प्राप्तेरभावात् , स्वरूपस्य च तदजन्यत्वादित्यर्थः ।
प्रकाशिका ।
कारणीभूतप्रतीतौ विषयत्वं लक्षणप्रविष्टम् । कारणीभूतेति । न च मण्याद्यभावत्वेनोपस्थितानां
कारणताग्रहे कारणीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वग्रहे प्रतिबन्धकाभावत्वेन कारणताग्रहा-
दन्योन्याश्रय इति वाच्यम् । प्रथमोपस्थितमण्यभावत्वादेरेव बाधकाभावेऽवच्छेदकत्वग्रहात् ।
उत्तेजकस्य मण्यादौ भिन्नभिन्नात्मकत्वेन विशिष्टाभावहेतुतायामेतस्य प्रकारस्याभावाच्च । एतेन
कार्यानुत्पादप्रयोजकत्वमेव प्रतिबन्धकत्वं तदवच्छिन्नाभावत्वेनैव च हेतुत्वमिति नान्योन्याश्रय इति
निरस्तम् । अनुपदमेवानुत्पादजनकत्वस्य मूलकृता दूष्यत्वाच्च । मण्याद्यभावेति । मणित्वाश्र-
ययावदभावकूटस्य मन्त्रत्वाश्रययावदभावकूटस्य चेत्यर्थः । न तु मणिसामान्याभावस्य मन्त्रसा-
मान्याभावस्य चेत्यर्थः । उत्तेजकशून्यतापक्षे प्रागभावादिरूपतयाऽसम्भवात् । उत्तेजकतापक्षे
च भिन्नभिन्नोत्तेजकत्वेनासम्भवात् , यस्य त्वेकजातीयस्य प्रतिबन्धकस्य एकजातीयमेवोत्तेजकं
तत्रास्तु सामान्याभावस्य कारणत्वमिति तत्रैव ग्रन्थतात्पर्यम् ।
मकरन्दः ।
कारणीभूतेति । न च कार्यानुत्पादजनकत्वं तदिति नान्योन्याश्रय इति वाच्यम् । तस्यानु-
पदमेव दूष्यत्वादिति भावः । मण्यादीति । मणिमन्त्रादिसामान्याभावकूट इत्यर्थः । यद्यपि
तत्तन्मण्यत्यन्ताभावकूटस्यापि हेतुतया न क्षतिस्तथापि मणित्वावच्छिन्नप्रतियोगिकसामान्याभाव-
स्यैकत्वेन लघुत्वाद्धेतुत्वमिति मन्तव्यम् ।
१२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां
स्वरूपतोऽभेदात् । तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् । प्राग्भा-
वावच्छेदककालोपाधिस्तदपेक्ष इति चेन्न । मन्त्रात् पूर्वमपि तस्य भावात् । तस्मा-
त् सामग्रीतत्कार्ययोः पौर्वापर्यनियमात्तदभावयोरपि पूर्वापरभाव उपचर्यते ।
वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः ।
बोधनी ।
वति यत्प्राप्तिर्मन्त्रायधीना भवेदिति । नन्वौपाधिककालभेदप्राप्तिर्मन्त्रायधीना स्यादित्याशङ्कयाह-
तदुपाधेः-इति । अत्र हि पक्षे कालान्तरप्राप्तिर्नाभावच्छेदकोपाध्यन्तरप्राप्तिरित्यवशिष्यते ।
तत्र कालोपाधिः सूर्यगत्यादिर्मन्त्रमन्तरेणापि स्वकारणाधीनः, तत्प्राप्तिश्च प्रागभावस्यानुत्पाद्यत्वेन
स्वयमेव सिद्धेति किमत्र मन्त्रादिना क्रियत इति । ननु कालमात्रभेदोपाधेर्मन्त्रानपेक्षत्वेऽपि प्रा-
गभावव्यवच्छेदककालान्तरोपाधिर्मन्त्रादिकमपेक्षते । न हि सूर्यगत्यादिमात्रभेदितः कालः प्राग्-
भावं व्यवच्छिनत्ति कार्योत्पत्त्युत्तरकालमपि तस्य भावादित्याह- प्राग्भाव-इति । अस्ति हि
मन्त्रादेः पूर्वमपि प्राग्भावावच्छेदककालोपाधिः, यदि पूर्वमपि प्राग्भावस्तदवच्छेदकश्च काल-
स्तदुपाधिश्च कश्चिन्न स्यात् तर्हि तदानीं प्राग्भावव्यवहारो न स्यादिति । यद्यनादित्वात् कार्यप्रा-
गभावो नोत्पाद्यः कथं तर्हि कारणाभावात् कार्याभाव इति कार्यकारणभावयोः कार्यकार-
णभावव्यवहारः ।
कालभेदे व्यपदेशश्च लौकिकानामिति शङ्कामुपपादयन्नाह-तस्मात्-इति । प्रागभावस्या-
नुत्पाद्यत्वादौपचारिकः प्रयोग इत्यर्थः । अथोपपादितं कार्यानुत्पादस्याप्रतिबन्धकत्वमुपसंहरति -
इति-इति । कार्यानुत्पादविपरीतः प्रतिबन्ध इत्ययं न प्रतिबन्धत्वोपपादनमार्गः किन्तु पूर्वोप-
प्रकाशः ।
प्राग्भावावच्छेदकेत्यत्र कर्मधारयः । कालोपाधिमात्रस्य मन्त्रायजन्यत्वेऽपीति शेषः ।
लोके कारणाभावात् कार्याभाव इति हेतुपञ्चमीप्रयोग औपचारिक इत्याह-तस्मादिति ।
मुरारिमिश्रास्तु-न प्रतिबन्धकाभावः कारणं, न वा शक्तिः, किन्तु तत्तत्कालीनदाहविशेषं
प्रति तत्तत्कालप्रतिबद्धेतरवह्नेः कारणत्वमिति प्रतिबन्धकाभावः कारणतावच्छेदको दण्डत्ववत् , न
कारणम् । आकाशादौ त्वेकव्यक्तिके कचित् प्रतिबन्धेऽप्यन्यत्र शब्दोत्पत्तेरतथात्वेऽपि भेर्यादेरेव
तथात्वेन कारणत्वमित्याहुः ।
तन्न । दण्डसंयुक्तचक्रत्वेन कारणत्वे सहकार्य्युच्छेदापत्तेः । अन्वयव्यतिरेकतौल्येनोभयस्या-
पि हेतुत्वं विनिगमकाभावादित्यस्यापि तुल्यत्वात् ।
यद्धर्मवत्त्वमवगम्यैव यत्र यदवगमस्तत्र तस्य तदवच्छेदकत्वात् । प्रतिबन्धकाभावमनवग-
प्रकाशिका ।
प्राग्भावावच्छेदकोऽन्यः कालोपाधिर्नास्त्येवेत्यत आह। कर्मधारय इति । तथा च प्राग्भा-
वाच्छेदककालोपाधिरित्यर्थः । यद्वा प्राग्भावावच्छेदकस्य कालोपाधिरिति निरासायाह । कर्मधा-
रय इति । प्राग्भावावच्छेदकपवस्य कालोपाधिपदेन सममित्यर्थः । औपचारिक इति । कार-
णकार्ययोरेव पौर्वापर्यं परम्परासम्बन्धेनाभावनिष्ठत्वेन विवक्षितमित्यौपचारिकत्वं न तु लाक्षणिकत्वं
सुब्विभक्तौ तदभावादिति ध्येयम् । भेर्यादेरिति । अतद्गुणसंविज्ञानबहुव्रीहिणा भेरीसंयोगादे-
रित्यर्थः । यद्धर्मवत्त्वमिति । न चैवं दृढदण्डत्वमपि सहकारि स्यात् तदनवगम्यापि दण्डत्वेन
हेतोरग्रहादिति वाच्यम् । तस्य दण्डद्वारा चक्रादिसमवधानात् । इह तु तुल्यवदेवोभयोः सहका-
मकरन्दः ।
यद्धर्मवत्त्वमिति । एवं दृढदण्डत्वमपि सहकारि स्यादित्युक्तमनुमानप्रकाशे द्रष्टव्यम् ।
प्रथमस्तबके ] अपूर्व्वस्य चेतनधर्मत्वाक्षेपः । १२१
न चेदेवं, शक्तिस्वीकारेऽपि कः प्रतीकारः । तथाहि । प्रतिबन्धकेन शक्तिर्वा
विनाश्यते तद्धर्म्मो वा, धर्म्मान्तरं वा जन्यते, न जन्यते वा किमपि ? इति प-
क्षाः । तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः । विपरीतधर्म्मान्तरजनने तद-
भावे सत्येव कार्य्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादिविकल्पावका
शश्च । तद्विनाशे तद्धर्म्मविनाशे वा पुनरुत्तम्भकेन तज्जननेऽनियतहेतुकत्वं, पूर्व्वं
स्वरूपोत्पादकादिदानीमुत्तम्भकादुत्पत्तेः । न च समानशक्तिकतया तुल्यजा-
तीयत्वान्नैवमिति साम्प्रतम् । विजातीयेषु समानशक्तिनिषेधात् । न च प्रतिबन्धक-
शक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम् । तदनुत्पाद-
बोधनी ।
दर्शित एवेति । एवमेकदेशिनं निराकृत्य शक्तिवादिनमेव प्रत्याह-न चेदेवम्-इति । मन्त्रादेः
प्रतिबन्धत्वं तत्प्रयोक्तॄणां प्रतिबन्धकत्वमित्यनभ्युपगमे शक्तिस्वीकारेऽपि त्वदुक्तसकलदूषणानां
न निस्तार इति प्रतीकाराभावमेव दर्शयितुं यथासम्भवं विकल्पयति-तथा हि-इति । शक्ति-
विनाशः प्रतिबन्धः इति प्रथमः कल्पः, यावद्द्रव्यभावित्वाच्छक्तेर्विनाशः तस्यास्तु कार्योदयानुकूल
इति द्वितीयः, कार्यप्रतिकूलधर्म्मान्तरजननमिति तृतीयः, अकिञ्चित्करस्यैव प्रतिबन्धकत्वमिति
चतुर्थः । अत्राऽऽनन्तर्यादन्तिमं पक्षं दूषयति-तत्र-इति । अतिप्रसङ्गानिर्व्वचनानुपपत्तेश्चेति
भावः । तदनन्तरं कल्पं दूषयपि-विपरीत-इति । विपरीतधर्माभावस्य कारणत्वं तावत् प्रस-
ज्येत, तत्र च प्रागभावादिविकल्पावकाशः पूर्व्ववदेव स्यादिति । प्रथमद्वितीयकल्पावेकप्रसरेण दूष-
यति तद्विनाश-इति । शक्तिद्धर्मयोर्विनाशे सति पुनरुत्तम्भके सति कार्यदर्शनात् तेन तयो-
रुत्पत्तिरङ्गीकार्य्या, तथा चानियतहेतुकत्वं, पूर्वं शक्तिमुत्पादकेनेदानीमुत्तम्भकेन तयोरुत्पत्तेरिति ।
ननु स्वरूपोत्पादकोत्तम्भकयोर्विजातीयत्वेऽप्येकशक्तित्वेन तुल्यत्वे संभवति नानियतहेतुकत्वप्रसक्ति-
रित्याशङ्क्याह-न च-इति । कारणमाह-विजातीयेषु इति । प्रवाहोनादिमानेषनविजात्येकश-
क्तिमानित्यत्र । ननु नोत्पादकः कारणशक्तिं तद्धर्मं वा जनयति, केवलं स्तम्भकस्य स्तम्भनशक्तिं
निरुणद्धि, तेन नानियतहेतुकत्वप्रसङ्ग इत्याग्राह-न च-इति । तदनुत्पादेति । पूर्वं प्रतिबन्धकवि-
नष्टयोः शक्तिधर्मयोः पुनरुत्तम्भकेनाजनने तयोरनुत्पाद एव स्यात्, ततश्च कार्यस्याप्यनुत्पादप्र-
प्रकाशः ।
स्यापि वह्नेर्दाहेहेतुत्वावगमात् । अन्यथा शक्तिस्वीकारेऽपि त्वदुक्तदोष इत्याह । न चेदेवमिति
तदभावे=विपरीतधर्म्मान्तराभावे । पूर्व्वमिति । "नित्ये नित्यैव सा शक्तिरनित्ये भावहेतुजा"
इति पराभ्युपगमादित्यर्थः । विजातीयेष्विति । शक्त्यनुकूलशक्त्यन्तरपरम्पराऽनुसरणेऽनव-
स्थानन्वेति भावः । तदनुत्पादेति । प्रतिबन्धकेन वह्निशक्तिनाशादुत्तेजकेन प्रतिबन्धकशक्ति-
नाशेऽपि पुनर्वह्नौ शक्तिर्न स्यात् । पूर्व्वस्या नाशादन्यस्याश्च हेतोरभावादित्यर्थः ।
नन्वमुमानमस्तु शक्तौ मानम् । तथाहि कारणानि स्वजन्यानुकूलादृष्टभावभूतातीन्द्रिय-
