सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 119, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 119

चतुर्थ उच्छ्वासः । १०१
अपि च ।
आस्यश्रीः संनिभेन्दोः समदृषक्ककुद्बन्धुरः स्कन्धसंधिः
स्निग्धा रुक्कुन्तलानामनुहरति दृशोर्द्वन्द्वमिन्दीवरस्य ।
स्थानं वक्षोऽपि लक्ष्म्याः, स्पृशति भुजयुगं जानुनी, वृत्त रम्ये
जङ्गे, क्षामोऽवलग्नः, किमु निषधपतेः श्लाघनीयं न तस्य ॥ १६ ॥
अस्ति च तस्य नरपतिसूनोः समानशीलवयोविद्यालंकारकान्ति-
क॑लापपरिपूर्णदेहः, शरीरमात्रद्वितीयोऽप्यद्वितीयहृदयमेकं जीवितम-
पर उच्छ्वासः, सालङ्कायनसूनुः श्रुतशीलो नौम मन्त्री मित्रं च ॥ क ॥
एकदा तु पूर्वदिग्वधूकुङ्कुमपङ्कपल्लवितवदनायमाने निरुद्धान्धतमसे
सौगन्धिकबन्धुनि बन्धूककुसुमारुणे वियति तरतीव तरुणतरे तरणि-
मण्डले, मण्डयति कुसुम्भैकुसुमकेसरप्रैकरायमाणे गगनाङ्गणमम्भो-
जमुकुलनि॑िद्रामुषि रोचिषां चये, चलिते च विच॑रितुमुपवनतरुराजि-
कर्णोत्पले निद्राविरामवि॑धुतपक्षे पक्षिकुले, कृतप्राभातिककर्मणः से-
भाङ्गणमण्डपमध्यवर्तिनो दत्तसेवावसरस्य राज्ञः प्रविष्टे मन्त्रिणि साल-
ङ्कायने, प्रणामपर्यस्तकणोत्पलर्धवलितसभाङ्गणे यथासनमुपविष्टे प्रस्तु-
तसेवालावापरञ्जितराजनि राजन्यचक्रे, प्रक्रान्ते शास्त्रीयविनोदे, श्रुत-
शीलेन समर्मेन्यैश्च क्रीडासहायैरनुचरैरनुगम्यमानो नलः सेवासुखम-
नुभवितुमागतवान् ॥ ख ॥
आगत्य च क्षितितलमिलन्मौलिमण्डलः प्रणम्य पितुः पादारवि-
न्दद्वयमदू॑रेदत्तमासनं भेजे ॥ ग ॥
उपविष्टे च तस्मिन्ननभिवादनादुत्पन्नमन्युरीषत्कोपॅकम्पितकरपरा-
मृष्टकूर्चाग्रिमग्रन्थिरमणीर्मन्त्रिमण्डलस्य भ्रूभङ्गभीषणया शोणकोणा-
न्तरतरत्तरलतारया दृशाऽभिमुखम॑स्य सालङ्कायनः प्रणयपरुषाक्षरम-
भाषत ॥ घ ॥
अस्तीति ॥ अपर उच्छ्वास इति । न परोऽस्मादित्यपर उत्कृष्टः ॥ क ॥
उपविष्ट इति ॥ आत्मनोऽप्रणामाद्विदितविनयाकौशलं नलं प्रीतिभाक् पैतृको
मन्त्री शिक्षाबुद्ध्या परुषवर्णमवादीत् ॥ घ ॥
१ 'कलाकलाप'. २ 'अद्वितीयम्'. ३ 'नाम मित्रम्'. ४ 'कुङ्कुम'. ५ 'करायमाणे'.
६ 'मुद्रा'. ७ 'चरितुम्'. ८ 'अवधूत'. ९ 'सभामण्डप'; 'सभामणिमण्डपः'.
१० 'मकरन्दशवलित'; 'शवलित'. ११ 'अन्यैरपि'. १२ 'आसनम्'; 'अदूरदत्तासनम्'.
१३ 'सकम्प'. १४ 'अस्यावलोक्य'.