सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 20, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 20

४ नैषधचरितम् । [ प्रथमः
Digitized by Sarayu Trust Foundation and eGangotri

अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥ ५ ॥
अथास्यापरा अपि चतस्रो विद्याः सन्तीत्याह-अमुष्येति । अमुष्य = नलस्य
रसनाग्रनर्त्तकी = जिह्वाग्रसञ्चारिणीत्यर्थः । विद्या = पूर्वोक्ता सूदविद्या चेति गम्यते
रसनाग्रनर्त्तित्वधर्मादिति भावः । त्रयीव = त्रिवेद इव 'इति वेदास्त्रयस्त्रयी' इत्यमरः ।
[ अङ्गगुणेन ] अङ्गानां 'शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चितिः । ज्योतिष-
ञ्चेति विज्ञेयं षडङ्गं बुधसत्तमैः' इत्युक्तानां । षण्णां मधुराम्ल-कषाय-लवण-कटु-
तिक्तानाञ्च रसानां षण्णां गुणेन आवृत्त्या वैशिष्ट्येन च । अथ च अङ्गगुणेन=शरीर-
सामर्थ्येन, स्वकीयव्युत्पत्तिविशेषेणेति यावत् । विस्तरं = वृद्धिं, नीता = प्रापिता
सती, [नवद्वयद्वीपपृथग्जयश्रियाम्] नवानां द्वयं नवद्वयं लक्षणया अष्टादशेत्यर्थः ।
तेषां द्वीपानां पृथग्भूता जयश्रियः, तासां जिगीषया व्यञ्जकाप्रयोगाद् गम्योत्प्रेक्षा ।
जेतुमिच्छयेवेत्यर्थः । अष्टादशताम् अगाहत = अभजत । पूर्वोक्तासु चतुर्दशसु
विद्यासु विशिष्टव्युत्पत्त्या आयुर्वेदादीनामनुशीलनसौकर्यात् तत्पारदर्शित्वेन, सूदविद्या-
पक्षे च षण्णां रसानाम् उल्बणानुलब्णसमतारूपत्रैविध्येन त्रयीपक्षे च एकैकवेदस्य
प्रत्येकशः अङ्गानां शिक्षादीनां षाड्विध्यवैशिष्ट्येन चाष्टादशत्वसिद्धिः । प्रागुक्ता-
श्चतुर्दश विद्याः । 'आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशास्त्रं चतुर्थं तु
विद्या ह्यष्टादश स्मृताः' इति । अङ्गविद्यागुणेन त्रय्या अष्टादशत्वमित्युपाध्याय-
विश्वेश्वरभट्टारकव्याख्याने तु 'अङ्गानि वेदाश्चत्वारः' इत्याथर्वणस्य पृथग्वेदत्वे त्रयीत्व-
हानिः । त्रय्यन्तर्भावे तु नाष्टादशत्वसिद्धिरिति चिन्त्यम् । उपमोत्प्रेक्षयोः संसृष्टिः ॥५॥
पर, जिस तरह त्रयीविद्या ( तीनों वेद ) षडङ्गों से गुणित होने पर १८
संख्यान्वित हो जाती है—उस तरह नल के जिह्वाग्र पर नर्तन करनेवाली विद्या
( सरस्वती )—मानों १८ द्वीपों की पृथक् पृथक् ( नल की ) विजयसूचक लक्ष्मी
को ( सपत्नी भाव से ) जीतने की कामना से ही--१८ गुनी हो गयी ॥ ५ ॥
दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसभावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥ ६ ॥
अथास्य देवांशत्वमाह--दिगीशेति । [दिगीशवृन्दांशविभूतिः] दिशामीशाः
दिगीशाः, दिक्पालो इन्द्रादयः, तेषां वृन्दं समूहः, तस्य मात्राभिः अंशैः, विभूति-
रुद्भवः यस्य तथाभूतः । तथाच—'इन्द्रानिल-यमार्काणामग्नेश्च वरुणस्य च । चन्द्र-
वित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः' इति । 'अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो