सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 22, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 22

६ नैषधचरितम् । [ प्रथमः
पत्त्या अर्थापत्तिरलंकारः। अधर्मोऽपि धार्मिक इति विरोधश्चेत्यनयोः संसृष्टिः ॥ ७ ॥
इन्होंने कृत (सत्य) युग में धर्म को (तप, ज्ञान, यज्ञ, दान रूपी) चारों चरणों
से स्थिर कर दिया था। फिर भला ऐसा कौन मनुष्य था-जो तप न करता ? यहाँ
तक कि अधर्म भी दुर्बल होकर, एक पैर की एक कानी अंगुलि ( लेश मात्र ) से
भूमि पर स्पर्श ( पृथ्वी पर खड़ा हो ) कर, तप में लग गया ॥ ७ ॥
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥ ८ ॥
अथास्य सप्तभिः प्रतापं वर्णयति—यदित्यादिभिः । अस्य = नलस्य, यात्रासु
= जैत्रयानेषु, बलोद्धतं = सैन्योत्थितं [ स्फुरत्प्रतापानलधूममञ्जिम ] स्फुरतः
ज्वलतः प्रतापानलस्य यो धूमः तस्येव मञ्जिमा मनोहारित्वं यस्य तथोक्तं । 'सप्तम्युप-
माने'इत्यादिना बहुव्रीहिः । मञ्जुशब्दादिमनिच्प्रत्ययः । यत् रजः=धूलिः, तदेव
गत्वा, उत्क्षेपवेगादिति भावः । सुधाम्बुधौ = क्षीरनिधौ [पङ्कीभवत्] पतितम्
अत एव पङ्कीभवत् सत् । विधौ = चन्द्रे तद्वासिनीति भावः । अङ्कतां=कलङ्कत्वं
दधाति । अत्रापि व्यञ्जकाप्रयोगात् गम्योत्प्रेक्षा तथाच कलङ्कत्वं दधातीवेत्यर्थः ॥८॥
दिग्विजय के अवसर पर, नल की सेना से उड़ायी गयी धूलि-जो प्रताप रूपी
जलती हुई आग के धूँए के सौन्दर्य के समान थी, वह-क्षीरसागर में जाकर गिर
पड़ी; इसी लिए अत्यधिक कीचड़ होकर चन्द्रमा में कालापन धारण करती है ॥८॥
स्फुरद्धनुर्निस्वनतद्घनाशुग-प्रगल्भवृष्टिव्ययितस्य सङ्गरे ।
निजस्य तेजःशिखिनः परःशता वितेनुरङ्गारमिवायशः परे ॥ ९ ॥
स्फुरदिति । सङ्गरे = युद्धे, शतात परे परःशताः = शताधिका इत्यर्थः,
बहव इति यावत् । पञ्चमीति योगविभागात् समासः । राजदन्तादित्वादु-
पसर्जनस्य परनिपातः पारस्करादित्वात् सुडागमश्च । परे = शत्रवः [ स्फुरद्धनुर्नि-
स्वनतद्घनाशुगप्रगल्भवृष्टिव्ययितस्य] स्फुरन्तौ प्रसरन्तौ, धनुर्निस्वनौ चापघोषौ,
इन्द्रचापगर्जिते च, यस्य यत्र वा तथोक्तः, सः नल एव घनः मेघः, तस्य आशुगानां
शराणाम्, अन्यत्र आशुगा वेगगामिनी, यद्वा आशुगेन वेगगामिना वायुना, या
प्रगल्भा महती वृष्टिः । 'आशुगौ वायुविशिखौ'इत्यमरः । तया व्ययितस्य निर्वापि-
तस्य । विपूर्वाद्वयतेः कर्मणि क्तः । निजस्य तेजःशिखिनः = प्रतापाग्नेः, अङ्गार-