नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 73, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः। ५५
शृङ्गारसर्वस्वम्, अधरपल्लवेषु मधु, भ्रूभङ्गेषु धनुः, कटाक्षेषु पुष्पबा-
णान्निधाय निलीनोऽङ्गेषु जघनस्थलस्थापितरतिर्मकरकेतनः ॥ क ॥
यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम्, उत्तुङ्गस्तनमण्डल-
लावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेव
मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृग-
मदपत्रभङ्गाः, कटाक्षा एव युवजनजयाय परमास्त्राणि, बन्धूककुसु-
म्रकान्तिदन्तच्छद एव लोकलोचनमनोमोहनाय माहेन्द्रमणिः, मुख-
कमलपरिमलागतमधुकरमधुरझंकार एव विनोदाय वीणाध्वनिः॥ख॥
किं बहुना।
ता एव निर्वृतिस्थानमहं मन्ये मृगेक्षणाः।
मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥ २६ ॥
मन्ये च। ताभिरेव विविधनिधुवननिधानकुम्भीभिः कुम्भोद्भवोऽपि
भगवान्प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां दिंश-
मेव ॥ क ॥
अथवा।
देशो भवेत्कस्य न वल्लभोऽसौ
स्त्रीसंकुलः सुस्थितकामकोटिः।
दग्धैककामं त्रिदिवं विहाय
यस्मिन्कुमारोऽपि रतिं चकार ॥ २७ ॥
तस्यान्तर्भूतवैदर्भमण्डलस्यालंकारभूतमैनाकुलममरपति पुरप्रति-
स्पर्धि परितःपरिखाप्रान्तरूढप्रौढहृद्योद्यानमालावलयितमदभ्रशुभ्राभ्रं-
श्चराणां धनिनां मनो याभिः ॥ अथ च परमेश्वरो धूर्जटिः। सोऽपि ताभिर्निर्जित
इत्युक्तिलेशः। एतेन शरणागतत्राणवैभवम् ॥ क ॥-
यासामिति ॥ माहेन्द्रमिन्द्रजालम् । तत्रबलेनाविद्यमानवस्तुप्रकाशनमिति
यावत् । तदर्थो मणिर्माहेन्द्रमणिः ॥ ख ॥
ता एवेति ॥ निर्वृतिर्मुक्तिः शर्म च। मुक्ता मुक्तात्मानो मौक्तिकानि च ॥ २६ ॥
देश इति ॥ कामकोटिर्देवी कंदर्पकोटयश्च । कुमारः कार्तिकेयो डिम्भश्च ।
रतिरास्थार्थैः । सुरतार्थेन च विरोधोद्भावना ॥ २७ ॥
तस्येति ॥ तस्य दक्षिणदेशस्यान्तर्भूतं वैदर्भं मण्डलं तदलंकारभूतम् । एवं
विशेषणोपेतम् । निरुपद्रवम् । तुङ्गतरेषु रञ्जन्ति तरुणानि नवान्यर्जुनानि धवलानि
१ 'पल्लवे'. २ 'दिशम्'. ३ 'अनाकृत'. ४ 'पुरप्रतिस्पर्धि'. ५ 'प्रान्तमारूढ'-
६ 'शारदाभ्र'.