नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 98, कुल 258 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का पूर्ण देवनागरी पाठ पंक्तिबद्ध (line-by-line) रूप में प्रस्तुत है:
८० नलचम्पूः ।
अनन्तरमुत्तुङ्गकनककुम्भशोभास्पर्धिकुचमण्डलार्धवद्धोत्तरीयांशुक-
परिकराः, संस्मरस्मितविकारकारिण्यः, दर्शितसीत्काराङ्गमैलनवि-
न्यासाः, काश्चित्समुद्रवेल इव समकरोत्क्षिप्तमलकाः, काश्चित्तरुण-
तरुमञ्जरीराजय इव भृङ्गारभरसुभ्रदेहाः, काश्चिदन्यायकारिण्य इव
सभाजनोद्धूलनकराः, काश्चिन्मलयाचलभूमय इवोत्कृष्टगन्धधारि-
तैलाः, काश्चिद्देवलोकवसतय इवं चामरधारिण्यः, काश्चित्पुरंदरपुरं-
ध्रिका इव सविभ्रमकङ्कतिकोपान्तेनाकेशप्रसादनमाचरन्त्यः, काश्चि-
द्विन्ध्द्याटव्य इव दर्शितविविधपादपालिकाः, काश्चिद्राघवसेना इव
कृतप्रहस्तमलनाः, काश्चिद्व्याकरणवृत्तय इव बाहुलतां संवाहयन्त्यः,
मज्जननियुक्ताः कामिन्यो राजानं स्नपयामासुः ॥ क ॥
किं बहुना ।
तास्तास्तं स्नपयामासुरङ्गनाः कुम्भव्वारिणा ।
एत्य याः स्युः प्रसन्नेन द्युलोकात्कं भवारिणा ॥ २० ॥
रजनीकरा गन्धकारकास्तैः कान्ते । नभस्तु वरो दीप्तिमान् सूर्याभावान्धो रजनी-
करः शशी तेन कान्तम् ॥ १९ ॥
अनन्तरमिति ॥ परिकरमाबध्येति जघने पटीवेष्टिं कृत्वा कामिन्यो राजान-
मन्नपयन् । समेनाविषमेण करेणोत्क्षिप्तसामलकानि यकाभिः । आमलकचूर्णं हि
स्नानीयम् । भृङ्गारः कनकालुका । भाजनं पात्रम् । तत्रोद्धूलनं चूर्णविशेषः । तेन
सह करः पाणिर्यासाम् । सभाजनोद्धूलनपाठे तूद्धलनमुद्वर्तनम् । उत्कृष्टानि उद्गतानि
गन्धधारीणि तैलानि याभिः । चामरं प्रकीर्णकम् । विशिष्टो भ्रमश्चलनं तेन सह या
कङ्कतिका केशमार्जनी तस्या उपान्तेनास्र्मन्तात्केशानां विरलीकरणमाचरन्त्यः ।
पालिः पर्यायावसरः । यदजयः—'पालिः कर्णलतायां स्यात्प्रदेशे पङ्क्तिच्छिद्ययोः ।
दृष्टस्मन्नङ्क्रियामश्रौ पर्यायावसरे क्रमे' । ततश्च दर्शिता विविधा पादपालिः पाद-
मर्दनावसरो याभिः । कृतं प्रकर्षेण हस्तमलनं याभिः । बाहुलतामिति बाहुलंतवे-
ति । पक्षे मकरैः सह उत्क्षिप्तममलं कं जलं याभिः । भृङ्गाणामार आगमनं
तस्साग्रो भरः । तथा अवाच्यवचनैः सभाजनस्योद्धूलनं मालिन्यं कुर्वन्ति । उद्धू-
लनपाठे तु सभाजनादुद्धूलनमपसरणम् । उत्कृष्टगन्धधारिता एला ओषधिविशेषो
याभिः । च पृथक् । अमरा देवाः । सविभ्रमं सविलासं कं सुखं यत्र । कतिको-
पान्ते कियत्कोपविगमे नाकेशस्य दिवसपतेः प्रसादनं कुर्वन्ति । कतीति पुरंध्रिका-
विशेषणं वा । दर्शिता विविधाः पादपानामालयो याभिः । प्रहस्तो रावणप्रतिहार-
स्तस्य मलनमभिभवः । बाहुलता बाहुलकम् ॥ क ॥
ता इति ॥ भवस्य संसारस्यारिः शिवस्तेन । प्रसन्नेन हेतुना । द्युलोकात्स्व-
१. 'संस्मेर'. २ 'दर्शितससीत्का'. ३ 'तरो'. ४ 'तरुणमञ्जरी'.