सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 42, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 42

२६ नैषधचरितम् । [ प्रथमः
'इन नल के साथ दमयन्ती का सङ्गम होगा'-यह विधाता के (दृढ़ सङ्कल्प का
विलास था कि नल के धैर्यरूपी ( दुर्भेद्य ) कवच को,-फूलों के बने हुए बाणों से-
अशरीरधारी कामदेव ने-छलनी कर दिया ॥४६॥
किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो ।
स्मरं तनुच्छायतया तमात्मनः शशाक शङ्के स न लङ्घितुं नलः ॥४७॥
अथ विधिमपि जितवतः किं विध्यपेक्ष्येत्याशयेनाह-किमिति । किमन्यत्
= अन्यत् किमुच्यते ? पितामहः = विधिः अपि [ यदस्त्रतापितः ] यस्य स्मर-
स्यास्त्रैस्तापितः सन्तापितः, अद्यापि वारिजमाश्रयति, तस्य पद्मासनत्वादिति
भावः । शिशिरोपचारश्च गम्यते । अहो ! = विधेरपि स्मरविधेयत्वमाश्चर्यम् ।
तं = पितामहतापिनं स्मरं = कामं स नलः आत्मनः, [ तनुच्छायतया ] तनोः
छायेव छाया कान्तिर्यस्य तस्य भावस्तत्ता, तया तनुच्छायतया । तनोश्छाया
अनातपस्तनुच्छायम् । तत्तयेति च गम्यते । 'छाया त्वनातपे कान्तौ' इति वैज-
यन्ती । लङ्घितुं न शशाक इत्यहं शङ्के, न हि स्वच्छाया लङ्घितुं शक्या इति भावः।
अत्र स्मरलङ्घने पितामहोऽप्यशक्तः किमुत नल इत्यर्थापत्तिस्तावदेकोऽलङ्कारः ।
“एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिर-
लङ्क्रिया”इति लक्षणात् । तनोश्छायेव च्छायेत्युपमा, छाययोरभेदाध्यवसायादतिश-
योक्तिः । एतत्त्रितयोपजीवनेनालङ्घ्यत्वे तनुच्छायतया हेतुत्वोत्प्रेक्षणादुत्प्रेक्षा
सङ्कीर्णा; सा च शङ्क इति व्यञ्जकप्रयोगाद्वाच्येति ॥ ४७ ॥
इससे बढ़ कर और क्या होगा कि स्वयं ब्रह्मा जी कामदेव के बाणों से घायल
होकर, अपना संताप मिटाने के लिए, आज तक कमल पर पड़े हुए हैं । ऐसे
कामदेव का लंघन करने में नल समर्थ न हो सके-यह बड़े आश्चर्य की बात हुई ।
मेरा अनुमान है कि ( सौन्दर्य का अवतार ) कामदेव नल के शरीर की परछाहीं
भर था और कोई भी व्यक्ति अपनी परछाहीं का लंघन नहीं कर सकता ॥ ४७ ॥
उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् ।
त्रपासरीद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥४८॥
उरोभुवेति । सा तन्वी = भैमी, [ त्रपासरीद्दुर्गं ] त्रपैव सरित्, सैव
दुर्गं नलसम्बन्धि, तदपि प्रतीर्य नलस्य हृदयं विवेश इति यत् । तत्प्रवेशनं,
यत्तदोर्नित्यसम्बन्धात् तत् वयःकृतेन नवोपहारेण = नूतननिर्माणेन, उरोभुवा