नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 90, कुल 226 में से
संदर्भ में पढ़ें७४ नैषधचरितम् । [ द्वितीयः
Digitized by Sarayu Trust Foundation and eGangotri
अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षतौ ॥ २ ॥
अधुनीतेति । स खगः = हंसः, उत्फुल्लतनूरुहीकृतां = नृपकरपीडना-
दुद्बुद्धपतत्रीकृतां । 'पतत्रञ्च तनूरुहम्'इत्यमरः । तनुं = शरीरं नैकधा = अनेकधा ।
नञर्थस्य 'सुप्सुपा'इति समासः । नञ्समासे न लोपप्रसङ्गः । अधुनीत=धुतवान् ।
धूञः क्रयादेर्लङिति तङ् । 'प्वादीनां ह्रस्वः' इति ह्रस्वः । किञ्च [ कर-यन्त्रण-
दन्तुरान्तरे ] करयन्त्रणेन नृपकरपीडनेन, दन्तुरे निम्नोन्नतमध्यप्रदेशे । पक्षती =
पक्षमूले । 'स्त्री पक्षतिः पक्षमूलम्'इत्यमरः । चञ्चुपुटेन = त्रोटिसम्पुटेन, व्यलिखत्
=विलेखनेन ऋजूचकारेत्यर्थः । एतदादेः श्लोकचतुष्टयेषु स्वभावोक्तिरलङ्कारः ॥२॥
उस राजहंस ने अपने उत्फुल्ल रोमवाले शरीर को अनेक प्रकार से फड़-
फड़ाया ; और सम्पुट के समान संयुक्त चञ्चु-युगल से अपने डैनों की जड़ को
कुरेदा, कि जिसका विचला हिस्सा, नल के हाथ (की अंगुलियों के बन्धन) में
रहने से, ऊँचा-नीचा हो गया था ॥ २ ॥
अयमेकतमेन पक्षतेरधिमध्योध्वंगजङ्घमङ्घ्रिणा ।
स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ ३ ॥
अयमिति । अयं = हंसः स्खलनक्षणे एव = मोचनानन्तरमेवेत्यर्थः ।
एकतमेनाङ्घ्रिणा पक्षतेः = पक्षमूलस्य [ अधिमध्योध्वंगजङ्घं ] मध्ये इत्यधि-
मध्यम् । ऊर्ध्वगा ऊर्ध्वगामिनो जङ्घा यस्मिन् कर्मणि तद्यथा तथा कण्डूयनेन
तत्तथा, द्रुतकण्डूयितमौलिः = सत्वरं कर्षितचूडः सन्, आलयं = निजावासं
शिश्रिये = श्रितवान् ॥ ३ ॥
वह हंस-नल के हाथ से छुटकारा पाते ही, एक पंजे से जल्दी-जल्दी शिर को
खुजला कर और दोनों डैनों की जड़ के बीच में जंघा ऊँची करके, — अपने
घोंसले में चला गया ॥ ३ ॥
स गरुद्बनदुर्गदुर्गर्हान् कटु कीटान् दशतः सतः क्वचित् ।
नुनुदे तनुकण्डुपण्डितः पटुचञ्चुपुटकोटिकुट्टनैः ॥ ४ ॥
स इति । पण्डितः = निपुणः स = हंसः [ गरुद्बनदुर्गदुर्गर्हान् ] गरुतः
पक्षा एव वनदुर्गं, तत्र दुर्गर्हान् ग्रहीतुमशक्यान्, कटु=तीक्ष्णां, दशतः=दन्तैस्तुदतः,
क्वचित् = कुत्रचिदेव सतः = वर्त्तमानान् कीटान् = क्षुद्रजन्तून् [ पटुचञ्चुपुट-