धर्मवन्ति, कारणत्वात्, आत्मवत् । तत्रादृष्टं तथा सिद्धम् । नचाऽऽत्मत्वमुपाधिः । अन्त्यश-
प्रकाशिका ।
रिसमवधानात् । कारणानीति । एतच्च विप्रतिपत्तिस्थल एव व्याख्यातम् । अन्त्यशब्देति । अधि-
मकरन्दः ।
कारणानीति । तादृशधर्मवत्त्वेना निश्चितानि नित्यकारणानीत्यर्थः । शेषं प्रागेव व्याख्यातम् ।
[पृ० ११८ पं०५] न भवितव्यं कायेणेति । यथा तन्नाङ्गीक्रियते तथैतदपि नाङ्गीकरणीयम् ।
तदुक्तौ तदात्मकानिष्ठप्रसङ्गस्तवापि स्यात् । त्वया तत्परिहारे कृते तेनैतदपि परिहृतम्भवेदित्यर्थः १०
१६ न्या० कु०
१२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां
• प्रकाशः ।
ब्दध्वंसकारणकालाकाशयोः साध्याव्यापकत्वात्, तत्रान्यशब्दस्यैव तथात्वादिति सामान्यतः ।
विशिष्य तु, पिण्डोभूतो वह्निः कार्यानुकूलादृष्टातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत् । न-
चात्मत्वं नित्यत्वं वोपाधिः, स्पर्शैकत्वादिमिति द्व्यणुके साध्याव्यापकत्वात् । करवहिसंयोगे वा
पक्षः । नचात्मत्वं द्रव्यत्वं वोपाधिः, द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापकत्वात् । मण्यादिसमवहि-
प्रकाशिका ।
करणत्वेन कालादिवादाकाशस्यापि शब्दध्वंसकारणत्वादिति भावः । पिण्डीभूत इति । वह्नि-
मात्रपक्षत्वे द्व्यणुकेऽशतः सिद्धसाधनमिति तद्वारणाय पिण्डीभूत इति विशेषणम्-तस्य च प्रत्य-
क्षस्पर्शाश्रयत्वमर्थः । कार्यानुकूलत्वं च दाहानुकूलत्वं तदपि ताद्रूप्यसिद्धये, स्थितिस्थापकस्य च
वह्नावभावेन व्यावर्तनीयाभावात् । यदि च तत्रापि स्थितिस्थापको मास्तु वा तथापि तमादा-
यैवार्थान्तरमिति तद्वारणार्य कार्यानुकूलत्वं विशेषणम् । तदापि दाहानुकूलत्वपरमेव तत् । अ-
न्यथा तज्जन्यं कर्मादाय दोषतादवस्थ्यात् अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिबन्धकाभावैः सिद्ध-
साधनवारणायादृष्टेत्यादिविशेषणत्रयम् । न च प्रभाकरमतेऽभावस्याधिकरणत्मकतया समवा-
यिपदं व्यर्थमेवेति वाच्यम् । भट्टमतेऽर्थान्तरवारकत्वात् । प्राभाकरमतेऽपि अतिरिक्ताभावसि-
द्ध्यैव प्रकृतानुमानपर्यवसानेनार्थान्तरवारकत्वात् । वस्तुतोऽन्वयार्थसम्बन्धवाचकपदोपादाने प्राप्ते
समवायिपदस्यैवाखण्डार्थकस्योपादानादिति । द्व्यणुकैकत्वेति । समवायिपदस्य तन्निरूप्य-
समवायाश्रयत्वमात्रमर्थ इति द्व्यणुकमादाय साध्यसत्त्वं तत्र द्रष्टव्यम् । मण्यादीति । दाह-
जनकवह्नौ हेत्वसिद्धिव्याध्योः वारणाय मण्यादिसमवहित इति । आदिपदात् प्रतिबन्धकाभावेतर-
सकलदाहकारणलाभोऽतो न तद्व्यतिरेकमादायांशतः सिद्धसाधनम् । कारणान्तरवर्तिकारणताव-
मकरन्दः ।
पिण्डीभूत इति । कार्यानुकूलत्वं स्वकार्यानुकूलत्वम् । तदपि स्वनिमित्तकारणानुकूलत्वम् । तेन
कर्मानुकूलस्थितिस्थापकेन नार्थान्तरम् । कर्मणि तु वह्निः समवायिकारणमिति नोक्तदोषः । वह्नौ
स्थितिस्थापकानभ्युपगमे उद्देश्यसिद्ध्यर्थं तदिति ध्येयम् । अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिब-
न्धकाभावादिनाऽर्थान्तरवारणायादृष्टादिपदम् । यद्यपि गुरुमतेऽभावोऽधिको नास्त्येवेति समवा-
यिपदं व्यर्थं, तथापि परस्यार्थान्तरं स्यादिति तदुपात्तम् ।
करवह्नौति । अत्र चादृष्टपदं साध्ये त्याज्यम् । द्व्यणुकैकत्वेति । तत्समवायित्वस्य
तन्निरूप्यसमवायाश्रयत्वार्थकतया समवायिद्व्यणुकमादाय तत्र साध्यवत्त्वं बोध्यम् । मण्यादि-
समवहित इति । आदिपदात् प्रतिबन्धकाभावेतरसकलदाहकारणमभिमतमिति न तद्व्यतिरेके
टिप्पणी ।
धर्माभावात् इति । विशिष्टाभावस्यातिरिक्तविशेषणाद्यभाव एवाभ्युपगतोऽन्यस्य कादाचित्कत्व-
स्वाभावात् । विशेषाणाभावविशेष्याभावनिष्ठप्रत्यासत्तित्वस्येत्यर्थः । तथा च विशेषणाद्यभावसम्ब-
न्धेन प्रत्येकेन विशिष्टाभावस्य कारणत्वादिकं वक्तुमशक्यमिति भावः ॥ स्पर्शैकत्वादिमिति-
द्व्यणुक इति । त्रसरेणुपरिमाणे द्व्यणुकैकत्वस्य तत्स्पर्शे द्व्यणुकस्पर्शस्य जनकत्वात् तस्य कार्या-
नुकूलत्वम् स्वकार्यानुकूलेति विवक्षायां यद्यपि तयोर्न साक्षात् द्व्यणुककार्यत्वं तथापि द्व्यणुक-
स्पर्शादिद्वारा तदस्ति । द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापत्वात् इति । वह्नित्रसरेणु-
रूपकार्यानुकूलादृष्टातीन्द्रियत्रसरेणुरूपधर्म्मसमवायसम्बन्धित्वरूपस्य साध्यस्यास्ति सत्वन्तत्रेति
भावः । वस्तुतस्तु तत्समवायित्वं तन्निरूपितसमवायनिरूपकत्वमेव तथा च त्रसरेणुपरिमाणस्प-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२३
प्रकाशः ।
तो वा वह्निर्दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्मशून्यो, दाहजनकत्वात् , दाह्यासयुक्ताग्निवत् ।
अत्रानुकूलत्वं न स्थितिस्थापकेनार्थान्तरवारणाय, तत्र तदभावात् , क्रियाया वेगेनादृष्टवदात्मसं-
योगेन वोत्पत्तेः, किन्तु तथाभूतो धर्मः सिद्धयत्वित्येतदर्थम् , तच्च कारणतावच्छेदकसाधारणं नि-
रुक्तम् । अदृष्टवदात्मसंयोगवारणार्थमद्विष्टेति । न च तज्जनकत्वे मानाभावः, कार्यस्यादृष्टजन्यतया
व्यधिकरणगुणजन्यत्वात् । तस्य च तत्समानाधिकरणगुणजन्यत्वव्याप्तत्वात् , स्पर्शवद्वेगवद्द्रव्या-
प्रकाशिका ।
च्छेदकीभूतदाहानुकूलधर्मशून्यतामादाय सिद्धसाधनमिति । दाहजनकदशावृत्तीति । दाहज-
नकतादशायां वह्निवृत्तीत्यर्थः । तेन शून्यपदात् ध्वंसप्रागभावान्यतरलाभ इति नोक्तदोषः । हेतौ
च वह्नित्वं विशेषणमतो नाकाशादौ दाहजनके व्यभिचारः । न च तथापि दाहानुपहितवह्नौ व्य-
भिचारः, तत्राप्युष्णस्पर्शप्रागभावसत्त्वात् । न चैवमपि भाविसंयोगान्तरप्रागभावमादाय सिद्धसा-
धनमिति वाच्यम् । दाहानुकूलैकै कदाह्यसंयोगाद्याश्रयवन्हेरेव पक्षत्वात् । न च वह्निकर्म्मणः संयोग-
द्वारा दाहानुकूलत्वमिति तद्ध्वंसमादाय सिद्धसाधनमिति वाच्यम् । दाह्यकर्मजसंयोगाश्रयवन्हेरेव
पक्षत्वात् । केचित्तु शून्यपदं कादाचित्काभावपरं उक्तकर्माभावमादायोक्तदोष इति वृत्तीत्यन्तं विशे-
षणम् । कर्म च दाहोपधानकाले नास्तीति नोक्तदोष इत्याहुः । प्रतिबन्धकाभावेनार्थान्तरमिति ।
भावभूतेति । दाहजनकत्वादिति । तदनुपहितत्वादित्यर्थः । तेन नासिद्धिः । अत्रेति ।
कार्यानुकूलेत्याद्यनुमान इत्यर्थः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च स्थिति-
स्थापकस्य द्रव्यचतुष्टयवृत्तित्वप्रतिपादकगुणभाष्यविरोधः, तस्य वैशेषिकमतानुसारित्वात् , न्या-
यमते तद्विरोधस्याकिञ्चित्करत्वात् । तस्य चेति । अत्र यत् कार्यस्य व्यधिकरणयद्गुणजन्यं
तत्कार्यस्य तद्गुणस्य च समानाधिकरणो यो गुणः तज्जन्यमिति व्याप्तिः, तज्जन्यत्वं च तन्निमि-
त्तकारणत्वमतो न कपालरूपजन्यघटरूपे व्यभिचारः । तस्य तत्रासमवायिकारणत्वात् । कार्ये च
मूर्त्तवृत्तित्वं विशेषणमतो नेश्वरज्ञानजन्यास्मदादिज्ञाने व्यभिचार इति कश्चित् । तन्न । तथापि घ-
टादिरूपे व्यभिचारात् , ईश्वरज्ञानजन्यस्य तस्येश्वरघटसंयोगजन्यत्वात् तथासति क्षणद्वयं घट-
स्य नीरूपत्वापत्तावपसिद्धान्तात् । तस्मात् कारणत्वं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं विव-
क्षितमतो नेश्वरज्ञानमादाय व्यभिचार इति तत्त्वम् । अत्र चोभयसमानाधिकरणसंयोगजत्वं
व्यापकमतो न द्वित्वमादायार्थान्तरम् । अत एव च गुरुत्वजन्यपतनक्रियायां व्यभिचारवा-
रणाय व्यधिकरणपदम् । न च निमित्तकारणत्वविवक्षयैव तन्निरासः, असमवायिकारणभिन्नत्वं
हि प्रकृते निमित्तकारणत्वं तत्र चासमवायिकारणपदेन कारणैकार्थप्रत्यासन्नकारणमात्राभि-
धानं तावतैव कपालरूपजन्यघटरूपे व्यभिचारावारणादिति । निमित्तकारणपदेन गुरुत्वजन्य-
पतने व्यभिचारवारणात् । न चात्र व्याप्तावप्रयोजकत्वम् अप्रत्यासन्नस्याजनकत्वादिति दिक्।
मकरन्दः ।
णार्थान्तरम् । हेतुसिद्धियाधयोर्वारणाय । मणीति । वह्नौ तादृशात्यन्ताभावेनार्थान्तरप्रसक्तौ नेष्ट-
सिद्धिरित्येत आह । वृत्त्यन्तमित्येके । तच्चिन्त्यम् । भावभूतपदेनैव तन्निरासात् । केचित्तु
संयोगद्वारा वह्निकर्मणोऽपि दाहानुकूलतया तस्य च पिण्डीभूतवह्याभावाद्यार्थान्तरवारणाय तदिति ।
तस्य च संयोगानाश्यत्वेन तदानीमभावादित्याहुः । हेतुः फलोपधानाभाव इति नासिद्धिः । दृष्टान्ते
दाह्यसंयोगाभाव उभयसिद्धः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च 'स्थितिस्था-
'पकस्तु चतुर्षु वर्त्तमान'' इतिगुणभाष्यविरोध इतिवाच्यम् । वैशेषिकमते तथात्वादिति भावः ।
