सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 208, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 208

१९२ | नैषधचरितम् । | [ तृतीयः
हैं, जिन पर न तो पत्रीवली की रचना हो सकती है और न उनकी प्रवीणता ही
प्रकट हो सकती है ) ॥ ११८ ॥
एकः सुधांशुर्न कथञ्चन स्यात्तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युति-सद्वितीयः ॥११९॥
एक इति । एकः सुधांशुस्त्वन्नयनद्वयस्य, कथञ्चन=कथञ्चिदपि, [ तृप्ति-
क्षमः ] तृप्तौ प्रीणने, क्षमो न स्यात् तत्=तस्मात् [नलास्य-शीतद्युति-सद्वितीयः]
नलास्यशीतद्युतिना नलमुखचन्द्रेण सद्वितीयः सन् । [ त्वल्लोचनासेचनकः ]
त्वल्लोचनयोरासेचनकतृप्तिकरोऽस्तु । 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्'
इत्यमरः । आसिच्यते आप्यतेऽनेनेत्यासेचनकं; करणे ल्युट् ; स्वार्थे कः ॥११६॥
अकेला चन्द्रमा किसी तरह भी आपके युगल नयनों को तृप्त करने में समर्थ
नहीं हुआ, ( क्योंकि वह अकेला है, और तुम्हारे पास दो आँखें हैं, भला एक
व्यक्ति दो को कैसे सन्तुष्ट कर सकता है) इसी लिए नल का मुख-रूपी दूसरा चन्द्र
बनकर, आपके युगल नेत्रों को अतीव तृप्तिकारक होगा ॥११६॥
अहो तपःकल्पतरुर्नलीयस्त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः ।
त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥१२०॥
यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते ।
अङ्गमर्दिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तथैव ॥१२१॥
अथ द्वाभ्यां नलतपःसाफल्यमाह - अहो इत्यादिना । नलस्यायं नलीयः ।
'वा नामधेयस्य' इति वृद्धसंज्ञायां, वृद्धाच्छः । तप एव कल्पतरुः = अभिनवः
प्रसिद्धकल्पतरुविलक्षण इत्यर्थः । अत एव अहो = इत्याश्चर्ये । वैलक्षण्यमेवाह --
त्वदित्यादि । अत्रापि यच्छब्दो द्रष्टव्यः । यः कल्पतरुः, [त्वत्पाणिजाग्रस्फुर-
दङ्कुरश्रीः ] तव पाणिजाग्रैः कररुहाग्रैर्नित्यं स्फुरन्ती, अङ्कुरश्रीर्यस्य सः, अङ्कुरवा-
नित्यर्थः । यस्य त्वद्भ्रूयुगमेव, द्वयोः पत्रयोः समाहारो द्विपत्री = प्रथमोत्पन्न-
पत्रद्वयं खलु । तवाधरो यत्कलम्बः = यस्य नासिकाकिसलयकाण्ड इत्यर्थः ।
'अस्य तु नालिका कलम्बश्च' इत्यमरः । रज्यति=स्वयमेव रक्तो भवति । 'कुषिरजोः
प्राचां सन्' 'परस्मैपदञ्च' इति कर्मकर्तरि रूपम् ॥१२०॥
य इति । यस्ते नवः कराभ्यां पल्लवितः = अभिनवः पल्लवितः सञ्जात-
पल्लवः । यस्तव स्मितेन कोरकितः = सञ्जातकोरकः सन् आस्ते । यस्तव [अङ्ग-