नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 80, कुल 226 में से
संदर्भ में पढ़ें६४ | नैषधचरितम् । [ प्रथमः
ससम्भ्रमोत्पातितपतत्कुलाकुलं सरः प्रपद्योत्कतयाऽनुकम्पिताम् ।
तमूर्मिलोलैः पतगग्रहात्नृपं न्यवारयद्वारिरुहैः करैरिव ॥१२६॥
स इति । [ससम्भ्रमोत्पातित-पतत्कुलाकुलं] ससम्भ्रमं सत्वरम्, उत्पातिना
उड्डीयमानेन, पतत्कुलेन पक्षिसङ्घेन, आकुलं सङ्कुलं, सरः कर्तृ । उत्कतया =
उन्मनस्तया । 'उत्क उन्मनाः' इति निपातनाद्विधानाच्च साधुः । अनुकम्पितां
प्रपद्य = कृपालुतां प्राप्य, तं नृपम्, ऊर्मिलोलैः = चलैर्वारिरुहैः करैरिति व्यस्त-
रूपकं । पतगग्रहात् = पक्षिग्रहात्, न्यवारयत् इव इत्युत्प्रेक्षा; वास्तवनिवारणा-
सम्भवादुत्प्रेक्षा । निवारणस्य करसाध्यत्वात् तत्र रूपकाश्रयणम् । अत एवैवं शब्दस्य
उपमाबाधेनार्थनुसाराद्व्यवहितान्ययेनाप्युत्प्रेक्षा व्यञ्जकत्वमिति रूपकोत्प्रेक्षयोरङ्गाङ्गि-
भावेन सङ्करः ॥१२६॥
( उधर ) डर के मारे हड़बड़ी में उड़ते हुए पक्षियों के समूह से अस्थिर
हुए सरोवर ने— मानो ( पक्षियों के पंखों से कुल-कुल उठा हुआ जल वाला
अर्थात् ) उन्मना हो, हंस पर करुणा करके, लहरों से चञ्चल हुए, कमलरूपी करों
द्वारा, राजा नल को हंस के पकड़ने से मना किया-- ऐसा प्रतीत होता था ॥१२६॥
पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।
चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥१२७॥
पतत्रिणेति । रुचिरेण पतत्रिणा=हंसेन, वञ्चितं = विरहितं तत्पल्वलं =
सरः प्रविहाय, प्रयान्त्याः = गच्छन्त्याः श्रियः = लक्ष्म्याः, [चलत्पदाम्भोरुह-
नूपुरोपमा] चलद्रयां पदाम्भोरुहनूपुराभ्याम्, उपमा साम्यं, यस्याः सा, कलहंस-
मण्डली कूले चुकूज । स्वयूथभ्रंशे कूजनमेषां स्वभावः । तत्र हंसेनेव सह गच्छन्त्या
सरःशोभायाः, श्रीदेव्या सहाभेदाध्यवसायेन कूजत्कलहंसमण्डल्यां तन्नूपुरत्वमुत्प्रे-
क्ष्यते । उपमाशब्दोऽपि मुख्यार्थानुपपत्तेः सम्भावणालक्षक इत्यवधेयम् ॥१२७॥
सुन्दर राजहंस से विहीन उस सरोवर को परित्यागकर, जाती हुई सुन्दर हंस-
मण्डली ने किनारे पर, ऐसा मधुर गुञ्जन किया, मानो प्रस्थान करती हुई सरोवर-
सौन्दर्य-श्री के चञ्चल चरण-कमलों के पाजेब की छुमछुम की आवाज़ हो ॥१२७॥
न वास्ययोग्या वसुधेयमीदृशस्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः ।
इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरारवैः खलु ॥१२८॥
नेति । इयं वसुधा त्वया न वासयोग्या = निवासार्हा न । कुतः ? अङ्ग = भो !