कार्यस्येति । ननु कार्यपदं यदि स्पन्दपरं तदा प्रकृतासङ्गतिः । स्पन्दस्यातथात्वात् ।
यदि च जन्यमात्रपरं तदा कपालरूपजन्ये घटरूपे व्यभिचार इति चेन्न । यत् कार्यं यदीयगुण-
१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां
प्रकाशः ।
भिघातजन्यक्रियायां तथा दर्शनात् । उष्णस्पर्शव्यावर्तनायातीन्द्रियेति । तत्त्वं च साक्षात्कारनिया-
मकप्रत्यासत्त्यनाश्रयत्वम् । प्रतिबन्धकाभावनिवारणाय भावभूतेति ।
उच्यते । अनुमानानां विपक्षबाधकाभावेनाप्रयोजकत्वम् । उभयसिद्धप्रतिबन्धकाभावेनैवोप-
पत्तेः । न च सहचारदर्शनव्यभिचारादर्शनाभ्यामेव व्याप्तिग्रहः । साध्ये शक्त्यतिरिक्तेति विशेषणा-
त्तेनैव हेतुना तत्सिद्धावेवं तत्तदतिरिक्तेतिविशेषणपरम्परातस्तादृशानन्तधर्मसिद्ध्यापत्तेः । न च घट-
वत् क्षितिः क्षितिवद्धट इतीश्वरानन्त्यवच्छक्त्यानन्त्यम् कार्यमात्रे नेश्वरत्वेन द्विकर्तृत्वेन वा कार-
णता, गौरवात्, किन्तु कर्तृत्वेनेति तदपादकाभावः । प्रतिकूलतर्कप्रतिघातश्च । शक्तेर्भावहेतुत्वे
शक्त्यनुकूलाप्यन्या शक्तिरेवं तत्तदनुकूलाऽप्यन्याऽन्येत्यनवस्थापातात् । भावभूतेति च व्यर्थम् ।
न च व्यापके न व्यर्थविशेषणता व्याप्यताग्राहक इव व्यापकताग्राहकेऽपि लाघवस्य सहकारित्वात् ।
द्वितीयाद्यनुमानेषु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः । तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वात् ।
प्रकाशिका ।
नन्वतीन्द्रियत्वं साक्षात्काराविषयत्वं लौकिकसाक्षात्काराविषयत्वं वा, आद्ये न्यायमतेऽप्रसिद्धिः
अन्ये परमते व्यावत्र्याप्रसिद्धिरत आह। तत्त्वञ्चेति । संयोगादिष्वन्यतमप्रत्यासत्त्यनाश्रयत्व-
मित्यर्थः । यद्वा साक्षात्कारपदं विषयजन्यज्ञानपरम्, विशिष्टाभावतया च न व्यर्थविशेषणता,
उभयेति । भट्टमतेऽभावस्यातीन्द्रियत्वाभिप्रायेणातीन्द्रियप्रतिबन्धकप्रतियोगिकाभावाभिप्रायेण
वा इदमुक्तम् । वस्तुतो भावभूतपदवदतीन्द्रियपदमपि व्यापके गौरवेण त्याज्यमेवेत्यभिप्रा-
येणैवेदम् । कारणमात्रपक्षकानुमान उपाधिव्यतिरेकस्य न सत्प्रतिपक्षोत्थापकत्वं भागासिद्धत्वा-
दित्याशयेनाह । द्वितीयादीति । वह्निपक्षकानुमानद्वयसंयोगपक्षकानुमानेष्वित्यर्थः । न च
पिण्डीभूत इत्यनुमाने संयोगपक्षकानुमाने च साध्याव्यापकत्वमुपाधेर्गुरुत्वस्थितिसंस्थापकवति
वृक्षादाविति वाच्यम् । उभयत्र कार्यानुकूलपदस्य दाहानुकूलार्थकत्वात् । न च तत्र तथा विव-
क्षायामात्मत्वोपाधेर्द्व्यणुके द्रव्यत्वोपाधेरेकत्वादौ साध्याव्यापकत्वाभिधानं ग्रन्थकृतो विरुध्येतेति
वाच्यम् । द्व्यणुकपदेनोभयत्र वह्निद्व्यणुकस्योक्तत्वात् । तदीयस्पर्शैकत्वयोश्चावयविमहत्त्वे
मकरन्दः ।
निमित्तकारणं तत् तदुभयसमानाधिकरणगुणजन्यमित्यत्र तात्पर्यात् । कपालरूपन्तु तत्रासम
वायिकारणमिति नोक्तदोषः । नचाजसंयोगाभावेनेश्वरज्ञानादिजन्यसुखादिषु व्यभिचार इति वाच्य-
म् । मूर्त्तवृत्तित्वस्य कार्यविशेषणत्वाद् घटादावीश्वरसंयोगहेतुत्वस्येष्टत्वात् । अत एव लीलावती-
प्रकाशे कण्ठरवेणैव तथोक्तम् अत एव मन्त्रपाठजन्यविषचलनेऽपि व्यभिचारो निरस्तः । अदृष्टा
द्वारकतन्वेन विशेषणाद्वा, मन्त्रस्याऽऽशुविनाशित्वेनाऽदृष्टद्वारकत्वात् । नचात्र विपक्षबाधकाभावः ।
अप्रत्यासन्नस्य जनकत्वेऽतिप्रसङ्गादिति दिक् ।
नन्वतीन्द्रियत्वं यदि साक्षात्काराविषयत्वं तदा अस्मन्मते अप्रसिद्धिः । लौकिकत्वविशेषणे
परस्य व्यावत्र्याप्रसिद्धिरित्यत आह तत्त्वञ्चेति । संयोगाद्यन्यतमप्रत्यासत्त्यनाश्रयत्वमित्यर्थः ।
साक्षात्कारपदं विषयजन्यज्ञानपरम् । साक्षात्कारथ सन्निकर्षविशेषणमिति न व्यर्थविशेषणते
त्यन्ये । अतीन्द्रियप्रतियोगिकाभावाभिप्रायेणाह । प्रतिबन्धकेति । भट्टमतेन वा ।
प्रथमानुमाने अतीन्द्रियस्यापि पक्षत्वादुपाधिः पक्षाव्यापकविपर्यय इत्यत आह । द्वितीया-
टिप्पणी ।
र्थानुकूलातीन्द्रियादृष्टद्व्यणुकैकत्वतत्स्पर्शानिरूपितो यः समवायस्तन्निरूपकत्वस्य स्वस्मिन्नपि
सत्त्वात् साध्याव्यापकत्वं बोध्यम् । तेन द्व्यणुकस्यादृष्टत्वेऽपि न क्षतिः । तुल्ययोगक्षेम-
त्वेऽपीति । एकसाधकसाध्यत्वेऽपि यथा कारणानि तादृशधर्म्मवन्ति कार्य्यत्वात् आत्मवदि-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२५
प्रसङ्गात् । कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वमिति ॥ १० ॥
स्यादेतत् । मा भूत् सहजशक्तिः, आधेयशक्तिस्तु स्यात्
बोधिनी ।
सङ्ग इति भावः । उत्तम्भकेनानुत्पादेऽपि नानुत्पादप्रसङ्ग इत्याशङ्क्याह-कालविशेषात्-इति ।
यदुत्तम्भकेन तदुत्पादे वर्णितं तदेवेति ॥ १० ॥
अपूर्वस्य भूतधर्मत्वे सहजा शक्तिर्मा भूद् दृष्टान्त आधेयशक्तिस्तु दृष्टान्तः स्यात् दुरपह्नव-
त्वात् तस्या इति पूर्वपक्षयति-स्यादेतत्-इति । अत्र च भूतानामेव स्वहेतुवशेनवातीन्द्रियाति-
प्रकाशः ।
अस्मत्पितृचरणास्तु, जनकत्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्धया नान्वयव्यतिरेकित्व-
म् । न च शक्तावेव तत्प्रसिद्धिरन्योन्याश्रयात् । नापि पण्डापूर्वेपरार्द्धसङ्ख्योस्तत्प्रसिद्धिः । अप्रत्य-
क्षयोः शब्दैकवेद्ययोस्तयोर्व्याप्तिग्रोहेकेण प्रत्यक्षेण साध्यहेतुव्यतिरेकस्य ग्रहीतुमशक्यत्वादित्याहुः १०.
प्रोक्षणजन्यः कालान्तरकार्यानुकूलोऽतीन्द्रियों धर्मोऽस्तीत्युभयसिद्धम् , स व्रीहिसमवेतो न
वेति नाधेयशक्तौ संशयः, ग्रन्थे प्रथमं संस्कारसाधनस्यार्थान्तरतापत्तेः, किन्तु प्रोक्षणं व्रीहिनिष्ठा-
प्रकाशिका ।
प्रयोजकतया दाहानुकूलत्वात् । अप्रत्यक्षयोरिति । न च मानान्तरात्तदुपस्थितौ मनसा जन-
कत्वाभावग्रहः । शब्दस्य सिद्धार्थकस्याप्रमाणत्वात् , तन्मतेऽनुमानस्य च व्याप्तिग्रहाधीनतया
तत्साधकानुमानान्तरापेक्षायामनवस्थानात् । उपमानस्य च नियतविषयत्वात् । यत्तु पण्डापूर्वपरा
र्द्धसंख्ययोरपि स्वध्वंसजनकतया तत्र व्यतिरेकप्रसिद्धिशङ्केति । तन्न । अभावस्य गुरुमतेऽधिक-
रणत्मकत्वात् । एतेन स्वनिष्ठस्य महत्त्वसमानाधिकरणोद्भूतरूपवत्वाभावस्य ग्रहे प्रत्यासत्तिघट-
कतया तयोः कारणत्वान्न तत्र व्यतिरेकप्रसिद्धिशङ्केत्यपास्तम् ॥ १० ॥
किन्तु प्रोक्षणमिति । जलसंयोगवारणायातीन्द्रियेति । व्रीहिनिष्ठत्वं च समवायेन विव-
मकरन्दः ।
दीति । न चात्रापि गुरुत्वस्थितस्थापकादिकमादाय वृक्षादौ साध्याव्याप्तिः । कार्यानुकूलत्वेन
दाहानुकूलत्वाभिधानात् । अगुरुत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वादित्याहुः । नान्वयेति ।
तन्मते केवलान्वयिनो हेत्वाभासत्वादिति भावः । अप्रत्यक्षयोरिति । न च मानान्तरात्तद्ग्रहः ।
तद्धि न शब्दः । तस्य सिद्धार्थत्वात् । नाप्यनुमानम्, जनकत्वसत्त्वे तादृशधर्मवत्त्वस्याऽऽवश्यक-
तया जनकत्वाभावेन साध्याभावोऽनुमेयः । जनकत्वाभावानुमानञ्च तादृशधर्माभावेन तादृशधर्मस्य
जनकतावच्छेदकस्य सत्त्वे जनकत्वस्यावश्यकत्वादित्यन्योन्याश्रयात् । अनवस्थानादित्यन्ये । उप-
मानस्य नियतविषयत्वादनभ्युपगमाच्चेति भावः । न च पण्डाऽपूर्वादौ स्वध्वंससाक्षात्कारजन-
कतया जनकत्वाभाव एव नेति वाच्यम् । अतीन्द्रियत्वेन योगिज्ञानस्य विषयाजन्यतया च
साक्षात्काराजनकत्वात् । तन्मते ध्वंसस्याधिकरणरूपतया तदसाध्यत्वाच्चेति भावः ॥ १० ॥
किन्त्विति । जलसंयोगेनार्थान्तरवारणायातीन्द्रियेति । न चादृष्टस्यापि स्वरूपसम्बन्धेन
टिप्पणी ।
त्यनुमानं क्रियते तथा कारणानि बहिरिन्द्रियाप्रत्यक्षाणि कारणत्वादात्मवदित्यपि कर्तुं शक्यते पक्षे
च व्यभिचारो न यथापूर्वानुमाने दोषस्तयोत्तरत्रापि स्यात् । पूर्वसाधनस्य साधना व्यापकत्वविरहे
उत्तरस्यापि तत्त्वं स्यादिति तुल्ययोगक्षेमत्वेनोपाधित्वसम्भवो यद्यपि तथापि पक्ष एव साधनाष्या-
पकत्वसन्देहेनोभयोः सोपाधित्वात् अनुकूलतर्कविरहे सन्दिग्धोपाधेरपि दूषकत्वादिति भावः॥१०॥
प्रोक्षणजन्यः कालान्तरकार्यानुकूलोऽतीन्द्रिय इति । अतीन्द्रियधर्मे गुरुत्वादौ
व्रीहिसमवेतत्वस्योभयसिद्धत्वेन विप्रतिपन्नत्वासम्भवात् प्रोक्षणजन्य इति । प्रोक्षणजन्यस्या-
तथाभूतस्य व्रीहिसमवेतत्वसिद्धावपि न प्रकृतसिद्धिः स्यादतः कालान्तरेत्यादि । प्रथमं सं-
स्यादेतत् । एतत् मा भूदित्यादि वक्ष्यमाणम् ।
१२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां
दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः । कथमन्यथा कालान्तरे तादृशाना-
