नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 47, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । ३१
राजाप्येकशरप्रहारपातितमत्तमातङ्गः सर्वतो विहारिहरिहरिणशश-
कशम्बरवराहहननहेलया विचरन्नितस्ततस्तैरुगततमालमञ्जरी जाल-
नीलोद्भूषितस्कन्धकेसरमूर्ध्वस्तब्धकर्णसंपुटमश्वच॑क्राय क्रुध्यन्तमाघूर्णि-
तयोणमनवरतकृतघनघोरघर्घररवमुत्क्षिप्तपुँच्छगुच्छमभिमुखमेकस्मि-
न्नतिसान्द्रभद्रमुस्तास्तँम्बभाजि पङ्किलपल्वलप्रदेशे तं शूरशूकरमपर-
मिव दवदहनर्दग्धमद्रिमद्राक्षीत् ॥ क ॥
दृष्ट्वा च रचितशरसंधानलाघवो राघव इव राक्षसेश्वरस्य तस्योपरि
परिणद्धविविधपत्रैः र्पतत्रिभिरैभ्यवर्षत् ॥ ख ॥
तत्र च व्यतिकरे
किमश्वः पार्श्वेषु प्लवनचतुरः किंनु नृपतिः
शरान्मुञ्चन्नुच्चैर्ध्रुततरकराकृष्टधनुषा ।
किमालोलः कोलः परिहृतशरः शौर्यरसिको
न जानीमस्तेषां क इह परैमो वर्ण्यत इति ॥ ४९ ॥
अपिच ।
अजनि जनितपृथ्वीमण्डलोत्पादकम्पं
किमपि चलितशैलं द्वन्द्वयुद्धं तयोस्तत् ।
स्खलिततुरगवेगो विस्मयेनैष यस्मि-
न्दिनपतिरपि शौर्याश्चर्यसाक्षी बभूव ॥ ५० ॥
अथ कथमपि नाथं प्रोथियूथस्य जित्वा
ज्वरित इव विशालं सालसः सौलमूले ।
सुखमभजत राजा राजमानः श्रमाम्भः-
कणकलितकपोलालोललीलालकेन ॥ ५१ ॥
तत्र॑ च स्थितं श्रममुकुलितनयनारविन्दम्, आन्दोलयन्तः कुसुमि-
ततरून्, तरलयन्तः शिखिशिखण्डमण्डलानि, ताण्डवयन्तस्तनुलता-
अजनीति ॥ स्वभावतोऽपि मध्यन्दिने स्खैलिताश्ववेगो रविस्तत्र कवेरुहः ॥ ५०॥
अथेति ॥ ज्वरित इव सालस इत्यनेन श्रमातिशयोक्तिः । अन्योऽपि ज्वरितो
मूलादीनि सेवमानः स्वेदबिन्दुलक्ष्यमाणज्वरापगमो राजते ॥ ५१ ॥
तत्र चेति ॥ श्रममुकुलितनेत्रकमलं नृपं कम्पितनीपकाननाः पवनाः हर्षयां-
१ 'तरुणतमाल'. २ 'चक्रायोपरि; चक्रोपरि'. ३ 'कुप्यन्तम्'. ४ 'पुच्छम्'. ५
'स्तम्बकदम्बभाजि'. ६ 'दग्धमद्रिम्'. ७ 'स राजा दृष्ट्वा च'. ८ 'पत्रिभिः'. ९ 'अभि-
ववर्ष'. १० 'द्रुततर'. ११ 'निपुणः'. १२ 'हत्वा'. १३ 'सालमूलम्'. १४ 'तत्र
स्थितम्'. १५ 'दिवसस्याष्टमे भागे मन्दीभवति भास्करः' इति वसिष्ठोक्तेः ।
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA