सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 75, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 75

द्वितीय उच्छ्वासः । ५७
र्णम् । एकत्र वृद्धमिव कुजराजितम् । एकत्र चित्रविद्ययेव प्रव-
र्धमानसकलशिशुशोभितया विन्यस्तस्वस्तिकया सर्वतोभद्रभूषणया
भवनमालयालंकृतम् । एकत्र नाटकैरिव पताकाङ्कसंधिसंगतैः,
दुष्टकिरातैरिव दृष्टकूटकर्मभिः, शस्त्रैरिव सुधारैः, विचित्रैरपि
संचित्रैः, सं तुलैरप्यतुलैर्देवकुलैः संकुलम् । विशालमपि शाला-
संपन्नम्, चतुश्चरणसंयुक्तमपि चरणरहितम्, विट्संभृतमपि शुचि-
मार्गम्, सर्वत्र चत्वराधिकमपि स्थिरप्रकृति, मज्जन्महाराष्ट्रकुटुम्बिनी-
मुखमण्डलविधीयमानोत्फुल्लकैमलशोभायास्तुङ्गतुङ्गरङ्गत्वरङ्गाङ्कतरुणार्जुनरा-
जीवराजमानराजहंसविराजितवारेर्वरदायास्तीरे रमणीयकरसकुण्डं
कुण्डिनं नाम नगरम् ॥ क ॥
यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवाप्लवनजनितपातकभङ्गां ग-
ङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणी पुण्यपयाः पयोष्णी वहति ॥ख॥
र्णम् । कुजैस्तरुभी राजितम् । पक्षे कुत्सितजरया जितम् । एकत्र । गृहश्रेण्या
भूषितम् । प्रवर्धमानैः । सकलैः कलावद्भिः । शिशुभिर्डिम्भैः शोभितया ।
तथा विन्यस्ताः स्वस्तिका मौक्तिकादिक्षोदरचिताश्चतुष्का यस्याम् । सर्वत इति
भिन्नम् । भद्राणि वास्तुशास्त्रख्यातानि भूषणं यस्याम् । यदिवा स्वस्तिकवर्धमानौ
गृहावयवविशेषौ । पक्षे शिशुः सकलः स्वस्तिको वर्धमानः सर्वतोभद्र इत्याख्यानि
पञ्च पत्राणि । एकत्र देवकुलैः संकुलम् । पताका ध्वजवासः सैवाङ्गो येषाम् ।
तथा संधिषु संगतानि । अविभाव्यसंधीनीत्यर्थः । नाटकेषु तु मुख्यनायकोपरि
उपनायकचरितं पताका । अङ्कः प्रबन्धविभागः । मुख-प्रतिमुख-गर्भ-अवमर्श-
निर्वहणाख्याः पञ्च संघयः । कूटं शिखरं कपटं च । सुधां लेपविशेषमियूति
प्राप्नुवन्ति । पक्षे शोभना धारा येषाम् । विचित्रैरनेकप्रकारैः । न विगतचित्रैः ।
न तुला साम्यं येषाम् । तथा तुलया धारणस्तम्भेन सह । उभयत्रापि विरोधे ।
विशालं विस्तीर्णम् । व्यपेतशालम् । शाला गजाद्यालयः । चत्वारश्चरणा ऋग्वेदा-
दयः । अपिचेति विरोधे । तदा रणेन युद्धेन रहितम् । विड्भिर्वैद्यैः संवृतम् । न
विष्ठाभिः । चत्वरं चतुष्पथम् । प्रकृतिरमात्यादिः । विरोधस्तु चत्वरेति चकारस्य
समुच्चयार्थस्य पूर्वपदेन योगे ॥ क ॥
यस्येति ॥ यस्य (पुरस्य) । नातिदूरे (निकटे) । गङ्गा स्नातपुण्यहेतुः । पयोष्णी
तु दर्शनादपीत्यस्या विशेषः ॥ ख ॥
१ 'सुचित्रैः'. २ 'अतुलैरपि सतुलैः'. ३ 'कमलखण्ड'. ४ 'रामणीयक'.