नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 163, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातु-मदयन्तिकासहितम् १४७
वैगैरित्यर्थः । एवंविधैः तदश्वैः कतमा दिक् न निर्जिता = लङ्घिता आसीत्,
सर्वापि लङ्घितैवासीदित्यर्थः । अत्राश्वानां विशिष्टवैनतेयादित्वेन निरूपणाद्रूपकालङ्कारः॥
नल के घोड़ों ने—पंख के बिना ( अर्थात् पंख रहित होने पर भी, पंख-
सहित ) विनतातनय गरुड की गति से, नेत्रों को दीख पड़ने वाले वायु की गति
से और महापरिमाणवाले मन की गति से—किन दिशाओं को न जीता हो ?
( अर्थात् वे अखिल दिग्विजयी हैं ) ॥ ३७ ॥
संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु ।
तद्वाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ॥३८॥
संग्रामेति । अरीणाम् अस्रैः = असृग्भिः [ नदीमातृकतां ] नद्येव
माता यासां तास्तत्ता नदीमातृकता, नद्यम्बुसम्पन्नशस्याद्यता । 'देशो नद्यम्बुवृष्ट्य-
म्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्' इत्यमरः। 'नद्यृतश्च'
इति कप् । 'त्वतलोर्गुणवचनस्य' इति पुंवद्भावः । तां, गतासु संग्रामभूमीषु,
[ तद्वाणधारा-पवनाशनानां ] तस्य नलस्य बाणधाराः बाणपरम्परास्ता एव पव-
नाशनाः सर्पाः, तेषां राजव्रजीयैः = राजसंघसम्बन्धिभिः, वृद्धाच्छः । असुभिः
= प्राणवायुभिः, सुभिक्षम् = भिक्षाणां समृद्धिर्भवति । समृद्ध्यावव्ययीभावः ।
नदीमातृकदेशेषु सुभिक्षं भवतीति भावः । रूपकालङ्कारः ॥३८॥
नल के द्वारा छोड़े गये ( सर-सर करते हुए ) बाणरूपी सपों को, उन्हीं बाणों
से निकाली गयी वैरि-राजसमूह की प्राण-वायु को खिलाकर, वैरियों के रक्त से
( अनाज उत्पन्न करने के कारण ) नदी-रूप माता हुई ( अर्थात् नदी बनी हुई )
रणभूमि सुभिक्ष करने वाली होती है ॥३८॥
यशो यदस्याजनि संयुगेषु कण्डूलभावं भजता भुजेन ।
हेतोर्गुणादेव दिगापगाली-कूलङ्कषत्वं व्यसनं तदीयम् ॥३९॥
यश इति । संयुगेषु = समरेषु कण्डूलभावं = कण्डूलत्वं । 'सिध्मादिभ्यश्च'
इति मत्वर्थीयो लच् । भजता अस्य भुजेन यद्यशः अजनि = जनितं । जनेर्ण्य-
न्तात्कर्मणि लुङ् । तदीयं = तस्य यशःसम्बन्धि [ दिगापगाली-कूलङ्कषत्वं ]
दिशः एव आपगाः नद्यः, तासां आलिः राजिः, तस्याः कूलङ्कषतीति कूलङ्कषं ।
शिवभागवतवत्समासः । 'सर्वकूला' इत्यादिना खचि मुमागमः । तस्य भावस्तत्त्वं ।
तत्र व्यसनम् = आसक्तिः हेतोः = कारणस्य भुजस्य, गुणादेव = कण्डूलत्वादेव