बोधनी ।
शयशालित्वेनोत्पन्नानां भोगनियामकानुपपत्तावपि यागादिजन्यातिशयभाजां शरीरादिभूतानां त-
दुपपत्तेस्तेष्वोधीयतामपूर्वप्रोक्षणादिवन्न त्वात्मनीति भावः । आधेयशक्तिसद्भावे प्रमाणमाह ।
दृश्यते हि-इति । व्रीहीन् प्रोक्षतीति द्वितीयाश्रुत्या प्रोक्षणस्य व्रीहयः कर्मत्वेनावगम्यन्ते । क्रि-
याजन्यफलभागित्वं च कर्मत्वम् । अतः प्रोक्षणादिना व्रीह्यादिषु संस्कारापरनामा शक्तिराधीयत-
इत्यत्र श्रुतिरेव प्रमाणमिति । तदनुग्राहकं तर्कमाह—कथम्-इति । यदि तद्गतः कश्चिदतिशयो
प्रकाशः ।
तीन्द्रियधर्मजनकं, न वा ? । व्रीहिगुरुत्वजनके तज्जनकत्वं प्रसिद्धम् । तत्राधायकं शक्तावाह ।
दृश्यते हीति । ननु व्रीहीन् प्रोक्षतीत्येतावन्मात्रं श्रूयते, न तु प्रोक्षणस्य संस्काराधायकत्वमपी-
त्यत आह । कथमिति । कालान्तरेऽवघातादौ प्रोक्षितस्यैव व्रीहेर्विनियोगो न स्यादित्यवश्यं
प्रोक्षणजन्यः संस्कारो व्रीहिनिष्ठः स्थिरोऽभ्युपगन्तव्य इत्यर्थः । नन्ववघातादौ कथं प्रोक्षितस्यैव
व्रीहेरन्वयः, व्रीहीनवहन्तीत्यस्य व्रीहिमात्रान्वयेऽप्युपपत्तेः । अथावघाते व्रीहिविशेषाकाङ्क्षायां
प्रोक्षितानामेवान्वयो व्यक्तिवचनानां सन्निहितविशेषपरत्वमिति न्यायात् । अन्यथा प्रकरणोपस्थि-
तंहाने तदन्योपस्थितिकल्पने च गौरवंमिति चेत् । तर्ह्येकस्य द्वयं यत्र प्रोक्षणं तत्रावघातो, न तु
प्रकाशिका ।
क्षितम् । अन्यथादृष्टस्यापि स्वरूपसम्बन्धेन व्रीहिनिष्ठतया सिद्धसाधनापत्तेः । तटस्थः शङ्कते ।
मकरन्दः ।
व्रीहिनिष्ठत्वाभ्युपगमात् सिद्धसाधनम् । व्रीहिसमवेतेत्यर्थात् ।
तटस्थः शङ्कते ॥ नन्विति ॥ प्रोक्षणस्य कालान्तरभाविफलजनकत्वे मानाभावान्न व्यापार-
टिप्पणी ।
स्कारसाधनस्यार्थान्तरतापत्तेरिति । पश्चाद्विप्रतिपाद्य संस्कारसाधनस्यार्थान्तरत्वं न
स्यात् प्रथममिति । प्रोक्षणजन्यत्वेन संस्कारसाधनस्येत्यर्थः । तथा हि सिद्धस्यैव पक्षत्वेन सिद्धे-
प्रोक्षणजन्यातीन्द्रियधर्मे व्रीहिसमवेतत्वं विप्रतिपन्नं सत् साधनीयं तत्र प्रोक्षणजन्यत्वेन संस्कार-
साधनस्यार्थान्तरत्वं तस्य प्रकृताननुगुणत्वात् , तादृशसंस्कारस्य सिद्धत्वाच्च, “दृश्यते हि”त्यादि-
ग्रन्थस्येदानीं व्रीहिनिष्ठत्वसाधंकत्वे “न चे”त्यादिना ग्रन्थेन संस्कारेऽन्यथासिद्धिशङ्कायामप्रयोज-
कत्वं स्यात् , द्वितीये तु प्रोक्षणेऽतीन्द्रियधर्मजनकत्वं विप्रतिपन्नं तत्साधनं न प्रोक्षणजन्यत्वेन सं-
स्कारसाधनं विना, तादृशधर्मस्यैवासिद्धत्वे व्रीहिनिष्ठातीन्द्रियधर्मजनकत्वस्य बाधितत्वादित्या-
लोचनीयम् । प्रोक्षितस्यैव व्रीहेर्विनियोग इति । प्रोक्षणस्य तदानीमविद्यमानत्वात् तेनातिश-
याजननाच्च प्रोक्षिताप्रोक्षितयोरविशेषादिति भावः । नन्ववघातादौ कथं प्रोक्षितस्यैवेति ।
वादिनापि प्रोक्षितस्यैवावघातस्वीकारात् तटस्थस्येयं शङ्का । व्रीहिमात्रान्वयेऽप्युपपत्तेरिति ।
तथा च प्रोक्षणस्यैवाकारणत्वे कुतस्तन्निर्वाहायातिशयकल्पनमिति भावः। व्यक्तिवचनानां सन्नि-
हितेति । ननु बहुव्रीहीनवहन्तीत्यत्र व्रीहिपदस्य व्यक्तिवचनत्वमेवेति कुतोऽवधार्यत इति चेद् ,
जातिपरत्वे बहुवचनवैयर्थ्यादिति । तदन्योपस्थितिकल्पने गौरवमितीति । तथा च
प्रोक्षणविशिष्टेऽवघातान्वयेऽसति बाधके उद्देश्यतावच्छेदकविधेययोः प्रयोज्यप्रयोजकभावनियमात्
प्रोक्षणेऽवघातजनकत्वप्रतीतिसम्भवादिति भावः । तर्ह्येकस्य द्वयं यत्र प्रोक्षणमिति । तर्हि-
दृश्यते=अनुमीयते । अन्यथा=संस्कारं विना । तादृशानामेवप्रोक्षितानामेव।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२७
मेव कार्यविशेषोपयोगः । न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति
बोधनी ।
नाधीयेत प्रोक्षितानामेव पुरोडाशादिकार्योपयोगो नान्येषामिति न स्यादप्रोक्षितेभ्यः तेषामविशेषा-
दिति । प्रोक्षणादिस्वरूपसहकृतानामेव कार्योपयोगोऽस्तु, अन्यथादृष्टकल्पनानुपपत्तेरित्याशङ्कयाह-
न च-इति । सन्तु तर्हि प्रोक्षणादिप्रध्वंसादयः कालान्तरेऽप्यनुवर्त्तमानाः सहकारिण इत्याशङ्कयाह-
प्रकाशः ।
प्रोक्षणविशिष्ट इति तस्य कारणत्वाज्ञानान्न तज्जन्यातिशयकल्पनम् । प्रोक्षिता व्रीहयोऽवघाताय कल्प-
न्ते इति वाक्यशेषादिति चेत् । न । तेनाप्यतीतप्रोक्षणे व्रीहाववघातान्वयो बोध्यत इति प्रोक्षणध्वं-
सस्य हेतुतापत्तेः । मैवम् । प्रोक्षणमवघातजनकं प्रमाणतस्तदर्थमुपादीयमानत्वाद् व्रीहिवत् । न
च हेत्वसिद्धिः । अप्रोक्षितेऽवघातासम्भवादिति भावः ।
एतावता तज्जन्यव्यापारमात्रसिद्धावपि न संस्कारः सिद्ध्यति, ध्वंसेनैवोपपत्तेरित्याशङ्कय
प्रकाशिका ।
नन्विति । तथा च न प्रोक्षणस्यावघातजनकत्वमिति न व्यापारकल्पनेति भावः । प्रमाणत
इति । अवघातोद्देश्यकप्रमाणमूलकोपादानविषयत्वादित्यर्थः । ननु प्रमाणमिदमेवान्यद्वा नाद्यः,
अन्योन्याश्रयात् । नान्त्यः, तदभावात् , भावे वा तेनैव सिद्धसाधनादिति चेत् । न । "दर्शपू-
र्णमासाभ्यां यजेत् स्वर्गकाम" इत्यधिकारविधिना निरपेक्षेण तयोः कर्त्तव्यतायां बोधितायामिति-
कर्त्तव्यताकाङ्क्षायां व्रीहीनित्यादिविधिप्रवृत्तिः, तेन चोपस्थितस्वावघातद्वारा 'प्रोक्षणस्य परमापूर्व-
जनकत्वबोधनात् संसर्गविधया च जनकत्वमवघातं प्रति प्रोक्षणस्य शब्देन बोधितमिति न तत्प्र-
कारकानुमाने सिद्धसाधनमित्याशयात् । वस्तुतो व्यक्तिवचनन्यायेन व्रीहेरवघातकारणत्वे बोध्यमा-
नउत्सर्गसहकारेण प्रोक्षणस्य विशेषणत्वं बोध्यत इति प्रोक्षणस्यावघातकारणत्वे प्रमाणं तदुक्तं अप्रो-
मकरन्दः ।
त्वेनातिशयकल्पनमिति भावः ॥ प्रमाणत इति ॥ प्रमाणमूलकावघातोद्देश्यकोपादानविषयत्वादि-
त्यर्थः । ननु प्रमाणमिदमेव तदुपादानहेतुरन्यद्वा ? । नाद्यः । हेतुज्ञाने सत्येतत्प्रमाणप्रवृत्तिरेतत्प्रमा-
णप्रवृत्तौ च तद्धितहेतुज्ञानमित्यन्योन्याश्रयात् । नापरः। तदसत्त्वात् । सत्त्वे वा तन्न साक्षादुपादा-
नहेतुः । प्रवृत्तेर्ज्ञानजन्यत्वात् । किन्तु प्रोक्षणमवघातजनकमिति ज्ञानद्वारा । तथा च सिद्धसाधन-
मिति । अत्र वदन्ति । प्रकरणादिसहकृतवेदस्यैवावघातजनकत्वबोधकत्वमिति । सिद्धान्तानुसारा-
देतदुक्तम् । संसर्गविधया च ततस्तद्धेतुत्वावगम इति तत्प्रकारकबुद्ध्यभावान्न सिद्धसाधनावकाशः ।
शब्दादेरपि परं प्रति लिङ्गविधया प्रयोगाच्चेति । वस्तुतो व्यक्तिवचनन्यायेनावघाते प्रोक्षितव्रीहेरन्वये
प्रोक्षणस्य बाधकं विना विशेषणत्वं, नोपलक्षणत्वमिति । एतदभिप्रायेणाह । अप्रोक्षित इति ।
टिप्पणी ।
तथापीत्यर्थः । एकस्य एकस्यैवेत्यर्थः । द्वयं प्रोक्षणावघातौ । सम्पन्नमिति शेषः । तदेव विवृणोति ।
यत्रेति । न तु प्रोक्षणविशिष्टेति । अवघात इति शेषः । तस्य कारणत्वाज्ञानान्न तज्जन्याति-
शयकल्पनमिति । तस्य प्रोक्षणस्येत्यर्थः । प्रोक्षणविशिष्टेऽवघातबोधेऽप्रोक्षितानवघातप्रोक्षितावघाता-
भ्यामन्वयव्यतिरेकाभ्यां प्रोक्षणोवघातजनकताज्ञानं स्यात्तदेव नेति भावः । कारणत्वानुपपत्त्यैव त-
त्कल्पनादिति भावः । वाक्यशेषादिति चेन्नेति । शङ्कानिवर्त्तकं वाक्यं वाक्यशेषः । शङ्का ह्यत्र
व्रीहिन् प्रोक्षति व्रीहिनवहन्त्यादित्यत्र किं व्रीहिः प्रोक्षितव्यः अवघातोऽपि कर्तव्यः । किं प्रोक्षितव्री-
हिरवहन्तव्य इति । अतीतप्रोक्षण इति । प्रोक्षणध्वंसविशिष्ट इत्यर्थः ।
ते=व्रीहयः ।
१२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां
साम्प्रतम्। तेषु चिरध्वस्तेष्वपि कार्योत्पादात्। नापि प्रध्वंससहायास्ते तथा। एवं
हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु, कृतमपूर्वकल्पनया। तेषामनन्तत्वाद-
नन्तफलप्रवाहः प्रसज्यत इति चेत् , अपूर्वेऽपि कल्पिते तावानेव फलप्रवाह
बोधनी ।
नापि-इति । तथाकालन्तरकार्यकारिण इत्यर्थः । अतिप्रसङ्गपरिहारमाशङ्कते—तेषाम्-इति ।
यागादिप्रध्वंसानामेव फलसाधनत्वे तेषामनन्तत्वेन फलविनाश्यत्वाभावादुत्पन्नेऽपि पुनरपि तत
॰एव फलोत्पादप्रसङ्गेन फलप्रवाहोऽनन्तः स्यात् , तत्र च कर्मान्तरफलोपभोगोऽपवर्गश्च न स्या-
ताम् ; अतो यागादिजन्यमपूर्वमवश्यमभ्युपगन्तव्यमिति । तर्हि कल्पितमप्यपूर्वं किञ्चित् स्वर्गा-
दिसुखमुत्पाद्य नानन्तरमेव नश्यति सहस्रसंवत्सरादिभोगश्रुतेः, तेन परिमितफलप्रवाहस्तदापि न
स्यादित्याह—अपूर्व-इति । यदि तु परिमितफलप्रवाहजनकत्वमपूर्वस्य स्वभावः स तर्हि प्रध्वंस-
