नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 49, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । ३३
आगत्य च राजानमवलोक्य सविस्मयमेवमेष चिन्तयांचकार ॥क॥
'अब्जश्रीसुभगं युगं नयनयोर्मौलिर्महोष्णीषवा-
नूर्णारीमसखं मुखं च शशिनः पूर्णस्य धत्ते श्रियम् ।
पद्मं पाणितले गले च सदृशं शङ्खस्य रेखात्रयं
तेजोऽप्यस्य यथा तथा सजलधेः कोऽप्येष भर्ता भुवः ॥ ५३॥
तदेवंविधाः खलु महनीया महानुभावा भवन्ति' इत्येवमवधार्य समु-
पसृत्य 'स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम्' इत्यवादी-
त् ॥ ख ॥
राजापि सविस्मयमना मनागुन्नमितमस्तकः स्वागतप्रश्नेनाभिनन्द्य
'तीर्थयात्रिक, कुतः प्रष्टव्योऽसि । क्व च कियच्चाद्यापि गन्तव्यम् ।
उपविश । विश्रम्य कथय कांचिदपूर्वां किंवदन्तीम् । अनेकदेशदृश्वा-
नः किलाश्चर्यदर्शिनो भवन्तीति । न चाकस्मिकं दर्शनमपूर्वः परिच-
यः स्वल्पा प्रीतिरित्येकमप्याशङ्कनीयम् । अपूर्वदर्शनेऽपि न जात्या
मणयः स्वां स्वच्छतापह्रुवते । तदेहि । मुंहूर्तमेकत्र गोष्ठीसुखर्मनुभ-
वावः' इत्येनमवादीत् ॥ ग ॥
असावपि 'अपूर्वकौतुककथाकर्णनरसिक, श्रूयतां यद्येवम्' इत्य-
भिधाय सुखोपविष्टस्यास्य समीपे स्वंयमुपविश्य कथयितुमारभत
॥ घ ॥
'अस्ति स्वर्गसमः समस्तजगतां सेव्यत्वसंख्याग्रणी-
र्देशो दक्षिणदिङ्मुखस्य तिलकः स्त्रीपुंसरत्नाकरः ।
यस्मिंस्त्यागमहोत्सवव्यसनिभिर्धन्यैरशून्या जनै-
रुद्देशाः स्पृहणीयभावभरिताः कं नोत्सुकं कुर्वते ॥ ५४॥
अब्जेति ॥ सजलधेरिति भुवो विशेषणम् । उष्णीषमुत्तमाङ्गे लक्षणविशेषः ।
तथोर्णा भ्रूमध्ये शुभ्रोमावर्तः । यद्विश्वः—'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणा-
न्तरे' । तथा । 'ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके ध्रुवोः' ॥ ५३ ॥
राजापीति ॥ किंवदन्तीं वार्ताम् । जात्या मणयो विशिष्टजातीयरत्नानि ।
॥ ग ॥ घ ॥
अस्तीति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । 'अचतुर—' इत्यादिना निपात्यते
॥ ५४ ॥
१ 'सविस्मयमेष'. २ 'तथा यथा'. ३ 'खलु महानुभावा महनीयाः'. ४ 'अवधार्य-
न्समभिसृत्य; अवधार्योपसृत्य; अवधार्यनुपसृत्य'. ५ 'उपविश्य'. ६ 'अपूर्विकाम्'.
७ 'मुहूर्तमेकमेकत्र' ८ 'अनुभवामः' ९ 'कथाताकर्णन' १० 'स्वयमप्युपविश्य'