सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 25, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 25

प्रथम उच्छ्वासः । ११
यत्र च मनोहारिसारसंद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः काद-
म्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः ॥ क ॥
किं बहुना ।
नास्ति सा नगरी यत्र न वापी न पयोधरा ।
दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥ २६ ॥
अपि च ।
भवन्ति फाल्गुने मांसि वृक्षशाखा विपल्लवाः ।
जायन्ते न तु लोकस्य कदापि चै विपप्लवाः ॥ २७ ॥
यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धितमहोत्सवपरम्परार-
यत्रेति ॥ किंभूताः केदाराः । मनोहारिणि सारसानां द्वन्द्वानि येषु । तथा
तत्पुरुषेण तत्स्वामिना द्विगुना गोयुगयुक्तेनाधिष्ठिताः बहवोऽपि गावः सन्ति ।
द्विगुनेति चोपलक्षणम् । अथवा चकारोऽप्यर्थे । द्विगुणापि तत्पुरुषेणाधिष्ठिताः ।
तथा दृश्यमाना बहवो व्रीहयो येष्विति भूमेः सस्यसंपदुक्ता । गद्यबन्धास्तु मनो-
हारिणः साराः श्रेष्ठाः । सद्द्वन्द्वाः द्वन्द्वसमाससहिताः । तथा तत्पुरुषेण द्विगुना च
समासेनाधिष्ठिताः । तथा दृश्यमानबहुव्रीहिसमासाः । तथाच द्वन्द्वतत्पुरुषद्विगुब-
हुव्रीहिसमासबहुला इत्यर्थः ॥ क ॥
नास्ति सेति ॥ यत्र देशे सा क्वापि नगरी नास्ति । यस्यां न वापी निपा-
नम् । न पयोधरा पयःप्रधाना भूमिः । नच तरुणी पीनस्तनी स्त्री दृश्यते । यदि
पुनस्त्रयमपि चतुर्थपादेन विशेषणीकर्तुमाग्रहस्तर्हि पयोभूम्योरेवं व्याख्यायते ।
‘णु स्तुतौ’ । नवं स्तुतिमाप्तुतोऽभीक्ष्णमिति नवापिनी । तथाभूते इनपयसी
स्वामिजले धरतीति तथोक्ता वापी । भूस्तु वपन्त्यभीक्ष्णमिति वापिनः कर्षकास्ते-
षामिना आजीवहेतुत्वात्स्वामिनः पयोधरा मेघा यस्यां तथाभूता । पश्चात्तन्नसंबन्धः।
अवृष्टिनिष्पाद्यसस्येति भावः । अयमर्थस्तेनार्हः । प्रशस्तस्वामिपयस्का वापी,
अवृष्टिनिष्पादितसस्या भूमिः, तरुणी पीनस्तनी च कान्ता, यस्यां दृश्यते सैव
नगरी यत्र देशेऽस्तीति । अथवा यत्र देशे सा नगरी नास्ति यस्यां नगर्यां
वापी स्त्री च न दृश्यते । कीदृशी वापी । न न पयोधरा । अपि तु पयोधरा ।
नञ्द्वयस्य प्रकृतार्थसूचकत्वात् । स्त्री च किंभूता । नवा तरुणी । तथा पीनप-
योधरा । सर्वासपि नगरीषु पयोधरा वाप्यस्तरुणयः पीनस्तन्यश्च स्त्रियो दृश्यन्त
इति भावः ॥ २६ ॥
भवन्तीति ॥ शाखा विगतपल्लवा यत्र भवन्ति । जनस्य विपदां लवा अपि
न स्युः ॥ २७ ॥
'यत्रेति ॥ यत्र जनाः खर्गिणमपि न्यक्कुर्वन्ति । कुलीना अभिजाताः । विमा-
१ 'मासे'. २ 'च'. ३ 'न'. ४ 'यत्र च'. ५ 'समृद्धिवृद्धिवर्धित'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA