सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 121, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 121

चतुर्थ उच्छ्वासः । १०३
अविनीतोऽग्निरिवं दहति ॥ क ॥
अजाततनयश्च्छाग इव नाभिनन्द्यते जनेन ॥ ख ॥
किं च ब्रूमः ।
सुसहायशून्यस्य भवतो यस्यामीमांसाभियोगा राक्षसा इव, अन्या-
याः पारदारिका इव, अयोगक्रिया लोहकारा इव, अश्रुतागमाः शोक-
वेगा इव सहायाः ॥ ग ॥
न च ते दुःशिक्षितनृपकलभव्याकरणमार्गेषु निपुणा नर्तकीव
मित्रमण्डली ॥ घ ॥
तदायुष्मन्नहितया प्रकृत्या भुजंग इव भयाय लोकस्य ॥ ङ ॥
विनयविस्मृतौ दूषणमाह—अविनीत इति ॥ अविनयी पुमानग्निरिव दाहमुत्पा-
दयत्यात्मनः परस्य वा । अविरूर्णाद्युस्तेन नीतो यथाम्निस्तन्नेतारं दहति । ज्वलन्ती
हि गड्डरिका स्वीकृता दहतीति लोकोक्तिः । अथवा अविरग्निवाहनम् ॥ क ॥
नन्वात्मदाहकाः पतिविपत्तौ रूयादयः परदाहकाः कामत्रिपुरान्तकप्रभृतयश्च
श्रूयन्ते । ततश्चाविनयाद्दाहात्मकपि मां जनः स्तोष्यतीति निरस्यन्नाह—अजा-
तेति ॥ न जातो नयो यस्य स छाग इव न स्तूयते जनेन । स्तुतिमपि न प्राप्नो-
तीत्यर्थः । छागस्त्वजायास्तनयः सुतः ॥ ख ॥
नन्वात्मनः स्वामी यादृक्तादृग्वा भवतु चेत्सुसहायः । तदपि त्वयि नास्तीत्या-
विष्कुर्वन्नाह—सुसहायेति ॥ यस्य ते ईदृशाः सहायाः । न मीमांसाभियोगो
विचारोत्साहो येषाम् । राक्षसास्तु मांसेऽभियोगो येषां ते । अमी इति तद्विशे-
षणम् । न विद्यते न्यायो येषामित्यन्याया न्यायरहिताः । उपमाने तु अन्यामन्य-
संबद्धाशयन्ते गच्छन्तीत्यन्यायाः । परस्त्रीरता इत्यर्थः । अलब्धलाभो लब्धपरिर-
क्षणं रक्षितविवर्धनं च योगः । तस्य क्रिया नास्ति येषां ते तथोक्ताः असंबद्धक-
र्माणो वा । पक्षे अयो गच्छतीत्ययोगा लोहगता क्रिया येषाम् । तथा न श्रुत
आगमः शास्त्रं यैस्ते । शोकप्रसरस्तु अश्रुताया नयनजलत्वस्यागमो येषु ॥ ग ॥
एवं सहायसंपदं निषिध्य मित्रमण्डलीमवद्ययन्नाह—न चेति ॥ दुःशिक्षिक्ष-
तेति नृपकलभेति चामन्त्रणम् ॥ ते तव मित्रमण्डली नच व्याकरणमार्गेषु कु-
शला । शब्दतत्वावबोधे हि नीतिशास्त्राधिगमः । नीत्यवगमे हि कृत्याकृत्यविमर्श-
नम् । तस्मात्संपदः । न च तन्नैपुण्यं भवन्मित्रमण्डल्यामस्तीति भावः । नर्तकी-
पक्षे दुःशिक्षितनृपकलेति संबोधनम् । सा च भरतोक्तेषु करणमार्गेषु भव्या
प्रशस्ता ॥ घ ॥
तदेति ॥ तदित्युपसंहारे । आयुष्मन्नित्यामन्त्रणे । अहितया हितेतरया ।
प्रकृत्या अविनयादिस्वभावेन । अयुक्तसहायमित्रलक्षणया चामात्यादिकया युक्तः
१ 'स्वात्मानं परं च' २ 'प्रकृत्या युक्तो'