प्रकाशः ।
निराकरोति । नापीति । तेषामिति । ननु ध्वंसव्यापारत्ववादिनां व्यापारस्य यावत्सत्त्वं फलो-
त्पादकत्वाप्रसिद्धिः । न च व्यापारकालस्य फलोत्पत्तिनियमेन फलानन्त्यापत्तिः । उत्तरकालीन-
कीर्त्तनादिनाश्यपूर्वे व्यभिचारात् । मैवम् । विवादाध्यासितः कालो यदि चैत्रस्वर्गोत्तरत्वे सति
प्रकाशिका ।
क्षितेऽवघातासंभवादिति । सिद्धसाधननिरासस्तु पूर्ववदेवेति । ध्वंसव्यापारवादिनामिति ।
प्रकृतमपेक्ष्य वस्तुतः सर्वेषामेवेदमप्रसिद्धमन्ततो व्यापारोत्पत्तिकाल एव व्यभिचारात् । उत्तर-
कालीनकीर्त्तनेति। जनितफलव्यापारकालगर्भा व्याप्तिराशङ्कितुरभिमतत्यजनितफलकीर्त्तनानाश्य-
पूर्वस्थले न व्यभिचार इत्युत्तरकालीनत्वं कीर्त्तनविशेषणम् नाश्यपूर्वस्य किञ्चित्फलजननोत्तरकाली-
नत्वं च तदर्थः । न च व्यापारे भोगतेरनाशकालानाश्यत्वमपि विशेषणं किञ्चित्फलजननोत्तरं
प्रतिकृत्यापूर्वप्रतिरुद्धकृत्यापूर्वे व्यभिचारात् । न च तत्रापूर्वस्य प्रथमस्य नाश एवेति वाच्यम् ।
तथा सति प्रतिकृत्यापूर्वेण फलजननापत्तेः । न च सुन्दोपसुन्दन्याय इति वाच्यम् । मानाभा-
वात् । आपाततः सन्देहेऽप्यनैकान्तिकसन्देहाच्च विवादाध्यासित इति । कालमात्रपक्षत्वे
चैत्रस्वर्गपूर्वकाल आपादकासिद्धेश्चैत्रस्वर्गाधिकरणकाले च इष्टापत्तिरिति तद्वारणाय प्रथमविशेषणम्
तदर्थश्च तद्व्यापारजन्यचैत्रस्वर्गोत्तरं यथाभूतस्वर्गानधिकरणम् । अजनितस्वर्गव्यापारकाले व्य-
भिचार इति सत्यन्तम् , किञ्चित्स्वर्गोत्तरत्वं तत्रापीति सत्यन्ते चैत्रपदं तद्व्यापारजन्यस्वर्गोत्तरत्वे
मकरन्दः ।
: कीर्त्तनादोति । न च शब्दबोधितनाशकनाश्यत्वं विशेषणम् । प्रतिकृत्यापूर्वप्रतिरुद्धे
कृत्यापूर्वे व्यभिचारात् । न च तत्र प्रतिरोधो नाशो वेति कथं निर्णय इति वाच्यम् । तथापि
सन्दिग्धानैकान्तादिति भावः । विवादाध्यासित इति । उभयसिद्धचैत्रस्वर्गाधारकालोत्तरकाल
इत्यर्थः । तेन कालमात्रपक्षत्वे स्वर्गकालभाग इष्टापत्तिः । तत्पूर्वकाले सत्यन्तापादकासिद्धिरिति
दूषणमलग्नकं बोध्यम् । स्वर्गपूर्वकाले व्यभिचारादाह सत्यन्तम् । किञ्चित्स्वर्गोत्तरत्वं तत्रापीत्यत-
उक्तं, चैत्रेति । तद्व्यापारजन्यस्वर्गोत्तरत्वे सतीत्यर्थः । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्ग-
तेषु=मन्त्रादिषु । तथा=कार्यविशेषोपयोगिनः । ननु प्रोक्षणादीनां परमापूर्वं प्रत्येव हेतुतया
तस्य ध्वंसव्यापारकत्वेऽपि परमापूर्वहेतुयागादिक्रियायाः कालान्तरेऽसत्त्वात् फलानन्त्यापत्त्य-
सम्भवात् तत्र तदेवास्तु यागस्य ध्वंसव्यापारकत्वे व्यापारमात्रोच्छेद्यस्वर्गादिफलस्यानन्त्यापत्तिः
स्यादिति न तत्रतद्वक्तुमुचितमिति कः प्रतिबन्ध्यवकाश इति मीमांसकं प्रत्याशङ्कते । तेषामिति ।
अनन्तेति । न अन्तो ध्वंसो यस्य सोऽनन्तः ध्वंसप्रतियोगीति यावत् । प्रवाहेऽनन्त
त्वञ्च प्रागभावव्याप्यध्वंसप्रतियोगित्वम् ।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२६
इति कुतः । अपूर्वस्वभावादिति चेत्तुल्यमिदमिहापि । तावतापि तत्प्र-
ध्वंसो न विनश्यतीति विशेषः ।
बोधनी ।
स्यापि भविष्यतीति शङ्कोत्तराभ्यामाह-अपूर्व-इति । तावता-इति । परिमितफलोत्पादकत्वाभ्यु-
पगमे नामान्तरेणापूर्वमेवाङ्गीकृतं स्यादित्याशङ्क्य फलविनाश्यत्वाविनाश्यत्वाभ्यां विशेषोऽस्तीत्याह-
तावता-इति ॥
प्रकाशः ।
तत्स्वर्गजनकयागव्यापारवान् स्यात् , तत्स्वर्गाधारः स्यादित्यापादनार्थत्वात् । अपूर्वेति । प्रति-
नियतकालावच्छिन्नस्वर्गजनकस्वभावत्वादित्यर्थः । तुल्यमिति । तर्हि तद्ध्वंसस्यापि स एव
प्रकाशिका ।
सतीति च सत्यन्तार्थः । अन्यथैकस्मिन्नपूर्वे जनितफले चैत्रस्य नष्टे सति चैत्रस्यैव स्वर्गजनकेऽ-
पूर्वान्तरेऽजनिफले तिष्ठति व्यभिचारापत्तेः । अजनितफलेऽपूर्वे नष्टे सति व्यभिचार इत्युत्तर-
दलम् । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्गपूर्वकाले व्यभिचार इति तदिति । सुखप्राप्त्यनन्तरं
मे राज्यं भूयादिति कामनाकृतप्रयागस्नानजन्यापूर्वेण सुखजनने कृते व्यभिचार इति यागेति ।
मकरन्दः ।
पूर्वकाले व्यभिचारादाह । तदिति । तथा च फलोपहितयागव्यापारस्य यावत् सत्त्वं फलोपपा-
दकत्वमिति नियमेन फलानन्त्यापत्तिरिति तात्पर्यम् । अन्यस्वर्गाधारत्वेनेष्टापत्तिवारणायापाद्ये
तदिति । तद्व्यापारजन्यस्वर्गाधारः स्यादित्यर्थः । आद्यस्वर्गोत्तरतत्स्वर्गाधारकालो दृष्टान्तः ।
टिप्पणी ।
क्तप्रत्ययस्य भूतार्थकत्वात् प्रोक्षणध्वंसस्य हेतुतापत्तेरिति । प्रोक्षणध्वंसविशिष्टेऽवघातान्वये
तेन सहान्वयव्यतिरेकाभ्यां ध्वंसस्यैव कारणत्वप्रतीतेः । प्रमाणतस्तदर्थमुपादीयमानत्वादिति
[पृ. १२७] । अवघातोद्देश्यकप्रमाणमूलकतदर्थोपादानविषयत्वादित्यर्थः । नन्ववघातार्थप्रोक्षणप्रवृत्तेर्मू-
लभूतं किं प्रमाणम् ? उच्यते "व्रीहीन् प्रोक्षति" 'व्रीहिनवहन्त्यात्" इति वाक्यद्वयम्, प्रोक्षिता व्रीह
योऽवघाताय कल्पन्त इति वाक्यशेष एव वा । तथा हि व्यक्तिवचनन्यायेनोच्चवचनाभ्यां यत्र प्रो-
क्षण तन्नावघाते बोधित एवं वाक्यशेषाच्च प्रोक्षिते तद्बोधिते प्रोक्षणेऽवघातपूर्वत्वावगतौ जनकत्वा-
ग्रहेऽपि पूर्वस्य तस्यासत्त्वे परोऽवघातः कथमित्यतः प्रोक्षणगोचरावघातार्थं जनानां प्रवृत्तिः प्र-
माणमूलिकेति भावः । अवघातासम्भवादिति । अवघातादर्शनादित्यर्थः । ननु ध्वंसव्यापार-
त्वादिनामिति । इदन्तु प्रकृतमपेक्ष्य, वस्तुतः सर्वेषामेव यावत्सत्त्वं व्यापारस्य फलोत्पादक-
त्वमप्रसिद्धमेवेति बोध्यम् । फलोत्पादकत्वाप्रसिद्धिरिति । तथा च व्यापारस्य यावत्सत्त्वं
फलोत्पादकत्वनियमो यदि स्यात् तदैवानन्तफलप्रवाहः प्रसज्येत, तदेव नेति भावः । न च व्या-
पारकालस्य फलपूर्वत्वेति । व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वाभावेऽपि यावतो व्यापार-
कालस्य फलपूर्वत्वमस्त्येव । न च प्रायशो व्यापारस्य फलपूर्वक्षणस्थायित्वेन तत्रैव व्यभिचारः फलो-
त्पत्तिकक्षणान्यत्वेन विशेषणीयत्वादित्यनुशयेनाह । व्यापारेत्यादि । फलानन्त्येति । तथा च
ध्वंसस्य व्यापारत्वे फलोत्तरकालस्यापि व्यापारकालत्वेन तस्य फलपूर्वत्वरक्षार्थं तदुत्तरं फलं स्वी-
अपूर्वस्वभावादिति । अत्र स्वभावेत्युपलक्षणम् कालविशेषघटितेश्वरेच्छातोऽपि नियमः
स्यादेव । एवं यज्ञानां कालविशेषावच्छिन्नफलान्वयित्वेनेच्छाविषयतया तदिच्छाजन्यत्वमपि निया-
मकं स्यादेवदुभयमपि ध्वंसपक्षेऽपि तुल्यमेवेति । तुल्यमिति । इदम् = स्वभाववर्णनम् । इहापि।
ध्वंसव्यापारत्वपक्षेऽपि । तावतापि = फलमुत्पाद्यापि । न विनश्यति = अपूर्वं तु विनश्यतीति शेषः ।
१७ न्या० कु०
१३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां
स्यादेतत् । उपलक्षणं प्रोक्षणादयो, न तु विशेषणम् । तथा चाविद्यमाने
रपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते । यथा गुरुणा टीका कुरुणा क्षेत्र-
मिति चेत् । तदसत् । न हि स्वरूपव्यापारयोरभावेऽपि उपलक्षणस्य कारणत्वं-
बोधनी ।
स्यादेतत्-इति । यदि प्रोक्षणादयो विशेषणं भवेयुस्तदा कार्यान्वयिन एव विशेषणत्वात्
कार्यकाले तेषामसत्त्वेन विशेषणत्वायोगाद् विशिष्टस्य कारणत्वं न सिध्येत् । तेषां तूपलक्षणत्वे
बुद्धिसन्निहितानामेवेतरव्यवच्छेदेन विशेष्यविषयबुद्धिजननद्वारेण कार्योपयोग इत्यविद्यमानसत्त्वेऽपि न
कश्चिद् दोषः । अविद्यमानस्यैवोपलक्षणत्वे तदुपलक्षितस्य कार्यविशेषोपयोगे च दृष्टान्तः-यथा-
इति । अविद्यमानेनैव हि गुरुणा कुरुणा च प्रभाकरकुरुक्षेत्रत्वोपलक्षिते टीकाक्षेत्रे तेषु कार्यविशे-
षेषूपयुज्येते-यथा-इति । तदस्र्दिति । उपलक्षणत्वे प्रोक्षणादीनां कार्यन्तरोपयोगिव्रीह्युद्देशेन
विधानेन तत्कार्येऽपि साधनत्वावगमात् कार्योत्पत्तिं यावत् स्वरूपेण वा स्वोत्पादितातिशयद्वारेण
वा तेषां सत्त्वमङ्गीकार्यम् । अन्यथातिप्रसङ्गादिति । कथं तर्ह्यसत एव गुर्वादेरुपलक्षणत्वेन कार-
प्रकाशः ।
स्वभाव इत्यग्रे सन्नपि न स्वर्गोत्पादक इत्यर्थः । अथ यागध्वंसो न व्यापारः, प्रतियोगिध्वंसयोरे-
कुत्राजनकत्वादुपजीव्ययागकारणत्वभङ्गापत्तेः, प्रत्युत प्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रति-
योगित्वादिति मतम् । तदपि तुल्यमिति भावः ।
स्यादेतदिति । यथाऽन्यत्रातीतेनाप्युपलक्षणेनोपलक्ष्यव्यावृत्तिबुद्धिस्तथा प्रोक्षणेनापि व्रीहे-
रिति तादृशानामेवोपयोगोऽन्यथासिद्ध इत्यर्थः । न हीति । अन्यत्राप्यतीतेनोपलक्ष्यव्यावृत्तिबोधो-
न जन्यते । स्वरूपव्यापारयोरसत्त्वात् । किन्तु तज्ज्ञानेनेत्यर्थः । तर्हि तज्ज्ञानमेव, तज्जन्यं स्या-
प्रकाशिका ।
यागपदेन चात्र स्वर्गमात्रहेतुक्रिया विवक्षितेति नोक्तदोषः । सा पि च निरन्तरैकसन्तानापन्नस्व-
र्गमात्रजनिका विवक्षितेति नानाजन्मव्यापकस्वर्गजनकापूर्वस्थले न व्यभिचारः । अन्यस्वर्गाधार-
त्वेनेष्टापत्तिवारणायापाद्ये तदिति । तद्व्यापारजन्येति च तस्यार्थः । दृष्टान्तश्चात्र तज्जन्यैकस्वर्गो-
त्तरकालस्तद्व्यापारजन्यद्वितीयस्वर्गकालः ।
टिप्पणी ।
कार्यम्, एवं तत्क्षणस्यापि तादृशकालत्वेन एवं तदुत्तरक्षणस्यापि तथात्वेन तत्र तत्र तदनुरोधे-
न फलधाराप्रसक्तिरिति भावः । जनितफलव्यापारगर्भा व्याप्तिराशङ्कितुरभिमतत्यजनितफल-
कीर्त्तनादिनाश्यापूर्वे न व्यभिचार इत्यत उत्तरकालीनत्वं कीर्त्तनविशेषणम्, किञ्चित्फलजननउत्तर-
कालीनकीर्त्तनेति तदर्थः । विवादाध्यासितः काल इत्यादि । कालमात्रस्य पक्षत्वे स्वर्गपूर्व-
काल आपादकासिद्धिः, स्वर्गकाल इष्टापत्तिरित्यतो विवादाध्यासित इति कालविशेषणम्, तदर्थश्च
तद्व्यापारजस्वर्गोत्तरत्त्वे सति तथाभूतस्वर्गाधिकरणत्वमिति । स्वर्गापूर्वे, एवं चैत्रस्य जनितफ-
लके नष्टेऽजनितफलके तिष्ठत्यपूर्वे, एवं कालान्तरवर्त्तिस्वर्गापूर्वे एवं जनितस्वर्गापूर्वनाशकाले
एवं तत्रैव स्वर्गान्तरजनकव्यापारकाले, एवं स्वर्गोत्तरं मे राज्यं भूयादिति कामनया कृतप्रयागस्ना-
नजन्यापूर्वे जनितस्वर्गे व्यभिचारवारणाय क्रमेण सत्यन्तम् । चैत्रीयतद्व्यापारजन्यार्थकं चैत्रपदम् ।
स्वर्गपदोत्तरदलं चैत्रीयतद्व्यापारजन्यार्थकं तत्प ' पूर्वपदस्य स्वर्गमात्रजनकार्थकत्वे तात्पर्य्यग्रा-
हकं यागपदसुपादेयं स्वर्गान्तरमादायेष्टापत्तिवारणायापाद्ये तदिति ध्येयम् । तदपि तुल्यमितीति ।
प्रोक्षणध्वंसेऽपि तुल्यमित्यर्थः । यथान्यत्रातीतेनापीति । अविद्यमानस्य कारणत्वमत्यन्त्यमेवा-
लीकमित्येतो मूलग्रन्थ्या व्याचक्षते यथेति । उपयोगोऽन्यथासिद्ध इति । संसारं विनापि
: विद्यमानं सत्प्रयोजकं विशेषणमेव, उपलक्षणन्त्वविद्यमानमपि प्रयोजकमित्याह । उपलक्षण-
प्रथमस्तवके ] अपूर्व्वस्य चेतनधर्म्मत्वाक्षेपः । १३१
कश्चिदिच्छति, अतिप्रसङ्गात् । व्यवहारमात्रन्तु तज्ज्ञानसाध्यं, न तु तत्साध्यम् ।
तज्ज्ञानमपि स्वकारणाधीनं, न तु तेन निरन्वयध्वस्तेन जन्यते । अस्तु वा तत्रा
प्यतिशयकल्पना किन्नश्छिन्नम् ! । यद्वा, यागादेरप्युपलक्षणत्वमस्तु तदुपलक्षितः
कालो यज्वा वा स्वर्गादि साधयिष्यति, कृतमपूर्वेण । न च देवदत्तस्य स्वगुणा-
ऽऽकृष्टः शरीरादयो भोगाय, तद्भोगसाधनत्वात्, स्रगादिवदित्यन्वयबलादपू-
र्व्वसिद्धेर्नाविशेष इति साम्प्रतम् । इच्छाप्रयत्नज्ञानैर्नार्थायोगं सिद्धसाधनात् । न
च तद्रहितानामपि भोग इति युक्तिमद्, येन ततोऽप्यधिकं सिद्ध्येत् । नापि स्व-
गुणोत्पादिता इति साध्यार्थः, मनसाऽनैकान्तिकत्वात् । नापि कार्य्यत्वे सतीति
विशेषणान्न हेतुः, तथासत्युपलक्षणैरेव सिद्धसाधनात् । असतां तेषां कथमुत्पाद-
बोधनी ।
णत्वमित्यत्राह—व्यवहार-इति । न तावद् गुर्वादिनो टीकादौ किञ्चित्कार्यं क्रियते किन्तु तदी-
यत्वेन व्यवहारमात्रमेव तत्रास्ति, तदपि तेन न क्रियते किन्तु गुर्वादिज्ञानेन, तज्ज्ञानमप्याप्तवादि-
कारणाधीनं न त्वनुत्पादितव्यापारध्वस्तेन गुर्वादिना जन्यते; प्रत्यक्षज्ञान एव ह्यर्थः कारणं नान्य-
त्रेति भावः । अथ गुर्वादिनापि टीकादौ तत्तत्कार्योपयुगुणः कश्चिदाधीयतामतिशयः, न तेन संस्का-
रवादिनामस्माकं काचित् क्षतिः, भवतस्तु साध्यविकलो दृष्टान्तः स्यादित्यभिप्रेत्याह—अस्तु
वा-इति । यदि वा प्रोक्षणादीनामतिशय मन्तरेणोपलक्षणत्वेन कारणत्वं स्यात् चेत् तदा यागादी-
नामपि सत्वात्प्रसङ्गादपूर्व दत्तजलाञ्जलि स्यादित्याह—यद्वा-इति । ननूपलक्षणत्वेन यागादीनां
फलसाधनत्वोपपत्तावपि प्रमाणवलादेव तत्रापूर्वसिद्धिरित्यत्राह—न च इति । स्रगादयो हि स्व-
गुणेन प्रयत्नादिना सन्निधापिता भोगाय भवन्ति, तथा पश्चादयोऽप्यपूर्वाख्येन गुणविशेषेण सन्नि-
धापिता इत्यपूर्वसिद्धेः प्रोक्षणादिभ्यो यागादीनां नाविशेषः । इच्छा-इति । कचिद् ज्ञानेच्छाप्रयत्नैः
समुदितैरुपगृहीताः पश्वादयो भोगाय भवन्ति । कचित् त्वन्यतमेन यथा निदाघतप्तस्य मेघच्छा-
याद्यः, न तेन तदतिरिक्तापूर्वसिद्धिरिति । यदीच्छादेर्व्यतिरेकेऽपि भोगः स्यात् ततस्तदतिरिक्तं
सिध्येत् । न त्वेवमस्तीत्याह-न च-इति । इच्छाभावे भोगत्वमेव न स्यात्, इष्टत्वलक्षणात् सुख-
प्रकाशः ।
दित्यत आह । तज्ज्ञानमपीति । ननु स्वकारणमपि तदेवेत्यत आह । न त्विति । निरन्वयध्व-
स्तेन=अनुत्पादितव्यापारध्वस्तेनेत्यर्थः । तत्रापीति । उपलक्षणाभिमतेऽपीत्यर्थः । स्रगादिस्त-
न्निर्मितो दृष्टान्तः । स्वगुणाकृष्ट इति । स्वगुणसहकारिण इत्यर्थः, स्वगुणोत्पादितां इति
वा, आद्ये, इच्छेति । अन्त्यमाशङ्क्य निराचष्टे । नापीति । उपलक्षणैरिति । जन्मान्तरी-
यज्ञानेच्छाप्रयत्नैरिर्यर्थः । सिद्धसाधनपदमत्रेष्टहानिपरम् । यथाश्रुतेऽपसिद्धान्तापातात् ।
प्रकाशिका ।
जन्मान्तरीयेति । निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः ।
मकरन्दः ।
जन्मान्तरीयेति । निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः ।
टिप्पणी ।
सिद्धः उपलक्षणाभिमतेऽपीति । कुरुक्षेत्रादावित्यर्थः । सिद्धसाधनपदमत्रेष्टहानिपरमिति ।
सिद्धसाधनस्य यथार्थतार्थत्वेऽविद्यमानसयोत्पादकत्वस्य सर्वैरस्वीकृततया तस्य सिद्धत्व एव तेन
सिद्धसाधनसम्भवेनापसिद्धान्त इति भावः । अपसिद्धान्तप्रसङ्गादिति । तथा चार्थान्तर-
मित्यादिना । व्यवहारमात्रमित्यादि । तदेतदभिमन्त्रणादिष्वित्यादिग्रन्थदर्शनात् ।
कुरोः पूर्वमपि तादृशक्षेत्रस्य सद्भावात् तदानीमतादृशत्वेनावश्यं तत्र कुरुजनितातिशयः
स्वीकरणीयः । एवमविद्यमानस्य कस्यापि न जनकत्वमिति नियमात् तत्रापि तत्कल्प्यमेवेति
दृष्टान्तासङ्गतिरित्याह । अस्तु चेति । अभ्युपगमे त्वाह । यद्वेति ।
देवदत्तस्येति । अत्र शरीरं पक्षः, देवदत्तस्वगुणाकृष्टत्वं साध्यम् । साध्यस्य स्वगुणसह-
कारित्वार्थकत्वं मन्वान आह इच्छेति । यथाक्रमं कश्चिदिच्छायाः क्वचित्प्रयत्नस्य कचिज्ज्ञानस्य
यहाँ प्रस्तुत पृष्ठ का देवनागरी लिपि में पंक्ति-दर-पंक्ति लिप्यन्तरण है:
१३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां
कत्वमिति चेत् तदेतदभिमन्त्रणादिष्वपि तुल्यम् । तस्माद्भावभूतमतिशयं जन-
बोधनी ।
स्येति । स्वगुणाकृष्टत्वं नाम स्वगुणोत्पादितत्वं विवक्षितं तथा न सिद्धसाधनं पश्वादीनामिच्छायनु-
त्या॑यत्वादित्याशङ्कयाह-नापि-इति । मनो हि नित्यत्वान्न केन चिदुत्पाद्यतेऽथ च भोगसाधनमिति
तेनानौकान्तिकमिति । तर्हि कार्यत्वे सति भोगसाधनत्वादिति हेतुं विशेषयिष्याम इत्यत्राह-मापि-
इति । अस्माभिरुपलक्षणत्वेनापादिता यागादयो ह्यात्मगुणस्तत्तत्संकल्पप्रयत्नाद्यात्मकत्वात् तेषा-
म् । अतस्तैरेव जन्मान्तरीयैरैहिकैर्वा पश्वाद्युत्पत्तिसिद्धेर्न तदतिरिक्तजन्यापूर्वसिद्धिरिति । ननु
चिरविनष्टा यागादयः कथं कालान्तरभाविनः पश्वादेः साधनं यतस्तैः सिद्धसाधनं स्यादित्याह-
असताम्-इति । तर्हि अभिमन्त्रणादिष्वपि कालान्तरभाविने फलाय संस्कारमभ्युपगच्छेदित्याह-
तत् इति । उक्तमर्थमुपसंहरन् प्रमाणयति-तस्मात्-इति । प्रध्वंसेन सिद्धसाधनं मा भूदि-
प्रकाशः ।
तस्मादिति । यद्यपि पुरुषनिष्ठातिशयेन सिद्धसाधनम्, तथापि व्रीह्यादिगतेति साध्ये विशेषणी-
यम् । यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति व्याप्तेरिति संप्रदायविदः ।
अस्मत्पितृचरणास्तु-सोऽतिशयो लाघवात् फलसमानाधिकरण इति व्रीहिनिष्ठ एव । तेन
:टिप्पणी ।
मिति भावः । मतिशयेन सिद्धसाधनमिति । अथ विप्रतिपक्षस्य व्रीहिनिष्ठातिशयस्य प्रोक्षण-
जन्यस्य यथोक्तानुमानासिद्धेरुच्यत इत्यादि ग्रन्थेन प्रोक्षणजन्यातिशये व्रीहिनिष्ठत्वखण्डनं ग्रन्थकृतो
विरुद्धमित्याशङ्कां निरसितुमुपक्रमते । यद्यपीत्यादि माहुरित्यन्तेन । न च मन्त्रादीनेवे-
त्यादितुल्यमित्यन्त मूलग्रन्थेन प्रोक्षणजन्यसंस्कार एव तर्कोभिसन्धिः तदुपकार्य्यमेव मानं तस्मादि-
