नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 150, कुल 226 में से
संदर्भ में पढ़ें१३४ नैषधचरितम् । [तृतीयः
अः । 'अपथं नपुंसकं तस्मिन्, अपथे=दुर्मागे, अकृत्ये च; पदं=पादं, व्यवसायं च;
अपयन्ती = कुर्वन्ती । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । [ मरु-
ल्ललत्पल्लवपाणिकम्पैः ] मरुता ललन् चलन्, पल्लव एव पाणिस्तस्य कम्पैः,
कपोतहुङ्कारगिरा च इयं वनालिः आली इव = सखी इव, त्वां प्रतिषेधति =
निवारयति । पश्य । इति वाक्यार्थः कर्म । यथा लोके अमार्गप्रवृत्तं सुहृज्जनः
पाणिना वाचा च वारयति, तद्वदित्यर्थः । अत एव पल्लवपाणीत्यादौ रूपकाश्रयणं,
तत्सङ्कीर्णा वनाल्यालीवेत्युपमा ॥१४॥
तुमको कु-पथ (मेरे पकड़ने के असम्भव कार्य; कुमार्ग) पर पद (परिश्रम;
पैर) अर्पण (करते; रखते) करते देखकर, पवन से चञ्चल हुए पल्लव रूपी हाथ
को हिलाकर और कबूतरों की 'हुँ'कार रूप बोली से, देखो, - यह वनाली (वन-
श्रेणी) आली (सखी) के समान, तुम्हें मना कर रही है ॥१४॥
धाय्र्यः कथंकारमहं भवत्या वियद्विहारी वसुधैकगत्या ।
अहो ! शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥१५॥
धाय्र्य इति । [ वसुधैकगत्या ] एकत्रैव गतिर्यस्यास्तया एकगत्या, वसुधा-
यामेकगत्या, भूमात्रचारिण्येत्यर्थः । शिवभागवतवत्समासः । भवत्या वियद्विहारी
= खेचरोऽहं कथङ्कारं = कथमित्यर्थः । 'अन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत्'
इति कथंशब्दोपपदात्करोतेर्णमुल् । धाय्र्यः = धर्तुं ग्रहीतुं शक्य इत्यर्थः । 'शकि लिङ्
च' इति चकाराच्छक्यार्थे कृत्यप्रत्ययः । अनेन स्मरस्य सख्या = सखिना तदु-
द्दीपकेन वयसा यौवनेन । सखिशब्दस्य भाषितपुंस्कत्वात् पुंवद्भावः । तव शिशुत्वं
= शैशवं न खण्डितं = न निवर्तितं । अहो = विरुद्धवयसोरेकत्र समावेशादाश्चर्य्य-
मित्यर्थः । अत्राधार्यत्वस्य वसुधागतिवियद्विहारपदार्थहेतुकत्वादेकः काव्यलिङ्गभेदः,
तथा शैशवाखण्डनस्य पूर्ववाक्यार्थहेतुकत्वादपर इति सजातीयसङ्करः ॥१५॥
भला बताओ तो सही कि तुम मुझे कैसे पकड़ोगी ? क्योंकि मैं आकाश में
विहार करने वाला हूँ और तुम्हारी गति एकमात्र पृथ्वी पर ही है। कामदेव के
मित्र इस नव-यौवन से तुम्हारा शैशव नहीं खण्डित हुआ-यही बड़े आश्चर्य की
बात है (कहाँ तो यह युवावस्था और कहाँ ऐसी बाल-सुलभ चपलता) ॥१५॥
सहस्रपत्रासन-पत्र-हंस-वंशस्य पत्राणि पतत्रिणः ममः ।
अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥१६॥