त्यादिना दर्शितं तथा च प्रोक्षणेऽतिशयजनकत्वस्यैवासिद्धेः कुतः सिद्धसाधनावकाश इति वाच्यम् ।
अत्रापि सिद्धसाधनपदस्येष्टहानिपरत्वात् व्रीहिनिष्ठातिशयस्यैवेष्टत्वात् । अथ व्रीहिगतत्वस्य सा-
ध्यविशेषणत्वे व्रीहिनिष्ठातिशयजनकत्वप्रयोज्यकालान्तरभाविफलजनकत्वरूपसाध्याप्रसिद्धिः । अव-
घातजनकीभूतक्रियान्तरमादाय कालान्तरभाविसुखार्थयोपादीयमानयागादिकमादाय च व्यभि-
चारप्रसङ्गः दृष्टान्तासङ्गतिश्चेति चेन्न । यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति सामा-
न्यव्याप्तौ गृहीतायां प्रोक्षणं व्रीह्याद्युद्देश्यकमिति पक्षधर्मताज्ञानसहकारात् शुद्धातिशयजनक-
त्वघटितधर्मावच्छिन्ननिरूपितव्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानादेव व्यापकतानवच्छेदकीभूतेन
विधेयतानवच्छेदकेन व्रीहिनिष्ठातिशयजनकताघटितधर्मे विधेयानुमितिरितरबाधादिसहकृतयो-
गज्ञानजन्यानुमितिवद् इतरबाधादिर्यांस्तु विशेषः , अत्र व्रीह्यादिनिष्ठत्वविषयताया पक्ष-
धर्मज्ञानप्रयोज्यत्वेन विधेयरूपत्वादिति, एवञ्च नोक्तदोषावकाशः । अनुमितेरेवाक्षेपे शुद्धाति-
शयघटितधर्मावच्छिन्नमतिशये व्रीहिनिष्ठत्वमित्येवं रीतिकत्वस्वीकारो लाघवज्ञानादिसहकृतप्र-
माजन्यविशिष्टवैशिष्ट्यबोधस्थले विशेषणतावच्छेदकप्रकारकज्ञानस्य विलक्षणकार्यकारणभावस्वी-
कारान्न व्रीहिनिष्ठत्वविशेषितधर्मावच्छिन्नज्ञानस्य पूर्वमभावेऽपि नानुमानम् । अत एव विशे-
ष्यविशेषणविशिष्टवैशिष्टयरीत्यासिद्धयेऽपि साध्यघटकातिशये व्रीहिनिष्ठत्वस्य विशेषणाद् व्रीह्यादी-
त्यादिग्रन्थसङ्गतिः । साध्यतावच्छेदकावच्छिन्नाभाववद् वृत्तित्वस्यैव व्यभिचारत्वेन साध्यतावच्छेद-
कशुद्धातिशयघटितधर्मावच्छिन्नाभावस्य तत्र विरहान्न व्यभिचारः । दृष्टान्ते साध्यतावच्छेदका-
वच्छिन्नस्यैवापेक्षितत्वेन नापि दृष्टान्तासिद्धिरिति विभावनीयम् । सम्प्रदाय इत्यस्वरसेन-
सहकारित्वात् । अधिकम् = इच्छादितो भिन्नमपूर्वमित्यर्थः । उपलक्षणैरिति । अविद्यमाने-
र्जन्मान्तरीयैरित्यर्थः । तैरिति शेषः । तदेतत् = असतामुत्पादकत्वम् । अभिमन्त्रणादीति ।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३३
यन्त एव प्रोक्षणादयः कालान्तरभाविने फलाय कल्पन्ते प्रमाणतस्तदर्थमुपादी-
यमानत्वात् , यागकृषिविकित्सार्थादार्त । अन्यथा कृष्यादयो दुर्घटाः प्रसज्ये-
रन् । वीजादीनामापरमाण्वन्तभङ्गात् तेषु चावान्तरजातेरभावान्नियतजातीय-
कार्यारम्भानुपपत्तेः ।
अत्रोच्यते--
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
बोधनी ।
त्युक्तं-भाव-इति । भ्रमादिकृतेनोपादानेनानकान्तिकं मा भूदित्याह-प्रमाणत-इति । श्रुति
प्रमाणादित्यर्थः । न च कृष्यादौ साध्यवैकल्यमित्याह-अन्यथा-इति । कथमित्याह-
बीजादीनाम्-इति । परिकर्षितायामुर्व्वर्यामुप्तं बीजावयवि पाथःपवनसंयोगात् क्रियोत्पत्तावव-
प्रकाशः ।
तत्समवहितत्वं व्रीहेः साक्षात् सम्बन्धात् । पुरुषनिष्ठत्वे व्रीहीणां साक्षात् सम्बन्धाभावात् परम्परा-
सम्बन्धे गौरवं च, न च विहितत्वेन पुरुषनिष्ठातिशयजनकत्वमनुमेयम् । अप्रयोजकत्वात् । चिकि-
त्सादिना व्यभिचाराच्चेत्याहुः । दृष्टान्तस्य साध्यवैकल्यमपाकरोति । अन्यथेति । प्रोक्षणादिज-
न्यातिशयसिद्धावपि तस्य व्रीहिनिष्ठत्वं न सिद्ध्यतीत्याह-
संस्कार इति । अतिशयधर्मिग्राहकमानादेव लाघवसहकृतात् स एक एव सिद्ध्यति, पु-
रुषनिष्ठश्च । तथाहि, व्रीहिगतत्वे न तावत्सकलव्रीहिनिष्ठ एक एव, एकव्रीहिनाशे तन्नाशापत्तेः । न
च यावदाश्रयनाशात्तन्नाशः, लाघवादाश्रयनाशस्यैव तन्त्रत्वात् । वृक्षादौ किञ्चिदाश्रयनाशात्तन्नाशे-
ऽपि खण्डपटन्यायेन पुनरुत्पत्तिरित्यनेको वाच्यः । न चैवमेकव्रीहिनाशे फलानुदयः, तावत्संस्कारा-
णामभावादिति वाच्यम् । संस्कारत्वेनैव प्रयोजकत्वात् । किञ्चित्तत्समवधानेऽपि दण्डादिवत् कार्य-
सत्त्वादिति गौरवम् । न च विनिगमकाभावः । प्रोक्षणमपूर्वजनकं, दृष्टद्वाराभावे सति
प्रकाशिका ।
संस्कारत्वेनेति । न चैवं तावतां व्रीहीणां किमित्युपादानमिति वाच्यम् । होमनिर्वाहाय
तावदुपादानात् । यद्यपि विनिगमकं लाघवमेव, तथाप्यपूर्वं तदित्यत्र विनिगमकं नास्तीत्याशङ्क्य
निराकरोति न चेति । वस्तुतो लाघवोपकार्यमानाभाव इति शब्दार्थः । दृष्टद्वाराभाव इति ।
मकरन्दः ।
संस्कारत्वेनेति । न चैवमनेकव्रीह्युपादानानुपपत्तिः । होमादिनिर्वाहार्थं तदुपगमात् । यद्यपि विनि-
गमकमुक्तमेव, तथाप्यपूर्वं तदित्यत्र विनिगमकाभावमाशङ्क्य निराकरोति । न चेति । दृष्टद्वारेति ।
मङ्गलादौ व्यभिचारवारणाय सत्यन्तम् । दृष्टत्वं-क्लृप्तत्वम् । तत्तद्दृष्टत्वं विशिष्यैव वक्तव्यमिति
टिप्पणी ।
नाय । पक्षधर्मताज्ञानस्य प्रमाणान्तरसहकारित्वस्य यथोक्तरूपेण कुत्राप्यस्वीकारात् उक्तव्याप्तौ
मीमांसकानामनिर्भरत्वाच्चेति भावः । इत्यनेको वाच्य इति । न च छिन्नायामपि शाखायां
सोऽयं वृक्ष इति व्यवहाराद् यावदाश्रयनाशस्य हेतुत्वं वाच्यमिति वाच्यम् । साजात्यावलम्बनेनैव
तादृशव्यवहारोपपत्तेरिति । संस्कारत्वेनैवेति । प्रोक्षणजन्यसंस्कारत्वेनेत्यर्थः । इति गौरव-
मिति । इति हेतोरतिशयोऽनेको वाच्यस्तथा च तस्यानेकस्य कल्पने कारणत्वे चातीव गौरवम् तदपे
क्षया परम्परासम्बन्धकल्पन एव लाघवमिति भावः । आपत्तेरिति । कथञ्चित् व्रीहावेकसंस्कारक-
आदिपदात् प्रोक्षणादिपरिग्रहः । उपादीयमानत्वादिति । अनेनानुमानेन तथाभूतातिशये सिद्धे
यो यदुद्देशेनेत्यादिन्याप्त्या व्रीहितिष्ठत्वसिद्धिः स्यात् ।
१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां
स्वगुणाः परमाणूनां विशेषाः पाकजादयः ॥११॥
बोधनी ।
यवानां विभागेनासमवायिकारणतत्संयोगविनाशाद् विनश्यति । एवमापरमाण्वन्तं विभागात्, तेषु
च यवकलमादिविजातीयाङ्कुरारम्भकनियामिकाया जातेरभावात्, कलमबीजावापे कलमाङ्कुर एव
यवबीजावापे यवाङ्कुर एवेत्येवं कार्यजातिनियमस्यानुपपत्तिः । अतिशयाङ्गीकारे कृष्याद्याहितातिश-
यास्ते ते परमाणवस्तं तं कार्यविशेषमारभन्त इति नियमोपपत्तिरिति भावः ।
तदेवं प्रोक्षणादिजन्यातिशयवद् यागादिजन्यमपूर्वं भूतधर्मोऽस्त्विति पूर्वपक्षिते सिद्धान्तमार-
भते-अत्र-इति । यदि तावत् प्रोक्षणादयः कञ्चिदतिशयमादधतीति साध्येत ततः सिद्धसाधनम् ,
अथोद्देश्यगतमादधतीति, ततोऽनैकान्तिकता; ततः पुंस एव संस्कार इष्यताम्, कृष्यादावपि
क्लृप्तैरेव पाकजादिगुणविशेषैः कार्यनियमोपपत्तौ नाप्रसिद्धातिशयकल्पनेति साध्यवैकल्यमिति भावः।
प्रकाशः ।
कालान्तरभाविकफलजनकतया विहितत्वात्, यागवत् । न चाऽप्रयोजकत्वम्, यागादीनामपूर्वजनकता-
यामुक्तसूपस्यैव प्रयोजकत्वात्, अन्यस्याननुगतत्वादिति भावः। कृष्यादिना व्यभिचाराभावं परोक्त-
दृष्टान्तस्यासिद्धिं चाह । स्वगुणा इति । तत्र दृष्टद्वारस्यैव सम्भवान्न व्यभिचारः । न वा तत्र
परमाणौ अतिशय इति दृष्टान्तः साध्यविकल इत्यर्थः । यद्यपि पाकजा रूपादद्योऽपि तन्निष्ठाति-
शया एवेति न साध्यवैकल्यं, तथाप्याधेयशक्त्यभावमात्रे तात्पर्यम् । न ह्याधेयशक्तिपाकजयोरती-
न्द्रियत्वाविशेषात् कल्पनायामविशेषः । परमाण्ववयविरूपादिसजातीयपाकजरूपायुत्पत्तेरावश्यक-
त्वात् । तत एव नियतकार्यजनननोपपत्तौ शक्त्याधानकल्पने गौरवादिति भावः ।
प्रकाशिका ।
चिकित्सायां व्यभिचार इति सत्यन्तम् । दृष्टत्वं च क्लृप्तत्वं न त्वदृष्टान्यत्वमन्यतरासिद्धेः। पापध्वंस-
फलकप्रायश्चित्ते व्यभिचार इति । कालान्तरेति । कालान्तरत्वं च स्वोत्पत्त्यव्यवहितक्षणान्यत्वं
न तु स्वानधिकरणकालत्वं विहितपदवैयर्थ्यात् यथाविवक्षिते त्वपूर्व एव व्यभिचार इति तत्पदम्।
अपूर्वं च तन्मते कल्प्यमिति भावः । केचित्तु धर्मजनकत्वं साध्यमिति निषिद्धकर्मणि व्यभिचारवा-
रणाय विहितपदमिति कालान्तरत्वं स्वानधिकरणकालत्वमेवेत्याहुः । कृष्यादिनेति । यद्यपि
मद्युक्त्यानुमाने व्यभिचाराभावं मूलकृदाहेत्यनन्वितं मूले चैतादृशानुमानं नोक्तमेव । तथापि मूलकृ-
त्तातपर्यस्यैवानुमानं प्रकाशकृता प्रकाशितमिति स्वतात्पर्यानुमाने कृष्यादिना व्यभिचाराभावमाहे-
त्यर्थः । परोक्तेति । परेण ग्रन्थ-उक्तस्येत्यर्थः । तत्र दृष्टद्वारस्यैवेति । यद्यपि विहितत्वाभा-
वादेव न तत्र व्यभिचारः, तथापि वर्णोपायविभागावसरे कृष्यादेरपि विहितत्वमेवेत्यनेनाभिप्रायेणे
मकरन्दः ।
नान्यतरासिद्धिरित्यप्याहुः । मदुक्तमनुमानप्रकाशे द्रष्टव्यम् । साक्षात् पापध्वंससाधने प्रायश्चित्ते
व्यभिचारवारणाय कालान्तरेति । कालान्तरत्वञ्च स्वानन्तरक्षणान्यत्वम् । अन्यथा विहितपद-
वैयर्थ्यापत्तेः । एवंवापूर्व एव व्यभिचारवारणाय तत् । तच्च मन्मते कल्प्यमिति भावः । वस्तुतो
धर्मजनकत्वमत्र साध्यम् । तथा च निषिद्धकर्मणि व्यभिचारवारणाय । तदिति । कृष्यादिनेति ।
टिप्पणी ।
ल्पनासम्भवेऽप्यनेकव्रीहौ तत्सम्बन्धकल्पनापेक्षयाप्यात्मनिष्ठत्वे लाघवं द्रष्टव्यम् । फलजन-
कतया विहितत्वादिति । चिकित्सादौ व्यभिचारवारणाय सत्यन्तम् । कालान्तरत्वं चोत्पत्त्य-
व्यवहितक्षणान्यत्वं न त्वन्यवहितोत्तरत्वसम्बन्धेन स्वाधिकरणत्वं तथा सति विहितत्वपदवैयर्थ्यात् ।
जातेरभावादिति । तथा च व्रीह्यादिकिष्कुपरमाणूनां विशेषाभावेन व्रीहिनिर्वपने कलावि-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३५
यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुष-
मभिसंस्कुर्वते, न वह्निं नापि देवताम् । तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः
बोधनी।
कथं व्रीह्याद्युद्देशेन तत्र प्रयुज्यमानः प्रोक्षणादिः पुरुषं संस्करोतीत्याशङ्कां निराकुर्वन्नैकान्ति-
कतामेव स्फोरयति-यथा हि-इति । व्रीह्याद्युद्देशेन तत्रैव प्रयुज्यमान इत्युपस्कारः कथं पुरुष-
प्रकाशः।
यो यदुद्देशेनोपादीयते इत्यत्र परोक्तानुमाने व्यभिचारमाह । यथा हीति । देवतायाः सि-
द्धत्वे यथा प्रीतिभागितयोद्देश्यत्वं तथा व्यापारभागितया व्रीहेरपीत्यर्थः । न च यद्गतफलार्थि-
तया यत्क्रियते तत् तद्गतमेव तदनुकूलमतिशयं जनयतीति व्याप्तेरनुमानं स्यादिति वाच्यम् । शत्रु-
वधमुद्दिश्य प्रवर्तितेन श्येनयागेन व्यभिचारादिति भावः । अथात्मनिष्ठसंस्कारस्य व्रीहिणा सम्ब-
प्रकाशिका।
दम् । शत्रुवधमिति । तत्र शत्रोरेव वधाश्रयत्वेनोद्देश्यत्वादिति भावः । न च वैरिणि तदपूर्वमिति
पञ्चमटीकाविरोधः । तस्या एकदेशिमतारूव्यानपरत्वात् तस्य धर्मरूपत्वे वैरिमरणजनकत्वानुपप
मकरन्दः।
न च विहितत्वाभावादेव न तत्र व्यभिचार इति वाच्यम् । प्रत्येकवर्णोपायविभागविधिना वैश्यस्य
कृषिविधानादिति भावः ।
शत्रुवधमिति । यद्यपि शत्रुवधो न शत्रुगत उद्देश्यः । तथा सति स्ववध एवोद्देश्यः प्रस-
टिप्पणी।
यथा व्याख्यातार्थे त्वपूर्वमादायैव व्यभिचारात् तदुपादानम् । न चैककर्तृकानेकपितॄनुद्देश्यकगया-
श्राद्धस्थलेऽपि लाघवबलात् कर्त्तव्यैवादृष्टस्वीकारापत्तिः, उद्देश्यस्यानेकत्वेनानेकादृष्टकल्पनायां
गौरवात् । न चास्तु तथैव, तथा सति पितृष्वदृष्टसिद्धान्तभङ्गप्रसङ्गादिति वाच्यम् । अनेकपुत्रादि-
कर्तृकैकैकोद्देश्यकगयाश्राद्धस्थलीयादृष्टेन दत्तोत्तरत्वात् तत्र कर्तरि कल्पनायां गौरवात् । तस्मात्-
पितृष्वेव साक्षात्सम्बन्धेनादृष्टं स्वीकार्यं लाघवात्, फलसामान्यानुरोधेन परम्परासम्बन्धे गौरवा-
दिति भावः । देवताया इति । उद्देश्यत्वम् = इच्छाविषयत्वम् । तथा हि सिद्ध इच्छाविर-
हात्कथं देवतादीनामुद्देश्यत्वमित्याकाङ्क्षायामाह । तथा व्यापारभागितयेति । अवघातादि-
रूपव्यापारेत्यर्थः । यथा प्रीतिभागितयोद्देश्यमिति । ननु प्रीतिभागित्वेन देवताया उद्दे-
श्यत्वे यागादः प्रीतिरेव व्यापारोऽस्तु, अलमदृष्टेन, न च फलपूर्वं कथं तस्या स्थितिः । संस्काररूप-
स्ववासनया स्वजनकवासनया तत्र स्थितिसम्भवादिति चेन्न । बहुकालव्यापकस्वर्गजनकयाग-
स्थले प्रीतेर्व्यापारत्वे स्वर्गस्य सुखरूपत्वेन क्षणिकतयाऽनन्तत्वेनानन्तानां तेषां नियतपूर्वत्वानन्य-
थासिद्धत्वयोः कल्पनायामतीव गौरवात् प्रीतेर्ज्ञानस्वरूपाया इच्छादिस्वरूपाया वा तावत्कालपर्यन्तं
स्थित्यसम्भवादिति । शत्रुवधमुद्दिश्येति । शत्रोरेव वधाश्रयत्वेनोद्देश्यतया श्रुतेः शत्रुवध-
स्यैव फलत्वेन तज्जनकीभूतश्येनयागजन्यापूर्वस्य कर्तरि स्वीकारात् । ननु तादृशापूर्वस्य कथं न-
शत्रुनिष्ठतेति चेत्तस्य धर्मत्वे स्वसमानाधिकरणवधादिरूपफलजनकत्वानुपपत्तिः । अधर्मरूपत्वे
विहितश्येनसाध्यत्वानुपपत्तिरिति शत्रुवधसाध्यसुखनिष्पादकमपूर्वं धर्मरूपं कर्तर्येवोत्पद्यते, स
एव पूर्वोपार्जितशत्रुनिष्ठाधर्मस्य शत्रुवधे जननीये सहकारी भवतीति विभाव्यम्॥ ०॥ सम्वन्धा-
च्छाल्यङ्कुरः स्यात् शालिनिर्वपणे व्रीह्यङ्कुरः स्यादिति शङ्कया व्रीह्याद्यर्थिनां विशेषदर्शिनां कृष्यादौ
प्रवृत्तिर्न स्यादिति भावः ।
हुताशन इति । आहुतिरित्यदिना परमापूर्वस्य जननात् तस्य देवतायां स्वीकारे फलव्यधिक-
पुरुषमेव संस्करुते, न तम्। यथा च कारीरीजनितसंस्काराधारपुरुषसंयोगा-
ज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया, तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशे-
षाः। यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात् फलाभावस्तथा परत्रापि। भागमि-
बोधनी।
संस्काराणां व्रीह्याद्यसम्बन्धानामेव तत्सहकारित्वमित्यत आह—यथा च-इति। यथा हि
कारीरीजनितसंस्कारानाधारा एव जलधरास्तदाधारयजमानात्मसंयोगादेव गगनं संचरन्ति वर्षन्ति
च, तथा व्रीह्यादयोऽपि संस्कृतात्मसम्बद्धाः कार्योपयोगिन इति। ननु पुरुषसंस्कारपक्षे यदा तस्य
पातकादिदोषस्तदा तस्मिन् संस्काराधानायोगाद् वैफल्यमेव प्रोक्षणादेः स्यात्। व्रीहिसंस्कारत्वे
तेषामदुष्टत्वान्नायं दोष इत्यत्राह—यथा च-इति। कर्तृदोषे यथैकत्र कर्त्तरि फलस्य संस्कारस्या-
भावः, तथापरत्र व्रीह्यादिष्वपि कर्तृत्ववैगुण्ये क्वचिदपि न संस्कार उत्पद्यत इत्यर्थः। यद्वा, एकत्र
कारीर्यामपरत्र प्रोक्षणादावपि उभयत्र पक्षद्वये कर्मद्वये वाप्यागमिकत्वस्य तुल्यत्वाददुष्टानामेवाधि-
कारः। अत्र कर्मसाधनयोरुपादानं दृष्टान्तार्थम्। यद्वा, कृमिकीटाद्युपहतेष्वपि व्रीहिषु व्रीह्यन्त-
रोपादानं न स्यादसंस्कृतत्वाविशेषादित्यत आह—यथा-इति। कर्मादिवैगुण्य इव व्रीह्यादिदोषे
ऽपि फलाभावश्रुतेस्तुल्यत्वेन व्रीह्यन्तरोपादानमुपपद्यत इत्यन्या व्याख्या। ननु पुरुषसंस्कारपक्षे
प्रोक्षणादीनां कारीर्यादिवदनियतफलत्वं प्राप्नोतीत्यत्राह—यथा च-इति। कर्मादिवैगुण्यनिमित्तं हि
प्रकाशः।
न्धाभावान्न मिथः सहकारित्वं स्यादित्यत आह। यथा चेति। संस्कारवदात्मसंयोगो मेघस्येव
व्रीहेरपि तुल्य इत्यर्थः।
न च परम्परासम्बन्धे गौरवम्, प्रामाणिकत्वादिति भावः। नन्वात्मनोऽनधिकृतस्यापि सम्भ-
वान्न तन्निष्ठः संस्कारः सम्भवतीति व्रीहिनिष्ठ एव स स्यादित्यत आह। यथा चेति। कर्तृवै-
गुण्ये संस्कारो नोत्पद्यते। तत्साद्गुण्यस्यापि हेतुत्वादित्यर्थः। न चायं प्रधानयागाभावाद् यत्र
प्रकाशिका।
तेरधर्म्मरूपत्वे च विहितश्येनसाध्यत्वानुपपत्तेः, तस्मात् शत्रुवधसाध्यसुखादिनिष्पादकमपूर्व्वं कर्त्त-
र्य्येव धर्मरूपं स च धर्म्मः पूर्व्वकृतशत्रुनिष्ठाधर्मस्य शत्रुमरणे जननीये सहकारीत्येव रमणीयम्।
मकरन्दः।
ज्ज्येत। तस्यैव तच्छत्रुत्वात्। किन्तु स्वगतशत्रुवधमुद्दिश्य श्येनः क्रियते। तथापि वधस्य सं-
योगध्वंसात्मक मरणरूपस्य शत्रुनिष्ठतया तथोक्तम्। एतदपि परमते। अस्मन्मते श्येनापूर्व्वस्य
शत्रुनिष्ठत्वमेव, फलोपपादकमपूर्व्वं फलाश्रये कल्प्यते इति वक्ष्यमाणयुक्तेरिति बोध्यम्। अस्म-
न्मते त्वप्रयोजकत्वे तात्पर्य्यम्।
टिप्पणी।
भावादिति। अवघातादिरूपकार्य्यजनन इति शेषः। प्रामाणिकत्वादिति। अतिशयस्य
साक्षात्सम्बन्धेन व्रीहिनिष्ठत्वापेक्षया उक्तयुक्त्या आत्मनिष्ठत्व एव लाघवेन तादृशसम्बन्धस्य
प्रमाणसिद्धत्वेन गौरवस्याकिञ्चित्करत्वाद्वि भावः ॥०॥ व्रीहितिष्ट एवं सं स्यादिति। अनधि-
कृतात्मस्थले व्रीहेर्वैगुण्यात्प्रोक्षणजन्यस्यावघातजनकस्योत्पादो भवत्येवेति शङ्कयितुरभिप्रायः ॥०॥
कर्त्तृवैगुण्ये संस्कार इति। कर्तृवैगुण्यस्थले परमापूर्व्वजननस्योभयसिद्धत्वेन तत्र तद्धेतुभूत-
संस्कारादेरपि मानाभावः प्रयोजनाभावात्। तथाचाङ्गापूर्वादावपि कर्तृकर्मसाधनवैगुण्याद्यभाव-
रणस्य स्वीकारापत्तेः, देवतायां तस्यास्वीकारात्। एवं फलव्यधिकरणस्य परमापूर्व्वस्य सर्वैरस्वी-
काराद् देवतायां नातिशयसम्भव इति यो यदुद्देशेनेत्यादिव्याप्तौ व्यभिचार इति भावः। तथा =
संस्कारवदात्मसंयोगादिरित्यर्थः।
क्रियाविशेषाः = प्रोक्षणाभ्युक्षणादयः। एकत्र = परमापूर्व्वस्थले, अथवाऽऽत्मनिष्ठत्वपक्षे।
परत्रापि = अङ्गापूर्व्वस्थलेऽपि व्रीहिनिष्ठत्वपक्षेऽपीति वा।